________________
ध्यानान्त
15
४८२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ चित्तचेष्टा साऽपि चिन्ता प्रतिपत्तव्या । अतो यदा दृढाध्यवसायेन चिन्तयति तदा चिन्ता
ध्यानयोरेकत्वम् , अन्यदा पुनरन्यत्वम् ।। १६४१ ॥ अथ ध्यानस्यैव भेदानाहध्यानस्य
कायादि तिहिकिकं, चित्तं तिव्य मउयं च मझं च । भेदाः
जह सीहस्स गतीओ, मंदा य पुता दुया चेव ॥ १६४२ ॥ 5 तत् पुनढाध्यवसायात्मकं चित्तं त्रिधा-कायिकं वाचिकं मानसिकं च । कायिकं नाम यत् कायव्यापारेण व्याक्षेपान्तरं परिहरन्नुपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद्वा संलीनाङ्गोपाङ्गस्तिष्ठति । वाचिकं तु 'मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्या' इति विमर्शपुरस्सरं यद् भाषते, यद्वा विकथादिव्युदासेन श्रुतपरावर्तनादिकमुपयुक्तः करोति तद् वाचिकम् । मानसं त्वेकस्मिन् वस्तुनि चित्तस्यैकाग्रता । पुनरेकैकं त्रिविधम्-तीनं मृदुकं च मध्यं च । तत्र तीव्रम्10 उत्कटम् , मृदुकं च-मन्दम् , मध्यं च-नातितीवं नातिमृदुकमित्यर्थः । यथा सिंहस्य गतय. स्तिस्रो भवन्ति । तद्यथा-मन्दा च प्लुता च द्रुता चैव । तत्र मन्दा-विलम्बिता, प्लुता-नातिमन्दा नातित्वरिता, द्रुता च-अतिशीघ्रवेगा ॥ १६४२ ॥ स्याद् बुद्धिः केयं पुनानान्तरिका ? इति उच्यते
अनतरझाणऽतीतो, बिइयं झाणं तु सो असंपत्तो । रिका
___ झाणंतरम्मि बट्टइ, विपहे व विकुंचियमईओ ॥ १६४३ ॥ अन्यतरस्माद्-द्रव्याद्यन्यतरवस्तुविषयाद् ध्यानादतीतः-अतिक्रान्तो यः कश्चिदद्यापि द्वितीयं ध्यानं न सम्प्रामोति स द्वितीयं ध्यानमसम्प्राप्तः सन् यद् ध्यानान्तरे वर्तते सा ध्यानान्तरिका भवतीति शेषः । इयमत्र भावना-द्रव्यादीनामन्यतमं ध्यातवतो यदा चित्तमुत्पद्यते 'सम्प्रति
शेषाणां ध्यातव्यानां कतरद् ध्यायामि ?' इत्येवंविधो विमों ध्यानान्तरिकेत्युच्यते । दृष्टा20 न्तोऽत्र “बिपहे व विकुंचियमतीउ" ति द्विपथं–मार्गद्वयस्थानम् , ततो यथा कैश्चिदेकेन पथा
गच्छन् पुरस्ताद् 'द्विपथे' मार्गद्वये दृष्टे सति 'विकुञ्चितमतिकः' 'अनयोर्मार्गयोः कतरेण व्रजामि ?' इति विमर्शाकुलबुद्धिः सन्नपान्तराले वर्तते, एवमेषोऽपि ध्यानान्तरे इति ॥१६४३॥
अथ शुभाशुभध्यानज्ञापनार्थमिदमाहद्रव्यलेश्या
वण्ण-रस-गंध-फासा, इटाणिवा विभासिया सुत्ते । [आ.नि. ७७] 25
अहिकिच्च दबलेसा, ताहि उ साहिजई भावो ॥ १६४४ ॥ __ 'सूत्रे' प्रज्ञापनादौ कृष्णादीनां लेश्यानां यद् वर्ण-गन्ध-रस-म्पर्शा इष्टा अनिष्टाश्च 'विभाषिताः' विविधम्-अनेकैरुपमानैर्वर्णिताः । तत्र वर्णवर्णना यथा
१ झाणंतरं असं ता० ॥ २ द्रव्य-क्षेत्रादीनामन्यतरस्य वस्तुनो यद् ध्यानम्-एकाग्रचिन्तनलक्षणं तस्मादतीतः-अतिक्रान्तः समापितप्रस्तुतध्यान इति भावः स द्वितीयं भ्यानमसम्प्राप्तः सन् ध्यानान्तरिकायां वर्तते । इय° भा० ॥ ३ केनचिदेकेन पथा गच्छता पुरस्ताद् ग्रामद्वयस्य द्वौ पन्थानौ दृष्टौ ततः स विकुञ्चितमतिरुपजायते, विकुश्चिता-विमर्शन मुकुलिता मतिरस्येति विकुञ्चितमतिः, 'अनयोर्गियो कतरेण वजामि?' इत्येवं दोलायमानमतिरित्यर्थः ॥ १६४३ ॥ भा० ॥