SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ५०६ सनियुक्ति-लधुभाप्य-वृत्तिके वृहत्कल्पसूत्र [ मासकल्पप्रकृते सूत्रम् १ खर्जूर-मुद्रिका-दाडिमानां पील-इक्षु-चिञ्चादीनां च सम्बन्धिनौ यो पिण्डरसौ तौ 'अविकृती' विकृती न भवतः, नियमात् पुनर्लेपकृतौ भवत इति ॥ १७१३ ॥ उक्तानि लेपकृतानि । लेपकृतैः संसृष्टस्य भाजनस्य कल्पः करणीयः । यदि पुनस्तस्य भाजनस्य लेपः स्फटितो भवति ततः कल्पत्रये कृतेऽपि लेपकृतमेव तद् मन्तव्यम् । अतस्त5 दोषपरिहारार्थमाह कुट्टिमतलसंकासो, भिसिणीपुक्खलपलाससरिसो वा । सामास धुवण सुक्खावणा य सुहमे रिसे होति ॥ १७१४॥ यथा कुट्टिमतलं निम्नोन्नतप्रदेशरहितं सर्वतः सममेव भवति एवं पात्रकस्य लेपोऽपि कुट्टिमतलसङ्काशः सर्वतः सम एव कर्तव्यः । तथा बिसिनी-पद्मिनी तस्या यत् पुष्कलं-विस्तीर्ण 10 पलाशं-पत्रं तत्र पतितं जलं यथा नावतिष्ठते एवं यत्र सूक्ष्मसिक्थाद्यवयवा लग्ना अपि न स्थिति कुर्वन्ति स बिसिनीपुष्कलपलाशसदृशः । ईदृशे लेपे पात्रकस्य समास-धावन-शोषणाः सुखमेव कर्तुं शक्यन्ते । सम् इति-सम्यक् प्रवचनोक्तेन विधिना आङ् इति-मर्यादया पात्रकलेपमवधीकृत्य यद् असनं-सिक्थाद्यवयवानामपनयनं स समासः, संलेखनकल्प इत्यर्थः । धावनं-कल्प त्रयप्रदानम् । शोषणं-उद्वापनम् । अपरश्चायं गुण ईदृशे पात्रे भवति15 एगो साहू रुक्खमूले समुद्दिसइ । तेण साहुणा दिसालोगो कओ, न पुण उवरिमारूढो धिज्जाइओ दिट्टो । तेण सो साहू दरजिमिओ दिट्ठो । ताहे सो ओअरित्ता गाममइगओ। तच्छणेण सिटुं गामिल्लयाणं । तेण पुण साहुणा सो ओअरंतो दिट्ठो । ताहे सो भगवं दवदवस्स आउत्तो समुद्दिसिउं तहा संलिहइ जहा नजइ धोयं पिव पत्तं । पच्छा सो भगवं मुहपोत्तियाए मुहं पिहेऊण पढंतो अच्छइ । ते आगया पिच्छंति साहुं उवसंतं । कओ एह ? कत्तो भिक्खं 20 गहियं ? । तओ भणइ-न ताव हिण्डामि, किं वेला जाया। ते अन्नमन्नस्स मुहं पलोइंति। ताहे धिज्जाइओ भणइ-मए दिह्रो, पलोएह से भायणं ति । पिच्छामो भायणं । तेणं दाइयं । ताहे ते दहण भणंति-तुमं सि पावो भरुगो त्ति ॥ ॥१७१४ ॥ __ अमुमेवार्थ भाष्यकृदाह आउत्तो सो भगवं, चोक्खं सुइयं च तं कयं पत्तं । निस्सील-निव्वयाणं, पत्तस्स य दायणा भणिया ॥१७१५ ॥ ओभामिओ उ मरुओ, पत्तो साहू जसं च कित्तिं च । पच्छाइआ य दोसा, वण्णो य पभाविओ तहियं ॥ १७१६ ॥ स भगवान् तं धिम्जातीयं वृक्षादवतरन्तं दृष्ट्वा 'आयुक्तः' प्रवचनमालिन्यरक्षणाय प्रयत्नपरो बभूव । ततस्तेन संलेखनाकल्पकरणेन चोक्खं शुचिकं च कृतं तत् पात्रकम् । ततश्च निःशील30 निम्रतानां च तेषां ग्रामेयकाणां पात्रकस्य 'दर्शना' 'निरीक्षध्वमिदं यदि भवतामेतद्दर्शने कौतुक १ इति । एतैः पिण्डरसद्रव्यैर्यद् मिश्रं तदपि लेपकृतमेव ॥ १७१३ ॥ भा० ॥ २ ततश्च तेन चोक्खं संलेखनाकल्पकरणेन शुचिकं च कल्पप्रदानेन कृतं तत् पात्रकम् । ततश्च 'निम्शील-नितानां ब्रह्मचर्या-ऽहिंसादिबहिस्कृतानां धिग्जातीयानां पात्रकस्य भा०॥ 20
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy