________________
10
माष्यगाथाः १६३१-३७] प्रथम उद्देशः ।
४७९ नाति ततोऽन्यस्यां वसतौ स्थापनीमास्ते. प्राघूर्णका इति ॥ १६३२ ॥ भिक्षाचर्यादीनामवशिप्यमाणद्वाराणां विशेषमाह
नियताऽनियता मिक्खायरिया पाणऽन लेवलेवाडं ।
__ अंबिलमणंबिलं वा, पडिमा सव्वा वि अविरुद्धा ॥ १६३३ ॥ भिक्षाचर्या 'नियता' कदाचिदाभिग्रहिकी 'अनियता' कदाचिदनाभिग्रहिकी, असंसृष्टा-संस-5 टाद्यन्यतमैषणाभिग्रहवती तद्वर्जिता वेति भावः । पानमन्नं च लेपकृतं वा भवेद् अलेपकृतं वा । द्राक्षा-चिच्चापानकादि तक तीमनादिकं च लेपकृतम् , सौवीरादिकं वल्ल-चणकादिकं चालेपकृतम् । आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति । 'प्रतिमाश्च' मासिक्यादिका भद्रादिका वा सर्वा अप्यमीषामविरुद्धा इति ॥ १६३३ ॥ उक्तं सामाचारीद्वारम् । अथ स्थितिद्वारमभिधित्सुरिगाथाद्वयमाह
खित्ते काल चरित्ते, तित्थे परियाय आगमे वेए। कप्पे लिंगे लेसा, झाणे गणणा अमिगहा य ॥ १६३४ ॥ पवावण मुंडावण, मणसाऽऽवन्ने उ नत्थि पच्छिचं ।
कारण पडिकम्मम्मि उ, भत्तं पंथो य भयणाए ॥ १६३५ ॥ क्षेत्र १ काले २ चारित्रे ३ तीर्थे ४ पर्याये ५ आगमे ६ वेदे ७ कल्पे ८ लिङ्गे ९ लेश्यायां 15 १० ध्याने ११ गणनायां १२ एतेषु स्थितिर्वक्तव्या, अभिग्रहाश्वामीषामभिधातव्याः १३ ॥ १६३४ ॥ एवं प्रबाजना १४ मुण्डापना १५ मनसाऽऽपन्ने त्वपराधे नास्ति प्रायश्चित्तं १६ कारणं १७ प्रतिकर्मणि च स्थितिः १८ भक्तं पन्थाश्च भजनया १९ इति गाथाद्वयसमुदायार्थः ॥ १६३५ ॥ अवयवार्थ तु प्रतिद्वारं विभणिषुराह
पन्नरसकम्मभूमिसु, खेत्तद्धोसप्पिणीइ तिसु होला।
तिसु दोसु य उस्सप्पे, चउरो पलिभाग साहरणे ॥ १६३६ ॥ क्षेत्रद्वारे जन्मतः सद्भावतश्च स्थविरकल्पिकाः ‘पञ्चदशस्वपि कर्मभूमिषु' भरतैरावत-विदेहपञ्चकलक्षणासु भवन्ति । संहरणतः पञ्चदशानां कर्मभूमीनां त्रिंशतामकर्मभूमीनामन्यतरस्यां भूमौ भवेयुः । 'अद्धा' कालम्तमङ्गीकृत्यावसर्पिण्यां जन्मतः सद्भावतश्च 'त्रिषु' तृतीय-चतुर्थ-पञ्चमारकेषु भवेयुः । “तिसु दोसु य उम्सप्पे" ति उत्सर्पिण्यां जन्मतः 'त्रिषु' द्वितीय-तृतीय-चतुर्थेप्वर- 25 केषु सद्भावतस्तु 'द्वयोः' तृतीय-चतुर्थारकयोर्भवन्ति । नोअवसर्पिण्युत्सर्पिणीकाले जन्मतः सद्भावतश्च दुःषममुषमाप्रतिभागे भवन्ति, संहरणतस्तु चत्वारोऽपि प्रतिभागा अमीषां विषयतया प्रतिपत्तव्याः, तद्यथा-सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुःषमाप्रतिभागः दुःषमसुषमाप्रतिभागश्चेति ॥ १६३६ ॥ पढम-बिइएसु पडिवजमाण इयरे उ सव्वचरणेसु ।
30 नियमा तित्थे जम्मऽट्ट जहन्ने कोडि उक्कोसे ॥१६३७ ।।
पव्वजाएँ मुहुत्तो, जहनमुक्कोसिया उ देसूणा । १ यादिभिरेषणाभिरप्रतिनियतेति भावः भा० ॥ २ जणा उतरे ता० ॥
20