SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रथम उद्देशः । ओवासे aणफलए, सारक्खणया य संठवणया य । पाहुड अग्गी दीवे, ओहाण वसे कइ जणा य ।। १६२५ ।। भिक्खायरिया पाणग, लेवालेवे तहा अलेवे य । भाप्यगाथाः १६२० - ३० ] ४७७ आयंविल पडिमाओ, गच्छम्मि उ मासकप्पो उ ।। १६२६ ।। आसामर्थः प्राग्वद् द्रष्टव्यः ।। १६२३ ।। १६२४ ॥ १६२५ || १६२६ ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह ओहेण दसविहं पिय, सामायारिं न ते परिहवंति । पवयणमाय जहने, सव्वसुयं चैव उक्कोसे ।। १६२७ ॥ 'ओघेन' सामान्यतो दशविधामपि सामाचारी न 'ते' स्थविरकल्पिकाः परिहापयन्ति । आचार्यादिपुरुषविशेषापेक्षया तु या यस्येच्छाकारादिका युज्यते या च तथाकारादिका न युज्यते सा 10 तथा वक्तव्या । श्रुतद्वारमङ्गीकृत्य जघन्यतो गच्छवासिनामष्टौ प्रवचनमातरः श्रुतम् । उत्कर्षतः सर्वमेव श्रुतम्, चतुर्दशपूर्वाणीति हृदयम् ॥ १६२७ ॥ सव्वेसु वि संघ होंति धिइदुब्बला व बलिया वा । आतंका उवसग्गा, भइया विसहंति व नवति ॥ १६२८ ॥ स्थविरकल्पिकाः 'सर्वेष्वपि षट्स्वपि संहननेषु भवन्ति, धृत्याऽपि - मानसावष्टम्भलक्षणया 15 दुर्बला वा भवेयुर्बलिनो वा । 'आतङ्काः ' रोगाः 'उपसर्गाः' दिव्यादयो यदि समुदीर्यन्ते तदा तान् विषहन्ते वा न वेति 'भक्ताः' विकल्पिताः, यदि ज्ञानादिपुष्टालम्बनं भवति तदा चिकिसादिविधानान्न सहन्ते इतरथा तु सम्यगदीनमनसः सहन्त इति भावः ॥ १६२८ ॥ दुविहं पिवेयणं ते, निकारणओ सहति भइया वा । अममत्त अपरिकम्मा, वसही वि पमजणं मोत्तुं ॥ १६२९ ॥ 'द्विविधामपि' आभ्युपगमिकीम पक्रमिकी च वेदनां 'निष्कारणतः ' कारणमन्तरेण सहन्ते 'भाज्या वा' असहिष्णुत्वं-तीर्थाव्यवच्छेदादिकारणवशान्न सहन्तेऽपीति भावः । तथा वसतिरपि तेषाम् ' अममत्वा' ममेयमित्यभिष्वङ्गरहिता, 'अपरिकर्मा' उपलेपनादिपरिकर्मवर्जिता, किं सर्वथैव : न इत्याह-प्रमार्जनामेकां मुक्त्वा । कारणे तु सममत्वा सपरिकर्माऽपि भवति । तत्रापरिणतचारित्राणां शैक्षादीनां ममेयमित्यभिष्वङ्गविधानात् सममत्वा, सपरिकर्मा त्वपरिकर्माया 25 वसतेरलाभ द्रष्टव्या ।। १६२९ ॥ अथ कति जनाः स्थण्डिलं चेति द्वारद्वयस्य विशेषमाह - तिगमाईया गच्छा, सहस्सा बत्तीसई उससेणे । थंडिलं पि य पढमं वयंति सेसे वि आगाढे ॥। १६३० ॥ 'त्रिकादयः ' त्रि- चतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति : - एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य साधुसमुदायरूपत्वात् तस्य च त्रयाणामधस्ताद - 30 भावादिति । तत ऊर्द्ध ये चतुः पञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्त - व्यास्तावद् यावदुत्कृष्टं परिमाणं न प्राप्नोति । किं पुनस्तत् ? इति चेद् अत आह— "सहस्स १ 'भाज्या: ' विकल्पनीयाः । यदि भा० ॥ २ त्वादिकारणवशतो न सह° भा० त०डे० ॥ 1 20
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy