________________
सनियुक्ति-लघुभाय-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
सत्कालाद्धा-भिक्षायाः सम्बन्धी यो यत्र देशकालरूपोऽद्धा तं ज्ञात्वा कुले कुले तस्मिन् देशकाले तत्र प्रविशन्ति । अथ देशकालेऽतिक्रान्तेऽप्राप्ते वा प्रविशन्ति ततोऽवष्वष्कणादयो दोषाः । अथावप्वष्कणादिकं तानि श्राद्धकान्यशुद्धद्वानदोषश्रवणव्युत्पन्नमतीनि न कुर्युः ततः प्रायोग्यद्रव्यस्याला बालादीनां हानिर्भवेदिति ।। १६१४ ॥ एवं यत्र क्षेत्र एक एव गच्छो भवेत् 5 तत्र स्थापनाकुलप्रवेशे सामाचारी भणिता । अथानेकगच्छविषयां तामेवाभिधित्सुराह - एगो व होज गच्छो, दोन्निव तिन्नि व ठवणा असंविग्गे । सोही गिलाणमाई, असई य दवाइ एमेव ॥ १६१५ ॥
विवक्षितक्षेत्रे एको वा गच्छो भवेद् द्वौ वा त्रयो वा, तंत्रकं गच्छमाश्रित्य विधिरुक्तः । अथ यादीन् गच्छानधिकृत्य विधिरभिधीयते -- "ठवणा असंविग्गे" त्ति येषु असं विमा: प्रवि10 शन्ति तेषां श्राद्धकुलानां स्थापना कर्त्तव्या, न तेषु प्रवेष्टव्यम् । अथ प्रविशन्ति ततः पञ्चदशोद्गमदोषानापद्यन्ते, “सोहि” त्ति तद्दोषनिष्पन्ना 'शोधिः प्रायश्चित्तम् । यद्वा " सोहि" त्ति पढ़ "गिलाणमाई” इत्युत्तरपदेन सह योज्यते, ततोऽयमर्थः लान - प्राघूर्णकादीनामर्थायासंविग्नभावितेष्वपि कुलेषु ‘शोधिः' एषणाशुद्धिः तया शुद्धं भक्तं गृह्यते न कश्चिद् दोषः । " असई इ दवाइ एमेव " त्ति अन्यत्र 'असति' अविद्यमाने द्रवादिकमपि 'एवमेव' असंविप्रभावित - 15 कुलेषु ग्रहीतव्यमिति द्वारगाथासमासार्थः ॥ १६१५ ॥ अथैनामेव विवरीषुराह— संविग्गमणुनाए, अति अहवा कुले विरिंचंति ।
४७४
अन्नाउंछं व सहू, एमेव य संजईवग्गे ।। १६१६ ॥
इह यैस्तत् क्षेत्रं प्रत्युपेक्षितं तेषु पूर्वस्थितेषु येऽन्ये साधवः समायान्ति ते साम्भोगका असाम्भोगिका वा स्युः । तत्रासाम्भोगिकेषु संविभेषु विधिरुच्यते - संविभैर्वास्तव्य साधुभिः 'अनु20 ज्ञाते' 'यूयं स्थापनाकुलेषु प्रविशत, वयमज्ञातोञ्छं गवेषयिष्यामः' इत्येवमनुज्ञायां प्रदत्तया य आगन्तुकाः संविग्नास्ते स्थापनाकुलेषु " अइंति” त्ति प्रविशन्ति । वास्तव्यास्तु स्थापना कुलवर्जेषु . गुरु- बाल-वृद्धादीनामात्मनश्च हेतोर्भक्त-पानमुत्पादयन्ति । अथ वास्तव्या असहिष्णवस्ततो यावन्तो गच्छास्तावद्भिर्भागैः स्थापना कुलानि विरिञ्चन्ति - आर्याः ! एतावत्सु कुलेषु भवद्भिः प्रवेष्टव्यम्, एतावत्सु पुनरस्माभिरिति । अथवा यद्यागन्तुकाः " सहू" इति 'सहिष्णवः' समर्थशरीरास्ततो25 ऽज्ञातोञ्छं गवेषयन्तः पर्यटन्ति । एवमेव च संयतीवर्गेऽपि द्रष्टव्यम्, ता अपि व्यादिगच्छसद्भावे एवंविधमेव विधिं कुर्वन्तीत्यर्थः ॥ १६१६ ॥
एवं तु अन्नसंभोग संभोइआण ते चैव ।
जाणित्ता निब्बंधं, वत्थव्वेणं स उ पमाणं ।। १६१७ ।।
१ गाथयं चूर्णिकृता विशेषचूर्णिकृता च पुराबनगाथात्वेन निर्दिष्टा || २ अलाभे द्रवा° ॥ ३ इह ये द्रयादयो गच्छाः [ते] परस्परं साम्भोगिका भा० ॥ ४° त्तायामिति भावः ' भा० ॥ ५ 'स्माभिरित्येवं विभुञ्जतीति (विभजन्तीति भावः । अथ भा० । “अथवा मज्जातं टवेंति — एवतिएहिं कुलेहिं तुभे पविसेज्जाध, एवतिएहिं अम्हे पविसिस्सामो, एवं 'विरिचंति 'विभजन्तीत्यर्थः " इति चूर्णो विशेषचूर्णो च ॥