________________
भाष्यगाथाः १७४२-४९] प्रथम उद्देशः ।
संसट्टमुहा य दवं, पियंति जइणो कहं सुज्झे ॥ १७४६ ॥ क्षीरं 'वत्सोच्छिष्टं' वत्सेन स्वमातुः स्तन्यमापिवता संसृष्टम् । तथा उदकमपि मत्स्य-कच्छपोच्छिष्टम् । चन्द्रो राहूच्छिष्टः । पुप्पाणि च मधुकरगणैरुच्छिष्टानि ॥ १७४५ ॥
तथा अविरतिका राध्नुवन्त्यः 'व्यञ्जनानि' शालनकानि वोट्टयन्ति 'किं निष्पन्नानि ? न वा ?' इति परिज्ञानार्थम् । खल-गुलावपि 'तत्कारिणः' तस्य-खलादेः कारिणश्चाक्रिकादयो । बोट्टयन्ति । 'संसृष्टमुखाश्च' उच्छिष्टेन मुखेन यतयो यद् द्रवमापिबन्ति तदपि संसृष्टम् । तेन च संसृष्टेन यस्य भाजनस्य कल्पः क्रियते' तत् कथं शुध्यति ? इति । यत एवमतो न गन्धमात्रेणैव भक्तमुच्छिष्टं भवतीति स्थितम् ॥ १७४६ ॥ अथ कल्पकरणे वितथसामाचारीनिष्पन्नं प्रायश्चित्तमाह
एकिक्कम्मि उ ठाणे, वितह करितस्स मासियं लहुअं। 10
तिगमासिय तिगपणगा, य होंति कप्पं कुणइ जत्थ ॥ १७४७ ॥ एकैकस्मिन् स्थाने वितथा सामाचारी कुर्वाणस्य मासिकं लघुकम् । तद्यथा-असंलीढे पात्रके प्रथमं कल्पं करोति १ संलिख्य वा प्रथमं कल्पं कृत्वा तं नापिबति २ द्वितीयं कल्पं पात्रकेऽप्रक्षिप्य बहिर्निर्गच्छति ३ एतेषु त्रिष्वपि स्थानेषु मासलघु । तथा त्रीणि मासिकानि त्रीणि पञ्चकानि च भवन्ति यत्र कल्पं करोति । तद्यथा-न प्रत्युपेक्षते न प्रमार्जयति १ न 15 प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३ एतेषु त्रिषु भङ्गेषु प्रत्येकं तपःकालविशेषितं मासलघु । चतुर्थभङ्गे प्रत्युपेक्षते प्रमार्जयति च, नवरं दुःप्रत्युपेक्षितं दुःप्रमार्जितं करोति १ दुप्पत्युपेक्षितं सुप्रमार्जितं २ सुप्रत्युपेक्षितं दुष्प्रमार्जितं करोति ३ एतेषु त्रिषु तपःकालविशेषितानि पञ्च रात्रिन्दिवानि । सुप्रत्युपेक्षितं सुप्रमार्जितमिति चतुर्थो भङ्गः शुद्ध इति ॥१७४७॥
गतं कल्पकरणद्वारम् । अथ “गच्छसइए अ कप्पे अंबिलभरिए अ ऊसित्ते'' (गा० 20 १६५८) त्ति द्वारमभिधित्सुः प्रथमतः सम्बन्धमाह
भुत्ते भुंतम्मि य, जम्हा नियमा दवस्स उवओगो।
समहियतरो पयत्तो, कायव्यो पाणए तम्हा ॥ १७४८ ॥ [.भा. १६५८] 'भुक्ते' भोजनानन्तरं पानार्थ संज्ञाभूमिगमनार्थं च भुञ्जानानां च उत्तूढलग्नरक्षणार्थं यस्माद् नियमाद् 'द्रवस्य' पानकस्योपयोगो भवति 'तस्माद्' भक्तग्रहणप्रयत्नात् समधिकतरः प्रयत्नः 25 पानकग्रहणे कर्तव्य इति, अतस्तद्रहणविधिरुच्यते ॥ १७४८ ॥ __इह शतिकेपु सहस्रपु वा गच्छेपु प्रभूतेन पानकेन कार्य भवति, तच्च कल्पनीयमेव ग्रहीतव्यम् , अतस्तद्विधिप्रतिबद्धद्वारसङ्घाहिकामिमां गाथामाह
पाणगजाइणियाए, आहाकम्मस्स होइ उप्पत्ती ।
पूती य मीसजाए, कडे य भरिए य ऊसित्ते ॥ १७४९ ॥ 30 १ ते तदपि संसृष्टम् । एवं सर्वमप्युच्छिष्टमेव, अतः कथं यतयः शुध्येयुः? इति । यत भा०॥