________________
5
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
लेपकृतभाजने कर्त्तव्यं कल्पकरणम् । अत्र परः -प्रेरकस्तस्य वचने त्रीन् वारान् कल्पप्रायोपानग्रहणार्थं गृहपतिगृहे गन्तव्यमिति । सूरिराह — एवं क्रियमाणे आत्मा च परश्च प्रवचनं च भवन्ति परित्यक्तानीति' निर्युक्तिगाथासमासार्थः ॥१७१९॥ अथैनामेव विवरीपुराह - गोउल विरूवसंखडि, अलंर्भे साधारणं च सव्वेसिं । गहियं संती य तहिं, तक्कुच्छुरसादि लग्गट्ठा || १७२० ॥
15
५०८
गच्छे साधवः सुबहवो भवेयुः, तैश्च भिक्षां हिण्डमानैर्गोकुले दुग्ध-दध्यादीनि प्राचुर्येण लब्धानि, ‘विरूपायां वा' अनेकैभक्ष्य-भोज्यप्रकारायां सङ्खड्यामुत्कृष्टमशनादिद्रव्यं लभ्येत, तैश्च साधुभिः 'अलाभे' अन्यत्र तथाविधस्य दुर्लभद्रव्यस्यासम्प्राप्तौ सर्वेषां साधारणमुपष्टम्भकाकमिदमिति मत्वा सर्वाण्यपि भक्तभाजनानि भृत्वा पानकप्रतिग्रहेष्वपि गृहीतम् । ततः प्रति10 श्रयमागता यावत् पानकेन विना न शक्यते समुद्देष्टुम् आहारस्य गलके विलगनात्, ततः किं कर्त्तव्यम् ? इत्याह — सन्ति च तत्र तक्रेक्षुरसादीनि, आदिशब्दाद् दुग्धादीनि च तान्यपान्तराले आपिबेत् । किमर्थम् ? इत्याह – “ लग्गट्ट" त्ति लगनं लग्नम्, भावे क्तप्रत्ययः, आहारस्य गलके विलगनमुत्तूहणं वा तदर्थम्, तद् मा भूदित्यर्थः ॥ १७२० ॥ आह यद्येवं तर्हि पानकाभावे समुद्देशनानन्तरं कथं भाजनानि कल्पयितव्यानि ? इत्युच्यते— मंडलितकी खमए, गुरुभाणेणं व आणयंति दवं ।
अपरीभोगऽतिरित्ते, लहुओऽणाजीविभाणे य ।। १७२१ ॥
यः क्षपकः “मण्डलितक्की" मण्डल्युपजीवकस्तस्य भाजनेन गुरूणां भाजनेन वा 'द्रवं' पानकमानयन्ति । अथापरिभोग्येषु भाजनेषु 'अतिरिक्ते वा' नन्दीभाजने मण्डल्यनुपजीविक्षपकभाजने वा द्रवमानयन्ति तदा लघुको मासः ॥ १७२१ ॥
1
20 अथ "परवचने त्रीन् वारान् गन्तव्यम्” ( गा० १७१९ ) इति पदं व्याख्यानयति-— भइ जइ एस दोसो, तो आइमकप्पमाण संलिहिउं ।
अन्नेसि तगं दाउं, तो गच्छइ विइय-तइयाणं ।। १७२२ ॥
"
‘र्भंणति' परः प्रेरयति—यद्येषः 'दोषः' प्रायश्चित्तापत्तिलक्षणस्ततोऽहं विधिं भणामि – प्रतिग्रहं संलिख्य तत एकाकी गृहपतिगृहे प्रविश्य 'आदिमकल्पमानं' यावताँ सर्वसाधुभिरादिमः कल्पः 25 क्रियते तावन्मात्रं द्रवं गृहीत्वाऽन्येषां साधूनां 'तत्' पानकं दत्त्वा ततः स्वयं प्रथमकल्पं करोतु । कृत्वा च ततो गच्छति द्वितीय-तृतीययोः कल्पयोः । इदमुक्तं भवति — द्वितीयकल्पकरणार्थं
१ °ति गाथा भा० ॥ २ 'कप्रका भा० ॥ ३ लभ्यते त० डे० ॥ ४ वेत्यर्थः, त° भा० ॥ ५ ख्याति भा० मो० ले० ॥ ६ " भणति • गाधा || 'परो' त्ति चोदगो सो भणति - जति एस पच्छितदोसो तो अर्ध विधि भणामि – पडिग्गहं संलिहित्ता एगागी प्रथमकल्पकरणार्थ पविसित्ता तत्तियमेत्तं दवं गेण्हतु जेण पढमकप्पं काउं बितियं वारा वितियकल्पार्थं पविसित्ता तत्तियमेत्तं दवं गहाय आगंतु हत्थकप्पं काउं बितियकप्पं च दाउं ततियं वारं पवितित्ता जत्तिएणं ततियकप्पो कीरति तं घेत्तुं आगंतुं ततियकप्पं दाउं बच्छा जत्तिएण सेसाणि लेवाडाणि भायणाणि घोव्वंति सण्णाभूमिपाणगं च भवति तत्तियमेत्तं घेत्तुं उ ।” इति चूर्णिः विशेषचूर्णिश्च ॥ ७° ता एकेनादिमः प्रथमः कल्पः क्रि० भा० ॥