SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ५१० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ सङ्घाटकेन भावितकुलेषु प्रविश्य पानकं ग्रहीतव्यम् । द्वितीयपदे एकोऽपि (ग्रन्थानम्१००० । सर्वग्रन्थाग्रम्-१३२२० । ) यः क्षपको वृद्धो वा अशङ्कनीयः स आकीर्णेषु भावितकुलेषु पानकं गृह्णाति । तच्च पानकं यत् पूर्वमेव सौवीरिण्या उद्धृतं-पृथक् स्थापितं तेन कल्पकरणं कर्त्तव्यम् । 'तस्य वा' पूर्वोद्वतस्य 'असति' अभावे उत्सेचनमुत्सितं तदपि कारापणीयम् । 5 एषा पुरातनगाथा ॥ १७२६ ॥ अथैनामेव भाष्यकृद विवृणोति भावितकुलेसु धोवित्तु भायणे आणयंति सेसट्ठा । तविहकुलाण असई, अपरीभोगादिसु जयंति ॥ १७२७ ॥ भावितंकुलानि नाम-येषु पूर्वोक्ताः शङ्कादयो दोषा न स्युस्तेषु गत्वा गृहस्थभाजने मण्डल्युपजीवितक्षपकभाजने गुरुभाजने वा द्रवं गृहीत्वा खकीयभाजनानि धौत्वा शेषाणां भाजनानां 10 धावनार्थ संज्ञाभूमिगतानामाचमनार्थ चापरमपि पानकमानयन्ति । तद्विधानां भावितकुलानाम् 'असति' अभावे अपरिभोग्यादिषु यतन्ते, अपरिभोग्यानि नाम-अव्यापार्यमाणभाजनानि तेषु, आदिग्रहणाद् मण्डल्यनुपजीविनः क्षपकस्य भाजनेषु नन्दीभाजने वा, द्रवं गृहीत्वा संसृष्टभाजनानां कल्पं कुर्वन्ति । तच्च पानकं पूर्वोत्सिक्तमेव गृह्णन्ति ॥ १७२७ ॥ ननु यदि सौवीरिणीमुद्धृत्य दीयमानं गृह्णन्ति ततः को दोषः स्यात् ? उच्यते ओअत्तम्मि वहो, पाणाणं तेण पुव्बउस्सित्तं । असती वुस्सिंचणिए, जं पेक्खइ वा असंसत्तं ॥ १७२८ ॥ "ओयत्तम्मि" त्ति प्राकृतत्वात् पुंस्त्वनिर्देशः, सौवीरिण्याम् 'उद्वय॑मानायाम्' उत्पाट्यमानायां ये तत्र सौवीरगन्धेन कंसारिकादयः प्राणजातीया आयाताः सन्ति तेषां बाधा भवति, तेन कारणेन पूर्वोत्सिक्तं ग्रहीतव्यम् । अथ नास्ति पूर्वोत्सितं ततस्तस्यासति उत्सिञ्चनिकया उत्सि20ञ्चाप्य यतनया गृह्णन्ति । अथ नास्त्युत्सिञ्चनिका ततो यत् पार्श्व प्राणिभिरसंसक्तं प्रेक्षन्ते तेनोद्वर्त्य गृहिभाजनं प्रातिहारिकं याचित्वा तत्र द्रवं गृहीत्वा भाजनानि कल्पयन्ति॥१७२८॥ आह च--- गिहिसंति भाण पेहिय, कयकप्पा सेसगं दवं घेत्तुं । धोअण-पियणस्सट्ठा, अह थोवं गिण्हए अन्नं ॥ १७२९ ॥ गृहिसत्कं भाजनं प्रत्युपेक्ष्य यदि निर्जीवं भवति तदा तत्र द्रवं गृहीत्वा 'कृतकल्पाः' 25 खकीयभाजनानि कल्पयित्वा शेषं द्रवमन्येषां भाजनानां धावनार्थ भुक्तोत्तरकालं च पानार्थम् उपलक्षणत्वात् संज्ञाभूमिगमनाथ च गृहीत्वा समायान्ति । अथ तत्र स्तोकमेव द्रवं लब्धं ततो . यावता पर्याप्तं भवति तावदन्यदपरेषु गृहेषु गृह्णन्ति ॥ १७२९ ॥ १ चूर्णी विशेषचूर्णौ च नेयं पुरातनगाथालेन निर्दिष्टा ॥ २°तकुलेषु गत्वा गृहस्थभाजने द्रवं गृहीत्वा स्वकी भा० । “भावितकु° गाधा ॥ भावितकुला णाम-संविग्गभाविया सावगा अधाभगा वा, जेसि वा लोगावादो गत्थि, तेसु संघाडगो गंतुं गिहत्थभायणेसु दवं घेत्तुं कप्पं करेति भायणस्स । 'सेस?' त्ति सेसभायणाणं लेबाडाणं धोवणठ्ठाए सण्णाभूमिपाणगट्ठाए य अण्णं पि दवं गेण्हति ।" इति चौँ विशेषचूर्णी च ॥ ३°म-यानि अव्यापार्यमाणानि भा भा० ॥ ४°षां वधो भ° भा० मो० ले० ॥ ५पाचन प्रा भा० ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy