________________
५३४ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १
विति य निबंधम्मि, करेसु तिव्वं खु मे दंडं ॥ १८१३ ॥ ___ यत्र लिङ्गिनामाक्रुष्टगृह-धनादिकार्याण्युपढौकन्ते तत्र प्रथमत एव न मिलन्ति । अथ तैर्वलामोटिकया मील्यन्ते ततो मेलिता अप्युदासीना आसते । अथ ते ब्रवीरन्-कुरुतास्मदीयस्य व्यवहारस्य परिच्छेदम् । तत एवं निर्बन्धे तैः क्रियमाणे साधवो ब्रुवते—यद्यस्माकं पार्थाद् 5 व्यवहारपरिच्छेदं कारयिष्यथ तत उभयेषामपि भवतां 'तीनं दण्डम्' आगमोक्तप्रायश्चित्तलक्षणं 'कुर्मः' करिप्याम इति ॥ १८१३ ॥ "अद्धाणनिग्गयादी" ( गा० १८०१) इति पदं व्याख्यानयति___ अद्धाणनिग्गयादी, थाणुप्पाइयमहं व सोऊण ।
गेलन्न-सत्थवसगा, महाणदी तत्तिया वा वि ॥ १८१४ ॥ 10 अध्वनिर्गताः-अध्वानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादन्यदप्येवंविधं कारणं
गृहाते । स्थानौत्पातिकमहो नाम-तत्रापूर्वः कोऽप्युत्सवविशेषः सहसैव श्राद्धैः कर्तुमारब्धः तं वा श्रुत्वा । यदि वा ये क्षेत्रं प्रत्युपेक्षितुं प्रेप्यन्ते ते तदानीं ग्लाना-ऽग्लानप्रतिचरणव्यापृता वा । अथवा सार्थवशगा:-ते तत्र सार्थमन्तरेण गंतुं न शक्यते । महानदी वा काचिदपान्तराले तामभीक्ष्णमुत्तरतां बहवो दोषाः । तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याप्यन्यत्र 16प्रेषणं न संगच्छते । अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न कश्चिद् दोषः ॥१८१४॥ अत्र यतनामाह
समणुन्नाऽसइ अन्ने, वि पुच्छिउं दाणमाइ वजिति ।
दव्याई पेहंता, जइ लग्गंती तह वि सुद्धा ॥ १८१५ ॥ - यदि 'समनोज्ञाः' साम्भोगिकाः पूर्वप्रविष्टाः सन्ति ततस्तैः सह भिक्षामटन्ति । अथ न 20 सन्ति समनोज्ञास्ततः 'अन्यानपि' अन्यसाम्भोगिकानपि पृष्ट्वा दानश्राद्धकुलानि वर्जयन्ति, तेष्वाधाकर्मादिदोषसम्भवात् । शेषेषु कुलेषु पर्यटन्तः “दव्वादी पेहंत" त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो. यद्यपि कमपि स्थापनादिकं दोषं 'लगन्ति' प्राप्नुवन्ति तथापि शुद्धाः, क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति ॥ १८१५ ॥ गतं 'परिहरणा अनुयाने' इति द्वारम् । अथ पुरःकर्मद्वारमाह
पुरकम्मम्मि य पुच्छा, किं कस्साऽऽरोवणा य परिहरणा ।
एएसि तु पयाणं, पत्तेयपरूवणं वोच्छं ॥ १८१६॥ पुरःकर्मणि पृच्छा कर्तव्या । तद्यथा-किं पुरःकर्म ? कस्य वा पुरःकर्म ? का वा पुरःकमण्यारोपणा? कयं वा पुरःकर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये ॥ १८१६ ॥ तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षुः प्रेर्यमुत्थापयन्नाह
जइ जं पुरतो कीरइ, एवं उट्ठाण-गमणमादीणि ।
होंति पुरेकम्मं ते, एमेव य पुनकम्मे वि ॥ १८१७ ॥ परः प्राह-यदि साधोभिक्षार्थिनो गृहाङ्गणमागतस्य यत् 'पुरतः' अग्रतः क्रियते तत् १ "थाणुप्पाइयं णाम अपुल्वो महो अतिहिमहो वा" इति चूणो विशेषचूर्णौ च ॥