________________
५५२
15
भाष्यगाथाः १९१२-१८] प्रथम उद्देशः । अथ वैद्यसमीपं गच्छतां विधिमभिधित्सुराह
ग्लानार्थ चोयगपुच्छा गमणे, पमाण उवगरण सउण वाबारे ।
वैद्यसमीपे संगारो य गिहीणं, उवएसो चेव तुलणा य ॥ १९१४॥
गमन
विधि: प्रथमतो नोदकपृच्छा वक्तव्या, ततो गमनं वैद्यसकाशे साधूनाम् , ततस्तेषामेव प्रमाणम्, तत उपकरणम् , ततः शकुनाः, तदनन्तरं वैद्यस्य 'व्यापारः' प्रशस्ता-ऽप्रशस्तरूपः, ततः । 'सङ्गारः' सङ्केतो गृहिणां पश्चात्कृतादीनां यथा कर्तव्यः, ततो वैद्येनौषधादिविषय उपदेशो यथा दीयते, ततस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना कर्तव्या, तदेतत् सर्वमपि वक्तव्यमिति द्वारगाथासमासार्थः ॥ १९१४ ॥ अथ विस्तरार्थः प्रतिपाद्यते-तत्र प्रथमं नोदकपृच्छाद्वारम् , शिष्यः पृच्छति-किं ग्लानो वैद्यसमीपं नीयताम् ? अथ वैद्य एव ग्लानसकाशमानीयताम् ? पत्र कश्चिदाचार्यदेशीयः प्रतिवचनमाह
10 पाहडिय त्ति य एगो, नेयव्यों गिलाणओ उ विजघरं । ___ एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥ १९१५ ॥ 'एकः' कश्चित् प्राह-वैद्ये ग्लानान्तिकमानीयमाने 'प्राभृतिका' वक्ष्यमाणलक्षणा भवति, अतो ग्लान एव वैद्यगृहं नेतव्यः । इत्थमाचार्यदेशीयेनोक्ने सूरिराह-एवं 'तत्र' म्लाननयनविषये भणतो भवतश्चत्वारो मासा गुरुका भवन्ति ॥ १९१५॥ केयं पुनः प्राभृतिका ? इत्यत आह
रह-हत्थि-जाण-तुरए-अणुरंगाईहिँ इंति कायवहो ।
आसण मट्टिय उदए, कुरुकुय सघरे उ परजोगो ॥ १९१६ ॥ स्थ-हस्तिनौ-प्रतीतौ यानं-शिविकादिकं तुरगः-प्रसिद्धः अनुरङ्गा-गन्त्री एतैः आदिशब्दादपरेण वा विच्छर्देन 'आयाति' आगच्छति वैद्ये कायानां-पृथिव्यादीनां वधो भवति । तथा 20 समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । खगृहे तु परयोगो भवति, परप्रयोगेण सर्वमपि भवति न साधूनां किमप्यधिकरणं भवतीत्यर्थः । एषा प्राभृतिका वैद्ये ग्लानसमीपमानीयमाने यतो भवति ॥ १९१६ ॥ अतः किम् ? इत्याह
लिंगत्थमाइयाणं, छण्हं वेजाण गम्मऊ मूलं ।
संविग्गमसंविग्गे, उवस्सगं चेव आणेजा ॥ १९१७ ॥ लिङ्गस्थादीनां षण्णामपि वैद्यानां गृहं ग्लानं गृहीत्वा गम्यताम् नैते उपाश्रयमानेतन्याः, अधिकरणदोषभयात् । संविग्नोऽसंविग्नश्च एतौ द्वावप्युपाश्रयमेवानयेत् , दोषाभावात् ॥१९१७॥ एवं परेणोक्त सूरिराह
वाता-ऽऽतवपरितावण, मयपुच्छा सुण्ण किं सुसाणकुडी । 30
सच्चेव य पाहुडिया, उवस्सए फासुया सा उ ॥ १९१८ ॥ ग्लानो वैद्यगृहं नीयमानो यातेन आतपेन च महतीं परितापनामनुभवति । "मयपुच्छ" त्ति १ एवं नोदकेनोक्ते भा०॥