________________
10
भाष्यगाथाः १६१५-१९] प्रथम उद्देशः ।
४७५ एवं 'तुः पुनरर्थे एव पुनर्विधिरन्यसाम्भोगिकानामुक्तः, ये तु साम्भोगिकाः-परस्परमेकसामाचारीकास्तेषामागन्तुकानामर्थाय त एव वास्तव्याः स्थापनाकुलेभ्यो भक्त-पानमानीय प्रयच्छन्ति । अथ श्राद्धाः प्राघूर्णकभद्रका अतीव निर्बन्धं कुर्युः, यथा-प्राघूर्णकसङ्घाटकोऽप्य. स्मद्गृहे स्थापनीयः, ततो निर्बन्धं ज्ञात्वा वास्तव्यसङ्घाटिकेन आगन्तुकसङ्घाटिकं गृहीत्वा तत्र गन्तव्यम् । यदि च तत्र प्रचुरं प्रायोग्यं प्राप्यते तत आगन्तुकसङ्घाटिकेन गवेषणा न कर्त्तव्या-5 किमित्येतावत् प्रचुरं दीयते ? किन्तु 'स तु' स एव वास्तव्यसङ्घाटिकस्तत्र प्रमाणम् , यावन्मानं ग्रहीतव्यं यद्वा कल्पनीयं तदेतत् सर्वमपि स एव जानातीति भावः ॥ १६१७ ॥ एष एकम्यां वसतौ स्थितानां विधिरुक्तः । अथ पृथग्वसतिव्यवस्थितानामाह
असइ वमहीऍ वीसुं, रायणिए वसहि भोयणाऽऽगम्म ।
असहू अपरिणया वा, ताहे वीमुंऽसहू वियरे ॥ १६१८ ॥ विस्तीर्णाया वसतेः 'असति' अभावे 'विप्वक्' पृथग् अन्यस्यां वसतौ स्थितानामागन्तुको वास्तव्यो वा यः 'रत्नाधिकः' आचार्यस्तस्य वसतावागम्यावमरत्नाधिकेन भोजनं कर्तव्यम् । अथैकस्मिन् गच्छे द्वयोर्वा गच्छयो: 'असहिष्णवः' ग्लाना भवेयुः अपरिणता वा शैक्षाः परस्परं मिलिताः सन्तोऽसङ्खडं कुर्युः तदा "वीमुं" ति अपरिणतान् ‘विष्वक्' पृथग् भोजयन्ति । “सहू. वियरे" ति अकारप्रश्लेषाद् असहिष्णूनां प्रथमालिकां 'वितरन्ति' प्रयच्छन्ति । ततोऽपरिणतान् ।। वसतौ स्थापयित्वा कृतप्रथमालिकान् असहिष्णून् गृहीत्वा सर्वेऽपि रत्नाधिकवसतौ गत्वा मण्डल्यां मुञ्जते । अथवोत्तरार्द्धमन्यथा व्याख्यायते-'असहू" इति यद्यवमरत्नाधिक आचार्यः वयमसहिष्णुर्न शक्नोति रत्नाधिकाचार्यसन्निधौ गन्तुं न या तावती वेलां प्रतिपालयितुं शक्तः 'अपरिणता वा' अगीतार्थास्तस्य शिप्यास्तेषां नास्ति कोऽपि सामाचार्या उपदेष्टा आलोचनाया वा प्रतीच्छकः ततो विष्वग्वसतौ द्वावप्याचार्यों समुद्दिशतः । “सहू विअरे" ति 'या' अथवा यदि 20 रत्नाधिकः सहिष्णुम्ततः 'इतरस्य' अवमरत्नाधिकस्योपाश्रयं गत्वा समुद्दिशति ॥ १६१८ ।। एवं तावद् द्वयोर्गच्छयोर्विधिरुक्तः । अथ त्रयो गच्छा भवेयुस्ततः को विधिः ? इत्याह
तिहं एक्केण समं, भत्तटुं अप्पणो अवढं तु ।।
पच्छा इयरेण समं, आगमण विरेगु सो चेव ॥ १६१९ ॥ यद्येक आचार्यो वास्तव्यो भवति द्वी चागन्तुको तत इत्थं त्रयाणामाचार्याणां सम्भवे द्वयो- 25 रागन्तुकयोर्मध्याद् यो रत्नाधिकस्तस्य सम्बन्धी यो वैयावृत्त्यकरस्तेनैकेन समं वास्तव्याचार्यवैयावृत्त्यकरः पर्यटन प्राघूर्णकाचार्यम्य हेतोः 'भक्तार्थ' परिपूर्णाहारमात्रारूपम् 'आत्मनश्च' आत्मीयाचार्यार्थम् 'अपार्द्धम्' अर्द्धध्रुवमानं श्राद्धकुलेभ्यो गृह्णाति । पश्चाद् ‘इतरेण' आगन्तुकावमरलाधिकाचार्यसम्बन्धिना वैयावृत्त्यकृता समं पर्यटन् तथैव तद्योग्यं भक्तार्थमात्मनश्वार्द्धध्रुवमानं गृह्णाति । "आगमण विरेगो सो चेव" त्ति यदि त्रि-चतुःप्रभृतीनामाचार्याणामागमनं भवति 30 ततः स एव 'विरेकः' विभजनम् । किमुक्तं भवति ?-तदीयैरपि वैयावृत्त्यकरैः समं यथाक्रम पर्यटता वास्तव्यसाधुनाऽऽल्मीयाचार्यार्थ तथा ब्यादिभिर्भागैर्भक्तार्थं विभज्य भक्तं ग्रहीतव्यं यथा सर्वान्तिमवैयावृत्त्यकरेण समं पर्यटन्नात्मगुरूणां भकार्य परिपूरयतीति ॥ १६१९ ॥