________________
भाप्यगाथाः १७३३-४१] प्रथम उद्देशः ।
५१३ गृहीतमपरमपि भक्तम् "ओअवियं" उच्छिष्टं भवति, तच्च 'गुर्वादीनाम्' आचार्योपाध्यायप्रभृतीनां दीयमानं महतीमाशातनामुपजनयति ॥ १७३५॥ १७३६॥ इत्थं परेणोक्ते सति सूरिराह
भण्णइ न अण्णगंधा, हणंति छटुं जहेव उग्गारा।
तिन्नि य कप्पा नियमा, जइ वि य गंधो जहा लोए ॥ १७३७ ॥ भण्यतेऽत्र प्रतिवचनम्-अन्नस्य-भक्तस्य गन्धाः 'षष्ठं रात्रिविरमणव्रतं न नन्ति, यथैवो-5 द्वारा रात्रौ समागच्छन्तोऽपि न षष्ठव्रतमुपघ्नन्ति । तथा पात्रके यद्यपि गन्धः समागच्छति तथापि नियमात् त्रय एव कल्पा दातव्या नाधिका न वा हीनाः, तथा भगवद्भिरुक्तत्वात् । यथा लोकेऽपि प्रतिनियता भाजनशोधनाय मृत्तिकालेपा भवन्ति ॥ १७३७ ॥ तथाहि
वारिखलाणं बारस, मट्टीया छ च वाणपत्थाणं।
मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि ॥ १७३८ ॥ 10 वारिखलाः-परिव्राजकास्तेषां द्वादश मृत्तिकालेपा भाजनशोधनका भवन्ति । षट् च मृत्तिकालेपाः 'वानप्रस्थानां' तापसानां शौचसाधकाः सञ्जायन्ते । एवं लोकेऽपि खस्खसमयप्रतिपादितानि प्रतिनियतान्येव शौचानि दृष्टानि, अतो हे नोदक ! एतावतः कल्पान् ‘मा भण' मा ब्रूहि, तावद् धौतव्यं यावद् निर्गन्धीभवतीत्यप्रतिनियतानित्यर्थः । तथा 'प्रतिमा' इति मोकप्रतिमा साऽपि प्रवचने भणिता, तस्यां हि मोकमपि पीत्वा साधुः शुचिरेव भवति ॥१७३८॥15 एतदेव भावयति
पिह सोयाइं लोए, अम्हं पि अलेवगं अगंधं च ।
मोएण वि आयमणं, दि8 तह मोयपडिमाए ॥ १७३९ ॥ यथा लोके 'पृथग्' विभिन्नानि शौचानि दृष्टानि तथाऽस्माकमपि त्रिभिः कल्पैः प्रदत्तैरलेपकमगन्धं च पात्रकं भवतीति । एवं शौचविधिर्भगवद्भिदृष्ट इति । तथा मोकेनाप्याचमनं 20 मोकप्रतिमायां दृष्टमेव ॥ १७३९ ॥ परः प्राह
जइ निल्लेवमगंधं, पंडिकुटुं तं कहं नु जिणकप्पे ।
तेसिं चेव अवयवा, रुक्खासि जिणा न कुव्वंति ॥ १७४०॥ . यदि निर्लेपमगन्धं च शौचं दृष्टं ततः कथं 'नुः' इति वितर्के 'तद' निर्लेपनं जिनकल्पे प्रतिपन्ने सति प्रतिकुष्टं' प्रतिषिद्धम् ?, "तेसिं चेव अवयव" त्ति अनिर्लेपिते 'तेषां' जिनक-25 ल्पिकानां सन्त्येव सूक्ष्माः पुरीषादेवयवाः यैरमीषां शुचित्वं न भवति । सूरिराह-रूक्षाशिनः 'जिनाः' जिनकल्पिका भगवन्तस्ततोऽभिन्नवर्चस्कतया न सन्ति सूक्ष्मा अप्यवयवा अमीषाम् , तदभावाच्च दूरापास्तप्रसरस्तेषां पुरीपगन्ध इति हेतोर्न कुर्वन्ति निर्लेपनम् ॥ १७४० ॥
आह यद्यभिन्नवर्चस्कतया जिनकल्पिकाः शौचं न कुर्वन्ति तर्हि ये स्थविरकल्पिका अप्यभिन्नोच्चारास्तेषामपि संज्ञामुत्सृज्य किंकारणमवश्यं शौचकरणमुक्तम् ? उच्यते
थंडिल्लाण अनियमा, अभाविए इड्डि जुयलमुड्डयरे ।
सज्झाए पडिणीए, न ते जिणे जं अणुप्पेहे ॥ १७४१ ॥ १ पडिसिद्धं तं ता० ॥
30