________________
५३५
भाष्यगाथाः १८१३-२१] प्रथम उद्देशः । पुरःकर्मेति व्यवहियते, एवं 'ते' तव यानि दायकस्योत्थान-गमनादीनि कर्माणि साधोरग्रतः क्रियमाणानि तानि सर्वाण्यपि पुरःकर्म भवति । अथ पूर्वार्थवाचकः पुरःशब्द इहाधिक्रियते तत आह-एवमेव च पूर्वकर्मण्यपि द्रष्टव्यम् । किमुक्तं भवति ? –'पुरः-साधोरागमनात् पूर्व कर्म पुरःकर्म' इत्यस्यामपि व्युत्पत्तौ यान्युत्थानादीनि पूर्वं कृतानि तानि पुरःकर्म प्रामुवन्ति ॥ १८१७ ॥ यदि नामैवं ततः का नो हानिः ? इति चेद उच्यते
एवं फासुमफासुं, न विजए न वि य काइ सोही ते । __ हंदि हु बहूणि पुरतो, कीरंति कयाणि पुत्वं च ॥ १८१८ ॥ ‘एवं' द्विधाऽपि समासे क्रियमाणे प्राशुकमप्राशुकं वा 'न विद्यते' न ज्ञायते, सर्वस्या अप्युस्थान-गमनादिचेष्टायाः पुरःकर्मत्वप्राप्तेः । अज्ञायमाने च प्राशुका-ऽप्राशुकविभागे शोधिरपि काचिन्नास्ति 'ते' तवाभिप्रायेण, तस्याश्चाभावे चारित्रस्याप्यभाव इति भावः । 'हन्दि' इत्यु-10 पप्रदर्शने । 'हुः' इत्यामन्त्रणे । ततश्चैवम्-हे आचार्याः! बहूनि पुरतः क्रियन्ते बहूनि । च दायकेन पूर्वं कृतानि तानि सर्वाण्यपि पुरःकर्म प्राप्नुवन्ति ॥ १८१८ ॥ अत्र सूरिः प्रतिवचनमाह
कामं खलु पुरसद्दो, पञ्चक्ख-परोक्खतो दुहा होइ ।
तह वि य न पुरेकम्मं, पुरकम्मं चोदग! इमं तु ॥ १८१९ ॥ 16 'कामम्' अनुमतं खेलुशब्दोऽवधारणे अनुमतमेवास्माकं यत् पुरःशब्दः प्रत्यक्ष-परोक्षयोर्द्विधा भवति–यदा 'पुरः--अग्रतः कर्म पुरःकर्म' इति व्युत्पत्तिराश्रीयते तदा प्रत्यक्षार्थवाचकः पुरःशब्दः, यदा तु 'पुरः-पूर्व कर्म पुरःकर्म' तदा परोक्षार्थवाचकः । एवं पुरःशब्दस्य प्रत्यक्ष-परोक्षार्थवाचकतया यद्यप्युत्थानादीनि पुरःकर्म प्रामुवन्ति तथापि तानि पुरःकर्म न भवति, किन्तु पुरःकर्म हे नोदक ! 'इदं' वक्ष्यमाणं भवति ॥ १८१९ ॥ तदेवाह
हत्थं वा मत्तं वा, पुट्विं सीतोदएण जं धोवे ।
समणट्ठाए दाया, पुरकम्मं तं विजाणाहि ॥ १८२० ॥ हस्तं वा मात्रकं वा 'पूर्व भिक्षादानात् प्रथमं 'शीतोदकेन' सच्चित्तजलेन यद् दाता श्रमणार्थ 'धावति' प्रक्षालयति तत् पुरःकर्म विजानीहि न शेषमुत्थान-गमनादिकम् , तथासमयपरिभाषया रूढत्वात् ॥ १८२० ॥ गतं किमिति द्वारम् । अथ कस्येति द्वारस्य प्ररूपणामाह-25
कस्स त्ति पुरेकम्मं, जइणो तं पुण पभू सयं कुजा ।
अहवा पभुसंदिट्ठो, सो पुण सुहि पेस बंधू वा ॥१८२१॥ कस्य पुनः पुरःकर्म भवति ? इति पृच्छायां निर्वचनं 'यतेः' तत्परिहारिणः साधोः पुरःकर्म मन्तव्यम् , तदितरेषां दोषत्वेनानभ्युपगमात् । 'तत् पुनः' पुरःकर्म 'प्रभुः' गृहखामी खयमेव कुर्यात् , अथवा 'प्रभुसन्दिष्टः' प्रभुणा आदिष्टः । 'स पुनः' प्रभुसन्दिष्टस्त्रिधा, तद्यथा-30
१त्पत्तौ तान्येवोत्थानादीनि पुरः भा० ॥ २ खलु अस्माकं भा० का० ॥ ३°था'सुहृत् प्रेष्यो बन्धुर्वा' सुहृद् भा० ॥
20