________________
भाष्यगाथाः १६६४-६८ ]
प्रथम उद्देशः ।
तस - वीयरक्खणट्ठा, कासु वि होज कारणे पेहा | नदिहरणपुत्तनायं, तणू य धूरे य पुत्तम्मि ।। १६६६ ॥ जह से हवेज सत्ती, उत्तारिजा तओ दुवग्गे वि ।
धूरो पुण तणुअंतरं, अवलंबतो वि बोलेइ || १६६७ ॥ त्रसाश्व - द्वीन्द्रियादयः बीजानि च - शाल्यादीनि तेषामस्थिरसंहनिनां रक्षार्थं 'कायेष्वपि ' 5 पृथिव्यादिषु दृढसंहननिषु कारणतः प्रत्युपेक्षणा भवति, न च प्रायश्चित्तम् । आह तेषु प्रतिष्ठितः प्रत्युपेक्षणं कुर्वन् सङ्घट्टनादिबाधाविधानात् कथं न दोषभाग् भवति ? इति उच्यते
४९१
नदीहरणोपलक्षितं पुत्रज्ञातमत्र भवति । कथम् ? इत्याह- “तणू य थूरे य पुत्तम्मि" त्ति यथा कश्चित् पुरुषः, तस्य द्वौ पुत्रौ तयोरेकः तनुकः - कृशशरीरः, द्वितीयस्तु स्थूल:अतीवपीवरगात्रः । स चान्यदा ताभ्यां सहितः कञ्चिद् ग्रामं गच्छन्नपान्तराले एकामपार - गम्भीरां 10 नदीमवतीर्णवान् । स च नदीष्णतया सुखेनैव स्वयं तां तरीतुं शक्तः, परं पुत्रावद्यापि तरण( ग्रन्थाग्रम्-५०० । सर्वग्रन्थाग्रम् - १२७२० । ) कलायामकोविदाविति कृत्वा तनुके स्थूले च पुत्रे उभयेऽपि तारयितुं प्राप्ते सति स किं करोति ? इत्याह
यदि "से" तस्य पितुः 'शक्ति' सामर्थ्यं भवेत् ततः “ दुवग्गे वि” त्ति देशीवचनत्वाद् द्वापि पुत्रावुत्तारयेत्, नैकमप्युपेक्षेत । अथ नास्ति तस्य तथाविधं सामर्थ्यं ततो यस्तयोः कृश - 15 शरीरस्तं तारयति, लघुभूतशरीरतया तस्य सुखेनैव तारणीयत्वात् । यस्तु 'स्थूरः ' शरीरजड्डुः सः 'तनुकतरं' स्तोकमात्रमप्यवलम्बमानो निजशरीरभारिकतयैवात्मानं तं च नयां बात अतस्तमुपेक्षेत । एष दृष्टान्तोऽयमर्थोपनयः – पितृस्थानीयः साधुः, पुत्रद्वयस्थानीयाः स्थिरा -ऽस्थिरसंहनिनः पृथिवीकायादयः, ततः साधुना प्रथमतो निर्विशेषं षडपि कायाः स्थिरसंहनिनोऽस्थिरसंहनिनश्च रक्षणीयाः । अथान्यतरेषां विराधनामन्तरेणाध्वगमनादिषु प्रत्युपेक्षणादीनां प्रवृत्ति - 20 रेव न घटामञ्चति ततः स्थिरसंहनिनां पृथिव्यादीनां विराधनामभ्युपेत्याप्यस्थिरसंहनिनस्त्रसादयो रक्षणीया इति ॥ १६६६ || १६६७ || अस्यैवार्थस्य समर्थनाय द्वितीयं दृष्टान्तमाहअंगारखडपडियं, दट्ठूण सुयं सुयं बिइयमन्नं ।
पवलित्ते नीणितो, किं पुत्ते नो कुणइ पायं ।। १६६८ ।।
यथा नाम कश्चित् पुरुषस्तस्य पुत्रद्वयम्, अन्यदा च रात्रौ तगृहे प्रदीपनकं लग्नम्, तद्भ- 95 यादेकः पुत्रः पलायमानः सहसैवाङ्गारभृतायां गर्तायां निपतितः, स च गृहपतिर्द्वितीयं पुत्रमादाय गृहाद् निर्गतो यावत् पश्यति पुरतः खपुत्रमङ्गारगर्त्तायां पतितम्, ततश्च तं सुतं तथाभूतं दृष्ट्वा द्वितीयमन्यं सुतं “पवलित्ते नीर्णितो " ति पञ्चम्यर्थे सप्तमी प्रदीप्ताद् गृहान्निष्काशयन् निजसहजपारिणामिकमत्या विचार्य परिच्छेदकुशलः सन् किमङ्गारगर्त्तायां निपतितपूर्वे पुत्रे पादं न करोति ? अपि तु करोत्येव, कृत्वा च तदुपरि पादं सुखेनैव तां लङ्घयतीति भावः 30 ॥ १६६८ ॥ अथ तदुपरि पादं न दद्यात् 'स्खपुत्रं कथं पादेनाक्रामामि ?' इति कृत्वा ततः को दोषः स्याद् ? इत्याह
१ ° वकव्यम् । क° भा० ॥
—
अङ्गारगर्त • पतितपुत्रज्ञातम्