________________
५५८
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ प्रतिपन्नाणुव्रतः ४ 'संजी' अविरतसम्यग्दृष्टिः ५ 'असंज्ञी' मिथ्यादृष्टिः, स च त्रिधा-अनभिगृहीतमिथ्यादृष्टिः ६ अभिगृहीतमिथ्यादृष्टिः ७ परतीर्थिकश्चेति' ८ । “दिद्रुत्थे" त्ति दृष्टःउपलब्धोऽर्थः-छेदश्रुताभिधेयरूपो येन स दृष्टार्थों गीतार्थ इत्यर्थः, एतत् पदं सप्रतिपक्षमत्र सर्वत्र योजनीयम् । तद्यथा-यः संविमः स गीतार्थो वा स्यादगीतार्थो वा । एवमसंविम5 लिङ्गस्थ-श्रावक-संशिष्वपि गीतार्थत्वमगीतार्थत्वं च द्रष्टव्यम् , तथा चूर्णिकृता व्याख्यातत्वात् ।
अनभिगृहीतादयस्तु त्रयोऽपि नियमादगीतार्थाः । “इड्डि" ति संविमा-ऽसंविमौ नियमादनद्धिकौ, शेषास्तु ऋद्धिमन्तोऽनृद्धिमन्तो वा भवेयुः । सर्वेऽपि चैते प्रत्येकं द्विधा-कुशला अकुशलाश्च । 'गत्यागतिः' चारणिका, सा चामीषां कर्त्तव्या । तद्यथा-प्रथमं संविमगीता
थेन चिकित्साकर्म कारयितव्यम् , अथासौ न लभ्यते ततोऽसंविमगीतार्थेन, तदभावे संविमा10 गीतार्थेन, तदप्राप्तावसंविमागीतार्थेनापि । एवं लिङ्गस्थादिप्वपि संज्ञिपर्यन्तेषु भावनीयम् ।
तेषामप्राप्तौ पूर्वमनभिगृहीतमिथ्यादृष्टिना, ततोऽभिगृहीतमिथ्यात्वेन, तदनन्तरं परतीर्थिकेनापि कारयितव्यम् । एते च पूर्वमनृद्धिमन्तो गवेषणीयाः न ऋद्धिमन्तः, तदीयगृहेषु दुःप्रवेशतया बहुदोषसद्भावात् । एते च यदि चिकित्साकुशला भवन्ति तत इत्थं क्रमः प्रतिपत्तव्यः ।
अथ यः संविग्नगीतार्थः सोऽकुशलो यस्त्वसंविग्नगीतार्थः स कुशलस्ततः संविग्नगीतार्थ परित्य15 ज्यासंविमगीतार्थेन कारापणीयम् । एवं बहूनप्यपान्तराले परित्यज्य यः कुशलस्तेन चैकित्स्यं
कारयितव्यम् , एषा गत्यागतिः प्रतिपत्तव्या । यद्वा "इड्डि गइरागइ" ति ऋद्धिमति गत्यागती कुर्वाणे महदधिकरणं भवति, अतोऽनृद्धिना कारयितव्यम् । स ने चैतत् खमनीपिकाविजृम्भितम् । यत आह विशेषचूर्णिकृत्
अहवा गइरागइ त्ति इड्डिमंताणं इंत-जंताणं अहिगरणदोसा, तम्हा अणिड्डिणा कारेयवं ति ।20॥ १९११ ॥ अमुमेवार्थमपराचार्यपरिपाट्या दर्शयति
संविग्गेतर लिंगी, वइ अवइ अणागाढ आगाढे ।
परउत्थिय अट्ठमए, इड्डी गइरागई कुसले ॥ १९१२ ॥ संविमः १ 'इतरश्च' असंविनः २ लिङ्गी च ३ इति त्रयोऽपि प्राग्वत् , 'व्रती' प्रतिपन्नागुव्रतः ४ 'अव्रती' अविरतसम्यग्दृष्टिः ५ 'अनागाढः' अनभिगृहीतदर्शनविशेषः ६ 'आगाढः' 25 अभिगृहीतमिथ्यादर्शनः ७ ‘परयूथिकः' शाक्य-परिव्राजकादिरष्टमः ८ । “इड्डी गइरागई कुसले" त्ति व्याख्यातार्थम् ॥ १९१२ ॥ अनन्तरोक्तकमविपर्यासे प्रायश्चित्तमाह
वोचत्थे चउलहुगा, अगीयत्थे चउरों मासऽणुग्धाया ।
चउरो य अणुग्घाया, अकुसलें कुसलेण करणं तु ॥ १९१३ ॥ संविमगीतार्थ मुक्त्वा असंविमगीतार्थेन कारयति एवमादिविपर्यस्तकरणे चत्वारो लघवः । 30 गीतार्थ मुक्त्वा अगीतार्थेन कारयति चत्वारो मासा अनुद्धाताः । कुशलं विहायाकुशलेन कारयति चत्वारोऽनुद्धाता मासाः । यत एवमतः कुशलेन चिकित्साकरणमनुज्ञातम् ॥ १९१३ ।।
१°ति ८ । दृष्टार्थो नाम गीतार्थः, एतत् भा० ॥ २ ॥ एतदन्तर्गतः पाठः भा० नास्ति ॥ ३ नेयं गाथा चूर्णिकृता विशेषचूर्णिकृता बृहद्भाष्यकृता वा व्याख्याताऽस्ति ॥