________________
भाष्यगाथाः १७२०-२६] प्रथम उद्देशः । द्वितीयं वारं तत्र गृहे प्रविश्य तावन्मात्रं द्रवं गृहीत्वा प्राग्वदन्यसाधूनां दत्त्वा द्वितीयकल्पं करोतु, ततः तृतीयं वारं भूयः प्रविश्य तावन्मानं गृहीत्वा तथैव तृतीयं कल्पं कृत्वा यावन्मात्रेण शेषभाजनानि धाव्यन्ते संज्ञाभूमीपानकं च भवति तावन्मानं गृहीत्वा समायातु ॥१७२२॥ ___ आचार्यः प्राह-एवंकुर्वता आत्मा च परश्च प्रवचनं च परित्यक्तानि भवन्ति । तत्रात्मा कथं त्यक्तो भवति ? इत्युच्यते
संदसणेण बहुसो, संलाव-ऽणुराग केलि आउभया ।
देती णु कंजियं गुं, जइस्स इट्टो त्ति य भणंति ॥ १७२३ ॥ तस्यैकाकिनो भूयो भूयस्तद्गृहं प्रविशतो याऽसौ काजिकदात्री अविरतिका तस्याः सम्बन्धिना बहुशः सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतय आत्मोभयसमुत्था दोषा भवेयुः । संलापः-सङ्कथा, अनुरागः-परस्परमात्यन्तिकी प्रीतिः, केलिः-परिहासः । तथा यद्येष प्रव्रजितकः पुनः पुनरेति 10 याति च तत् किमस्य 'ददती' पानकदायिका इष्टा ? उत काञ्जिकम् ? इत्येवमगारिणस्तमुद्दिश्य भणन्ति । नुशब्द उभयत्रापि वितर्के॥१७२३॥प्रवचनं यथा परित्यक्तं भवति तथा दर्शयति
आयपरोभयदोसा, चउत्थ-तेणट्ठसंकणा णीए ।
दोचं णु चारिओ गुं, करेइ आयट्ठ गहणाई ॥१७२४ ॥ 'आत्मपरोभयदोषाः' आत्मनः-खस्मात् परस्याः-काञ्जिकदायिकायास्तदुभयस्माच्च एते दोषा 15 भवेयुः । तद्यथा-चतुर्थे-चतुर्थाश्रवद्वारविषया स्तैन्यार्थविषया च शङ्का तस्याः सत्कैनिजकैः क्रियते । यथा—'नुः' इति वितर्के, किमेष प्रव्रजितकः कस्याप्युद्धामकस्य मैथुनदौत्यं करोति यदेवमायाति याति च ? यद्वा चारिको भूत्वा चौराणां हेरिकतां कर्तुमित्थमायाति ? यद्वा आत्मार्थमेवायमित्थं करोति ? स्वयमेव मैथुनार्थी हर्तुकामो वेत्यर्थः । इत्थं शङ्कमानास्ते तस्य साधोHहणा-ऽऽकर्षणादीनि कुर्युः । ततः प्रवचनं परित्यक्तं भवति ॥ १७२४ ॥ 20 परः कथं परित्यक्तो भवति ? इत्युच्यते
गिण्हंति सिज्झियाओ, छिदं जाउग सवत्तिणीओ अ ।
सुत्तत्थे परिहाणी, निग्गमणे सोहिवुड्डी य ॥ १७२५ ॥ गुणन्ति 'छिद्रं' दूषणं काञ्जिकदायिकायाः, काः ? इत्याह –'सिज्झिकाः' सहवासिन्यः, प्रातिवेश्मिकस्त्रिय इत्यर्थः, “जाउग" त्ति 'यातरः' ज्येष्ठ-देवरजायाः 'सपल्यः' प्रतीताः, यथा-25 यदेष संयतो भूयो भूयः समायाति तद् नूनमस्या अयमुद्रामक इति । ततो यदा तया सहासङ्खडमुपजायते तदा तत् प्राग्विकल्पितं दूषणं साक्षात् तत्पतेः पुरत उद्गिरन्ति । तथा सूत्रार्थविषया परिहाणिः पुनः पुनर्गच्छतो भवति । “निग्गमणे सोहिवुड्डी य" त्ति त्रीन् चतुरो वा वारान् निर्गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षाद्वारे प्रागुक्तम् (गाथा १६९७) । यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम् ।। १७२५॥ कथं पुनस्तर्हि गन्तव्यम् ? इत्याह-30
संघाडएण एगो, खमए विइयपय वुड्डमाइण्णे ।
पुबुद्धि(दि)एण करणं, तस्स व असई य उस्सित्ते ॥ १७२६ ॥ १°त्वा प्रतिश्रयमागम्य द्विती' भा० ॥ २ तथा गृ भा० ॥ .