________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ उडु अधरऽबंध लहुओ, बंधण धरणे य वासासु ॥ १६६४ ॥ "आयरिए" त्ति षष्ठी-सप्तम्योरथ प्रत्यभेदादाचार्यस्य "परिन्न" ति मत्वर्थीयप्रत्ययलोपात् 'परिज्ञावतः' कृतभक्तप्रत्याख्यानस्य “गिलाण सरिसखमए य" त्ति ग्लानस्य ग्लानसदृशश्च यः
क्षपक:-विकृष्टतपस्वी तस्य, एतेषां चतुर्णामुपधिं यदि न प्रत्युपेक्षते तदा चत्वारो गुरवः । 5 चशब्दात् प्राघूर्णक-स्थविर-शैक्षाणामग्लानोपमस्य च क्षपकस्योपधिमप्रत्युपेक्षमाणानां चतुर्लघवः । "उडु" इत्यादि पश्वार्द्धम् । यदा सर्वाण्यपि वस्त्राणि प्रत्युपेक्षितानि भवन्ति तदा यान्यतिरिक्तानि भाजनानि तानि प्रत्युपेक्ष्यन्ते । प्रतिग्रहं मात्रकं च यदि तदानीमेव प्रत्युपेक्षते तदा मासलघु, असामाचारीनिष्पन्नमिति भावः । अतः सूत्रपौरुषीं कृत्वा चतुर्भागावशेषायां पौरुष्यां
प्रत्युपेक्ष्य द्वे अपि ऋतुबद्धे काले धारणीये न निक्षेप्तव्ये । अथ ऋतुबद्धे प्रतिग्रहं मात्रकं वा 10 न धारयत्युपकरणं वा दवरकेण न बध्नाति तदा मासलघु, अग्नि-स्तेन-दण्डिकक्षोभादयश्च
ओधनियुक्तिप्रतिपादिता दोषाः । वर्षासु पुनरुपधिं न बध्नाति प्रतिग्रहं मात्रकं च प्रत्युपेक्ष्य निक्षिपति । अथोपधिं बध्नाति भाजने वा धारयति तदा मासलघु । विशेषचूर्णिकृता त्वस्या एकगाथायाः स्थाने गाथाद्वयं लिखितम् । यथा
गुरु पच्चक्खायाऽसहु, गिलाण सरिसखमए य चउगुरुगा। b
पाहुणग सेह बाले, वुड्ढे खमए अचउलहुगा ॥ चउभागवसेसाए, पडिग्गहं पञ्चुवेक्ख न धरेइ ।
उडुबद्धे मासलहुं, वासासु धरिंति मासलहुँ । प्रतिलेख- इदं च भावितार्थमेव ॥ १६६४ ॥ अथ "प्रतिलेखनिका संप्रतिपक्षा" (गा० १६६०) नायामप- इति पदं भावयति
असिवे ओमोयरिए, सागार भए व राय गेलने । [ओ.नि.११२]
जो जम्मि जया जुज्जइ, पडिवक्खो तं तहा जोए ॥ १६६५॥ 'प्रतिपक्षो नाम' द्वितीयपदम् , तच्चेदम्-'अशिवे' अशिवगृहीतः सन्न शक्नोति प्रत्युपेक्षितुम् , अवमौदर्ये तु प्रत्यूष एव भिक्षां हिण्डितुं प्रारब्धवन्तः अतो नास्ति प्रत्युपेक्षणायाः कालः, ' सागारिको वा प्रेक्षमाणो मा तं सारमुपधि द्राक्षीदिति कृत्वा, 'भये वा' बोधिक-स्तेनादिसम्ब25 न्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षन्ते, राजा वा प्रत्यनीकस्तद्भयादहर्निशमध्वनि वहन्तो न
प्रत्युपेक्षेरन् , ग्लानत्वे वा वर्तमान एकाकी तिष्ठन् न प्रत्युपेक्षते । एतैः कारणैर्न वा प्रत्युपेक्षेत, अनागतेऽतीते वा काले प्रत्युपेक्षेत, त्वरमाणो वा आरभडादिभिर्दोषैर्दुष्टां प्रत्युपेक्षणां कुर्वीत, असमर्थों वा गुर्वादीनामप्युपधिं न प्रत्युपेक्षेत; एवं यः 'यत्र' अशिवादौ 'यदा' यस्मिन्नवसरे 'प्रतिपक्षः' अप्रत्युपेक्षणा-ऽकालप्रत्युपेक्षणादिको युज्यते तं तथा तत्र योजयेदिति ॥ १६६५॥ 30 अथ षट्सु कायेषु प्रत्युपेक्षमाणस्य प्रायश्चित्तं भवतीत्यर्थात् तत्र प्रत्युपेक्षणा न कर्तव्येति यदुक्तं तदपवदति
१ दृश्यतां “रयताण भाण धरणा०” इत्यादि १७५-७६-७७ गाथात्रिकमोघनिर्युक्तौ भाष्यकृत्सकम् । पत्र ११८-११९ ॥
वादाः
20