________________
लेश्या
ध्यानयो विशेषः
भावलेइया
४८०
सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
आगमकरणे भइया, ठियकप्पे अट्ठिए वा वि ।। १६३८ ॥
प्रतिपद्यमानका अमी प्रथमे वा - सामायिकाख्ये द्वितीये वा छेदोपस्थापनीयाख्ये चारित्रे भवेयुः । 'इतरे नाम' पूर्वप्रतिपन्नास्ते सर्वेष्वपि चरणेषु भवन्ति, सामायिकादिषु यथाख्यातपर्यन्तेष्विति भावः । तथा नियमादमी तीर्थे भवन्ति नातीर्थे । पर्यायो द्विधा - गृहिपर्यायः प्रव्रज्यापर्या5 यश्च । तंत्र गृहिपर्यायो जघन्यतो जन्मत आरभ्याष्टौ वर्षाणि, उत्कर्षतः पूर्वकोटी । प्रत्रज्यापर्यायो जघन्यतोऽन्तर्मुहूर्त्तम्, तदनन्तरं मरणात् प्रतिपाताद्वा, उत्कर्षतस्तु देशोना पूर्वकोटी । आगमः - अपूर्व श्रुताध्ययनं तस्य करणे 'भाज्याः' अमी कुर्वन्ति वा न वा तमिति भावः । कल्पद्वारे -- स्थितकल्पे वा अस्थितकल्पे वा भवेयुः । वेदद्वारं सुज्ञानत्वाद् भाष्यकृता न भावितम् । इत्थं तु द्रष्टव्यम्—वेदः स्त्री-पुं- नपुंसकभेदात् त्रिविधोऽप्यमीषां प्रतिपत्तिकाले भवेत्, पूर्व10 प्रतिपन्नकानां त्ववेदकत्वमपि भवतीति ॥ १६३७ ।। १६३८ ॥
25
भइया उदव्वलिंगे, पडिवत्ती सुद्धलेस-धम्मेहिं ।
पुव्व पडिवनगा पुण, लेसा झाणे अ अन्नयरे ॥। १६३९ ।।
प्रतिपद्यमानकाः पूर्वप्रतिपन्नकाश्च द्रव्यलिङ्गे 'भक्ताः' विकल्पिताः, कदाचित् तद् न भवत्यपीति भावः । भावलिङ्गं तु नियमात् सर्वदैव भवैति । तथा प्रतिपत्तिः शुद्धलेश्या - धर्मध्यानयो15 र्भवेत् । किमुक्तं भवति ? - प्रथमतः प्रतिपद्यमानकाः शुद्धाखेव तिसृषु लेश्यासु आज्ञाविच - यादौ च धर्मध्याने वर्त्तमानाः प्रतिपत्तव्याः । पूर्वप्रतिपन्नकाः पुनः षण्णां लेश्यानामन्यतरस्यां लेश्यायामार्त्तादीनां च चतुर्णां ध्यानानामन्यतरस्मिन् ध्याने भवेयुः ॥ १६३९ ॥
-अथ लेश्या ध्यानयोः कः प्रतिविशेषः ? उच्यते—लिश्यते-रिलप्यते कर्मणा सह यया जीवः सा लेश्या - कृष्णादिद्रव्यसाचिव्यजनितो जीवस्य शुभाशुभरूपः परिणामविशेषः । उक्तञ्च - कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥
20
स च चलो वा स्यादचलो वा । ध्यानं पुनर्निश्चल एवाशुभ: शुभो वा आत्मनः परिणामः । तथा चाह
झाणेण होइ लेसा, झाणंतरओ व होड़ अन्नयरी |
अझवसाओ उदढो, झाणं असुभो सुभो वा वि ।। १६४० ।। लेईया द्विविधा - द्रव्यतो भावतश्च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या त्वनन्तरोक्त एव शुभाशुभरूपो जीवपरिणामः । सा चैवंविधा शुभाशुभपरिणामरूपा कृष्णादीनामन्यतमा
१ “गिहत्थपरियागो जहन्नेणं अट्ठ सायरेगाई वासाई, उक्कोसेणं सायरेगा पुण्वकोडी” इति विशेषचूर्णो ॥ २ त्, किमुक्तं भवति ? - पूर्व त० डे० ॥ ३ 'भाज्या: ' विकल्पनीयाः, कदा० भा० ॥ ४ वति । लेश्याद्वारे ध्यानद्वारे च चिन्त्यमाने प्रतिपत्तिः भा० ॥ ५ अत एवाह भा० ॥
६ लेश्या द्विविधा - द्रव्यतो भावतश्च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या त्वनन्तरोक्त एवात्मनो मानसिकः परिणामः, स च मानसध्यानादनन्य इति कृत्वाऽभिधीयते । 'ध्यानेन' आर्त्तादिना करणभूतेन 'लेश्या' कृष्णादिका भवति, यदा यादृशं प्रश