________________
५३६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ 'सुहृद्' मित्रम् , 'प्रेष्यः' दासी-दासादि, 'बन्धुः' माता-भगिन्यादि ॥ १८२१ ॥ अथ पुरःकर्मणः सम्भवमाह
दमए पमाणपुरिसे, जाए पंतीऍ ताण मोत्तूणं । (नि. ४०६६-४११७]
सो पुरिसो तं वऽनं, तं दव्वं अन्नों अन्नं वा ॥ १८२२॥ । सङ्खड्यां पतिपरिवेषणे नियुक्तः कोऽपि 'द्रमकः' कर्मकरः, एतेन प्रभुसन्दिष्टग्रहणम् ; 'प्रमाणपुरुषो वा' देयद्रव्यखामी, अनेन च प्रभुग्रहणम् ; ततश्च दाता प्रभुर्वा प्रभुसन्दिष्टो वा यस्यां पतौ पुरःकर्म कृतवान् तां मुक्त्वा यद्यन्यां पाकिं सङ्क्रामति तदा यदि परिणतहस्तस्ततः कल्पते । अत्र चाष्टौ भङ्गा भवन्ति-स पुरुषस्तां पङ्क्तिमन्यां वा पझिं तद् द्रव्यमन्यद् द्रव्यं वा
इत्यनेन चत्वारो भङ्गाः सूचिताः, एवमन्यः पुरुष इत्यनेनापि चत्वारो भङ्गाः सूच्यन्ते, एवमेते 10 अष्टौ भनाः ॥ १८२२ ॥ एनामेवाष्टभङ्गी स्पष्टयति
सो तं ताए १ अन्नाएँ विइअओ २ अन्न तीऍ ३ दो वग्ने ४। ।
एमेव य अत्रेण वि, भंगा खलु होंति चत्तारि ॥ १८२३॥ . स पुरुषस्तद् द्रव्यं तस्यां पताविति प्रथमः १ । स पुरुषस्तद् द्रव्यमन्यस्यां पङ्काविति द्वितीयः २ । स पुरुषोऽन्यद् द्रव्यं तस्यां पताविति तृतीयः ३ । स पुरुषोऽन्यद् द्रव्यमन्यस्यां 15 पसाविति चतुर्थः ४, अत्र च 'द्वे अपि' द्रव्य-पसी अन्ये इति । एवमेव चान्यपुरुषपदेनापि चत्वारो भङ्गा भवन्ति । तद्यथा----अन्यः पुरुषस्तद् द्रव्यं तस्यां पङ्की ५ अन्यः पुरुषस्तद् द्रव्यमन्यस्यां पतौ ६ अन्यः पुरुषोऽन्यद् द्रव्यं तस्यां पतौ ७ अन्यः पुरुषोऽन्यद् द्रव्यमन्यस्यां पतौ ८ ॥ १८२३ ॥ एतेषां मध्याद् येषु यथा कल्पते तदेतद् दर्शयति
केप्पइ समेसु तह सत्तमम्मि तइयम्मि छिन्नवावारे।
अत्तट्टियम्मि दोसुं, सव्वत्थ य भयसु कर-मत्ते ॥ १८२४ ॥ ___'समेषु' द्वितीय-चतुर्थ-षष्ठा-ऽष्टमेषु भङ्गेषु ग्रहीतुं कल्पते । तथाहि-द्वितीये तावदन्यस्यां पतौ सङ्क्रान्तत्वेन तद् द्रव्यमपि वक्ष्यमाणनीत्या चतुर्थे तु द्रव्यान्तरत्वेनान्यस्यां पङ्क्षौ दीयमानत्वेन च षष्ठे तु पुरुषान्तरेणापरस्यां पङ्कौ तद् द्रव्यं दीयत इति हेतोः अष्टमे तु तिमृणामपि
पुरुष-द्रव्य-पतीनामन्यत्वेन परिस्फुटमेव कल्पत इति । तथा सप्तमेऽपि भङ्गे कल्पत एव, पुरु25षान्तरेणान्यद्रव्यस्य दीयमानत्वात् । तृतीये तु च्छिन्नव्यापारे सति कल्पते, यः साधुदानार्थ हस्तमात्रकप्रक्षालनव्यापारः कृतः स यदा व्यापारान्तरेण च्छिन्नो भवति तदा तेनैव पुरुषेणान्यद् द्रव्यं तस्यां पतौ दीयमानं कल्पत इति भावः । 'द्वयोः' प्रथम-पञ्चमयोर्यदि तद् द्रव्यं तेनात्मार्थितं भवति ततः कल्पते नान्यथा । 'सर्वत्र च' अष्टस्त्रपि भङ्गेषु कर-मात्रके 'भज' विकल्पय, यदि हस्तो वा मात्रकं वा सस्निग्धमुदका वा न भवति ततः कल्पते अन्यथा तु नेत्येवं 30 भजना कर्तव्येत्यर्थः ॥ १८२४ ॥ अथ किमर्थं पुरःकर्म करोति ? इत्याह
___अचुसिण चिक्कणे वा, कूरे धुविउं पुणो पुणो देइ । १°रः 'प्रमाणपुरुषो वा' देयद्रव्यस्वामी यस्यां पतौ भा० कां० ॥ २ नेयं गाथा निशेषचूर्णौ दृश्यते ॥