________________
15
५१२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ मन्तीति । आदिग्रहणेन श्रावकाणां विपरिणामो भवतीत्यादिपरिग्रहः ॥ १७३२ ॥ अथ भूयः परः प्राह
भणइ जइ एस दोसो, तो' ठाण निसियण तुअट्ट धरणं वा ।
भण्णइ तं तु न जुञ्जइ, दु दोस पादे अ हाणी य ॥ १७३३ ॥ 5 भणति परः-यदि 'एषः' शैक्षविपरिणामादिको दोष उपजायते ततो मा मोकेनाऽऽचामतु परं गृहीतेनैव पात्रकेण सकलामपि रात्रि "ठाण" त्ति ऊर्द्धस्थितस्तिष्ठतु, तथा यदि न शक्नोति स्थातुं ततः “निसियण" ति निषण्णः पात्रकं धारयतु, तथापि यदि न शक्नोति ततस्त्वग्वर्त्तनं कुर्वाणः-तिर्यग्निपन्नः सन् धारयतु । सूरिराह-भण्यते अत्रोत्तरम्-हे नोदक ! तत् तु न युज्यते यद् भवता प्रोक्तम् । कुतः ? इत्याह-“दु दोस" त्ति द्वौ दोषावत्र भवतः, तद्यथा10 आत्मविराधना संयमविराधना च । तत्रो स्थितस्योपविष्टस्य वा निद्रया प्रेरितस्य भूमौ निप
ततः शिरो-हस्त-पादाद्युपधाते आत्मविराधना; पतितः सन् षण्णां कायानामन्यतमं विराधयेदिति संयमविराधना । “पादे अ हाणि" ति तद् वा पात्रं पतितं सद् भज्येत ततो या पात्रकेण विना परिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् ॥ १७३३ ॥ यत एते दोषा अतोऽयं विधिः
निद्धमनिद्धं निद्धं, गोब्बरपुढे ठविंति पेहित्ता। .
जइ य दवं घेत्तव्यं, विइयदिणे धोइडं गिण्हे ॥ १७३४ ॥ लेपकृतं स्निग्धं वा भवेदस्निग्धं वा भवेत् । यदि स्निग्धं ततो गोबरेण-गोमयेन “पुटुं" प्रोञ्छितं सुघृष्टं पात्रकं कृत्वा निरवयवीभूतं सत् प्रत्युपेक्ष्य रात्रौ स्थापयन्ति, न धारयन्तीति भावः । अथास्निग्धं ततः संलेखनकल्पेन सुसंलीढं कृत्वा स्थाप्यते न पुनः करीषेण घृप्यते । यदि च द्वितीये दिवसे द्रवं ग्रहीतव्यं ततः 'धावित्वा' त्रिः कल्पयित्वा गृह्यते, अथ भक्तं ततोऽधौतेऽपि 20 गृह्यते न कश्चिद् दोषः ॥ १७३४ ॥ अत्र परः प्राह
जइ ओदणो अधोए, धिप्पड़ तो अवयवेहिँ निसिभत्तं । तिन्नि य न होंति कप्पा, ता धोवसु जाव निग्गंधं ॥ १७३५ ॥ तम्हा गुब्बरपुढे, संलीढं चेव धोविउं हिंडे ।
इहरा भे निसिभत्तं, ओअविअं चेव गुरुमादी ॥ १७३६ ॥ 25 यद्यधौते पात्रे द्वितीयेऽहनि ओदनो गृह्यते ततो ननु तत्र सूक्ष्मा अवयवाः सन्ति येषां
गन्धस्तृतीयेऽप्यहनि लक्ष्यते, तैश्चावयवैस्तथास्थितैः सद्भिर्यदपरं भक्तं तत्र गृह्यते तद् भुञ्जानानां निशिभक्तं भवति । यच्च युप्माभिलेंपकृतस्य त्रयः कल्पाः शुद्धिकारणतया निर्दिष्टास्तदप्यस्माकं मनसि न रुचिपथमियर्ति, कल्पत्रये दत्तेऽपि तदीयगन्धस्याघ्रायमाणत्वात् । ततोऽहमित्थं प्ररूपयामि-"ता धोवसु जाव निग्गंध" ति 'तावद् धाव' तावत् प्रक्षालय यावद् निर्गन्धी30 भवति; न च बहुभिरपि कल्पैर्निर्गन्धीभवति तस्माद् यद् लेपकृतं स्निग्धं तद् गोबरेण-छगणेन
प्रोञ्छितं कृत्वा अस्निग्धं तु सुसंलीढं कृत्वा द्वितीये दिवसे 'धावित्वा' कल्पयित्वा भिक्षां हिण्डेत; 'इतरथा' कल्पकरणमन्तरेण "भे" भवतां निशिभक्तमापद्यते, अकृतकल्पे च भाजने
१ तो ठिय निसि ता. विना ॥