________________
भाष्यगाथाः १७१४-१९] प्रथम उद्देशः । मस्ति' इत्येवंलक्षणा भणिता ॥ १७१५ ॥ __पात्रे च दर्शिते तैः 'मरुकः' धिग्जातीयोऽपभाजितः । यथा-धिग् भवन्तमसदोषोद्धोषणकारिणं गुणिषु मत्सरिणमिति । साधुश्च प्राप्तः 'यशश्च' मिथ्यादृष्टिमानमर्दनपराक्रमसमुत्थं 'कीर्ति च' शुचिसमाचाररूपसुकृतप्रभवाम् । प्रच्छादिताश्च दोषाः पानकेन विना तुम्बकेषु वा भोजनकरणसमुत्थाः । वर्णश्च प्रभावितः प्रवचनस्य तत्रावसरे तेन भगवता । एष गुणः शोभन-5 लेपलिप्तस्य पात्रस्येति ॥ १७१६ ॥ अथ येषु द्रव्येषु कल्पकरणमवश्यं कर्त्तव्यं तानि दर्शयति
लेवाड विगइ गोरस, कढिए पिंडरस जहन्न उब्भजी।
एएसिं कायव्वं, अकरणें गुरुगा य आणाई ॥ १७१७ ॥ एतानि द्रव्याणि लेपकृतानि । तद्यथा-'विकृतयः' दधि-दुग्धादिकाः, 'गोरसं' तक्रादि, 10 'कथितं' तीमनादि, "पिण्डरसाः' खजूरादयो यावज्जघन्यतः "उन्भजि" त्ति कोद्रवजाउलकम् । 'एतेषां' लेपकृतानां कल्पकरणं कर्तव्यम् । यदि न करोति तदा चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना च संयमादिविषया ॥ १७१७ ॥ तामेव भावयति
संचयपसंगदोसा, निसिभत्तं लेवकुच्छणमगंधं ।
दव्यविणासुड्ढादी, अवण्ण संसजणाऽऽहारे ॥ १७१८॥ 15 लेपकृतपात्रकस्य कल्पेऽक्रियमाणे यः सञ्चयः-सूक्ष्मसिक्थाद्यवयवपरिवासनरूपस्तस्य प्रसड्रेन दोषा एते भवेयुः-*निशिभक्तं प्रतिसेवितं भवति । लेपस्य च कोथनं-पूतिभवनम् । ततश्च 'अगन्धं नञः कुत्सार्थत्वादतीवदुर्गन्धि भाजनं भवति । तादृशे च भाजने गृहीतस्य द्रव्यस्य-ओदनादेर्विनाशो भवति । तस्मिन् भुञ्जानस्य च विरसगन्धाघ्राणत ऊर्धादीनि भवन्ति । ऊर्द्ध-वमनम् , · आदिशब्दादरोचक-मान्द्यादिपरिग्रहः । 'अवर्णश्च' प्रवचनस्योड्डाहो भवति । 20 तथाहि-लोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्ट्वा गर्हते-ईशा एवैते अशुचयः पापोपहता इति । "संसजणाऽऽहारे" ति दुर्गन्धिनाऽऽहारे पनक-कुन्थुप्रभृतयः प्राणिनः संसजेयुः॥१७१८॥ यत एवमतः
लेवकडे कायव्वं, परवयणे तिमि वार गंतव्वं ।
एवं अप्पा य परो, य पवयणं होंति चत्ताई ॥ १७१९ ॥ 25 १ श्च' प्रत्यनीकमान भा० ॥ २ च' 'अहो! अयं महात्मा शुचिसमाचारः' इत्येवं खकृतसचरितप्रभवाम् । प्रच्छादिताश्च दोषास्तुम्बकेषु भोज भा० ॥ ३°का, गोरसेन कयितं-राद्धं यत् पेयादिद्रव्यम् , यद्वा गोरसमेव-तकादिकं यत् कथितम्, ये च 'पिण्डरसाः' मुद्रिकादयो यावजघन्यतः "उम्मेज"त्ति 'उद्भेद्या' कोद्रवजाउलकं वास्तुलप्रभृतिशाकभर्जिका वा । 'एतेषां भा० । “लेवगडविगह० गाहा ॥ लेवाडा विगईओ गोरसो य कढियओ, पिंडरसो मुद्दियाई, जहमओ लेवाडो 'उन्भज्जी' वियओ सुरपूवियमेगटुं । एएसि लेवाडाणं कप्पो कायवो । न करेइ ::, आणाई दिराहणा" इति विशेषवर्णिः। ४ निशि-रात्रौ भकं भा.॥ ५भवेत् भा० ॥