________________
४७८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
बत्तीसई उसभसेणे" त्ति द्वात्रिंशत् सहस्राण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणम्, यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्येति । तथा स्थण्डिलमपि 'प्रथमम्' अनापातमसंलोकमेते गच्छ्वासिनो व्रजन्ति । 'आगाढे तु भावासन्नतादौ कारणे 'शेषाण्यपि अनापातसंलोकप्रभृतीनि स्थण्डिलानि गच्छन्ति ॥ १६३० || 'कियच्चिरम् ?' इति द्वारं विशेषयन्नाह - fafer कालं वसिहि, न ठंति निकारणम्मि इह पुट्ठा । अन्नं वा मग्गंती, ठविंति साहारणमलंभे ।। १६३१ ॥
कियच्चिरं कालं यूयमस्यां वसतौ वत्स्यथ ? इति पृष्टाः सन्तो निष्कारणे न तिष्ठन्ति, किन्तु क्षेत्रान्तरं गच्छन्ति । अथ बहिरशिवादीनि कारणानि ततस्तत्रैव क्षेत्रेऽन्यां वसतिं मार्गयन्ति । अथ मृग्यमाणाऽप्यन्या न लभ्यते ततः साधारणं वचनं स्थापयन्ति, यथा-1 - निर्व्याघाते तावद् 10 वयं मासं यावदवतिष्ठामहे व्याघाते तु हीनाधिकम् ॥ १६३१ ॥
अथ लाघवार्थं शेषद्वाराणि तुल्यवक्तव्यत्वादतिदिशन्नाह—
5
एमेव सेस वि, केवइया वसिहिह त्ति जा नेयं । [ पि.नि. ७६ ] निकारण पडिसेहो, कारण जयणं तु कुव्वंति ।। १६३२ ।।
'एवमेव' कियच्चिरद्वारवत् 'शेषेष्वपि' उच्चार - प्रश्रवणादिषु द्वारेषु कियन्तो वत्स्यथेति द्वारं 15 यावन्नेयम् । किम् ? इत्याह – एतेष्वपि निष्कारणे प्रतिषेधः, न वसन्तीति भावः कारणे तु यतनां कुर्वन्ति । किमुक्तं भवति : - यदि तिष्ठतामुच्चार-प्रश्रवणयोः परिष्ठापनमकाले फलिहकाभ्यन्तरतो वा नानुजानन्ति ततस्तत्र न तिष्ठन्ति । अथाशिवादिभिः कारणैस्तिष्ठन्ति तत उच्चारं प्रश्रवणं वा मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति । एवमवकाशादिष्वपि द्रष्टव्यम् | नवरमवकाशे यत्र प्रदेशे उपवेशन-भाजनधावनादि नानुज्ञातं तत्र नोपविशन्ति, कमढकादिषु च भाज20 नानि धावन्ति । तृणफलकान्यपि यानि नानुज्ञातानि तानि न परिभुञ्जते । संरक्षणता नाम यत्र तिष्ठतामगारिणो भणन्ति ' गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवर्त्ति गृहं संरक्षत' तत्राप्यशिवादिभिः कारणैस्तिष्ठन्तो भणन्ति - यदि वयं तदानीं द्रक्ष्यामस्ततो रक्षिप्याम इति । संस्थापनता नाम वसतेः संस्कारकरणं तस्यामपि नियुक्ता भणन्ति वयमकुशलाः संस्थापना कर्मणि कर्त्तव्ये । सप्राभृतिकायामपि वसतौ कारणतः स्थिता देशतः सर्वतो वा क्रियमाणायां प्राभृति25 कायां खकीयमुपकरणं प्रयलेन संरक्षन्ति, यावत् प्राभृतिका क्रियते तावदेकस्मिन् पार्श्वे तिष्ठन्ति । सदीपायां सामिकायां वा वसतौ कारणे स्थिता आवश्यकं वहिः कुर्वन्ति । अवधानं नाम यदि गृहस्थाः क्षेत्रादिषु गच्छन्तो भणन्ति - 'अस्माकमपि गृहेषूपयोगो दातव्यः मा शुनक- स्तेनकादयः प्रविश्योपद्रवं कार्षुः' इति, तत्रापि कारणे स्थिताः स्वयमेवावधानं ददति, अनुपस्थापितरौ - क्षैर्वा दापयन्ति । यत्र च 'कति जना वत्स्यथ ?' इति पृष्टे सति कारणतस्तिष्ठद्भिः परिमाणनि30 यमः कृतो यथा 'एतावद्भिः स्थातव्यं नाधिकैः' ततो यद्यन्ये प्राघूर्णकाः समागच्छन्ति तदा तेषामवस्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिकः, यद्यनुजानाति ततः सुन्दरमेव, अथ नानुजा
१ नत्वादिकं किमपि कारणं व्याघातो वा प्रथमे स्थण्डिले कोऽपि भवेत् ततः 'शेषा' भा० ॥ २ 'यमनुपस्थापितादिभिर्वा अवधानं ददति दापयन्ति वा । यत्र भा० ॥