________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ ___ स्थविरकल्पिकाः प्रथमस्थण्डिलाभावे द्वितीयतृतीयचतुर्थीन्यपि स्थण्डिलानि गच्छन्ति । तत्र च यदि न निर्लेपयन्ति तत आपातसंलोकसमुत्था अवर्णवादादयो दोषा भवेयुरिति स्थण्डिलानामनियमादवश्यन्तया शौचं कुर्वन्ति । अभावितो नाम-अपरिणतजिनवचनस्तस्य निलेपनाभावे मा भूद् विपरिणाम इति । "इड्डि" त्ति 'ऋद्धिमान्' राजादीनामन्यतमः प्रबजितः स प्रायेण 5 शौचकरणभावित इति तदर्थम् । तथा 'युगलं' बाल-वृद्धद्वयं तत् प्रायेण भिन्नवर्चस्कं भवति । 'उड्डयरो नाम' यः समुद्दिशन् संज्ञां वा व्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति । “सज्झाये" त्ति अनिर्लेपिते स्थविरकल्पिकानां खाध्यायो न वर्तते वाचा कर्तुम् । “पडिणीए" ति प्रथमस्थण्डिलाभावे द्वितीयादिस्थण्डिलगतस्य शौचकरणमदृष्ट्वा प्रत्यनीक उड्डाहं कुर्यात् । “न ते जिणे" त्ति जिनकल्पिके न ‘एते' स्थण्डिलानियमादयो दोषा भवन्ति, "जं अणुप्पेहे" त्ति 10 यच्चासौ खाध्यायं मनसैवानुप्रेक्षते न वाचा परिवर्तयति तेन न निर्लेपयति । स्थविरकल्पिकानां तु मनसा खाध्यायकरणे प्रभूतेनापि कालेन न सूत्रार्थी परिजितौ भवत इति ॥ १७४१ ॥
एमेव अप्पलेवं, सामासेउं जिणा न धोवंति।
तं पि य न निरावयवं, अहाठिईए उ सुझंति ॥ १७४२ ॥ एवमेव 'अल्पलेपम्' अल्पशब्दस्याभाववाचकत्वादलेपकृतं भाजनं 'समस्य' सम्यक् संलिख्य 15 जिनकल्पिकाः 'न धावन्ति' न कल्पं प्रयच्छन्ति । तच्च भाजनं यद्यपि न निरवयवं सञ्जायते तथापि 'यथास्थित्यैव' यथाखकल्पानुपालनादेव शुध्यन्ति, स्थितिरियं तेषां यदेवमेव शुचयो भवन्तीति ॥ १७४२ ॥ यदप्युक्तं भवता प्राक् “अकृतकल्पे भाजने गृहीतं भक्तमुच्छिष्टं भवति" (गा० १७३६) तदपि परिफल्विति दर्शयति
मन्नतो संसहूं, जं इच्छसि धोवणं दिणे विइए । 20
इत्थ वि सुणसु अपंडिय!, जहा तयं निच्छए तुच्छं । १७४३ ॥ संसृष्टं मन्यमानो यद् द्वितीये दिने 'धावनं' कल्पकरणमिच्छसि अत्राप्यर्थे 'शृणु' निशमय हे अपण्डित ! यथा 'तकत्' त्वदीयं वचनं 'निश्चये' परमार्थतः 'तुच्छम्' असारम् ॥ १७४३ ॥ तदेवाह--
सव्वं पि य संसहूं, नत्थि असंसट्ठिएल्लयं किंचि ।
सव्वं पि य लेवकडं, पाणगजाए कहं सोही ॥ १७४४ ॥ ____ यदि गन्धमात्रेणैव त्वदुक्तया नीत्या भक्तमुच्छिष्टं भवति ततः सर्वमप्यत्र जगति 'संसृष्टम्' उच्छिष्टमेव विद्यते नास्ति किञ्चिदप्यसंसृष्टम् । एवं 'सर्वमपि' भक्तं पानकं च लेपकृतमुच्छिष्टं भवति अतः पानकजातेन कथं शुद्धिर्भविष्यति ? ॥ १७४४ ॥ एतदेव भावयति
खीरं वच्छुच्छिटुं, उदगं पि य मच्छ-कच्छभुच्छिटुं । चंदो राहुच्छिट्टो, पुप्फाणि य महुअरगणेहिं ॥ १७४५ ॥
रंधंतीओ बोट्टिति वंजणे खल-गुले य तकारी।। १ 'निरवयवं' सर्वथैव व्यपगत निःशेपावयवं तथा भा० ॥ २°न्ति, कल्पस्तेषामयं यदे भा०॥