________________
भाष्यगाथाः १६०९-१४] प्रथम उद्देशः । ।
४७३ द्रव्यं-शाल्यादि तस्य प्रमाणं ज्ञातव्यम् , कियदत्र गृहे रसवत्यां शालि-मुद्गादिकं. दिने दिने प्रविशति ? । 'गणना' नाम कियन्ति घृतपलान्यत्र प्रविशन्ति ? यद्वा कियन्ति मानुषाण्यत्र जेमयन्ति ? । "खारिय" त्ति क्षारः-लवणं तेन संस्कृतानि 'क्षारितानि' लवणकरीरादीनि व्यञ्जनानि तानि कियन्त्यत्र पच्यन्ते ? इति । “फोडिय" त्ति 'स्फोटितानि' मरिच-जीरकादिकटुभाण्डधूपितानि शालनकानि एतेषामपि तथैव प्रमाणं ज्ञातव्यम् । 'अद्धा' कालः स ज्ञातव्यः, 5 किमत्र प्रहरे वेला ? उत सार्द्धप्रहरे ? आहोश्चित् प्रहरद्वये ? इति । एतद् द्रव्यप्रमाणादिकं विज्ञाय 'संविमः' मोक्षाभिलापी “एगठाणे" ति एकः सङ्घाटकस्तत्र प्रविशति । यदि पुनरनेके साधवः स्थापनाकुलेषु प्रविशन्ति ततः ‘पञ्चदश' आधाकर्मादयो अनिसृष्टान्ता उद्गमदोषा भवन्ति, अध्यवपूरकस्य मिश्रजात एवान्तर्भावात् । एष सङ्ग्रहगाथासमासार्थः ॥ १६११ ॥ अस्या एव भाप्यकृद् व्याख्यानमाह
10 असणाइदव्बमाणे, दसपरिमिय एगभत्तमुव्बरइ ।
सो एगदिणं कप्पइ, निचं तु अज्झोयरो इहरा ॥१६१२ ॥ अशनम्-ओदन-मुद्गादि, आदिग्रहणात् पानक-खादिम-स्वादिमपरिग्रहः, एतेषां द्रव्याणां परिमितानामपरिमितानां वा मान-प्रमाणं ज्ञातव्यम् । यत्र परिमितमशनादि द्रव्यं प्रविशति तत्र दशानां मानुषाणां हेतोरुपस्क्रियमाणे एकस्य-अपरस्य योग्यं भक्तं-भक्तार्थमुद्वरति, स च भक्तार्थ 15 एकस्य साधोः परिपूर्णाहारमात्रारूप एक दिनं ग्रहीतुं कल्पते । 'इतरथा' यदि द्वितीयादिषु दिवसेषु गृह्णन्ति तदा “निचं तु" त्ति स साधुभिः प्रतिदिवसगृह्यमाणो भक्ताओं नित्यजेमनमेव तैः श्राद्धैर्गण्यते, ततश्च तदर्थमध्यवपूरकः प्रक्षिप्येत ॥ १६१२ ॥ एवं तावत् परिमितमाश्रित्योक्तम् । अथापरिमितमधिकृत्याह
अपरिमिए आरेण वि, दसण्हमुव्बरइ एगभत्तहो।
वंजण-समिइम-पिढे-वेसणमाईसु य तहेव ॥१६१३॥ यत्र पुनरपरिमितं राध्यते तत्र दशानां मानुषाणाम् 'अयंगपि' नवाष्टादिसङ्ख्याकानामपि हेतो राद्धे एकस्य योग्यो भक्तार्थ उद्वरति, स च दिने दिने कल्पत इति । आह च चूर्णिकृत्
अपरिमिए पुण भत्ते दसण्ह आरेण वि एगम्स भत्तट्टो दिणे दिणे कप्पइ चेव । तथा व्यञ्जनानि-तीमन-वटिका-भर्जिकादीनि, “समितिम" त्ति समिता-कणिक्का तया निष्प-23 न्नाः समितिमाः-मण्डकाः पूपलिका वा, पिष्टम्-उण्डेरकादि सक्तुप्रभृति वा, वेसणं-मरिच-जीरक-हिङ्गुप्रभृतिकं कटुभाण्डम् , आदिग्रहणाद् लवण-शुण्ठ्यादिपरिग्रहः । एतेषामपि परिमाणं तथैव द्रष्टव्यं यथाऽशनादीनाम् !! १६१३ ॥ एतावता "द्रव्यप्रमाणं गणना-क्षारित-स्फोटितानि" (गा०१६११) इति गाथादलं भावितम् । अथ "अद्धा य" (गा० १६११) त्ति पदं व्याचष्टे
सतिकालद्धं नाउं, कुले कुले ताहि तत्थ पविसंति ।।
ओसक्कणाइदोसा, अलंमें बालाइहाणी वा ॥ १६१४ ॥ १कानि कियन्मात्राण्यत्र संस्क्रियन्ते ? । “अद्ध" त्ति 'अद्धा' भा० ॥ २°चं चिय ओयरो ता० ॥
30