________________
विधिप्रहणम्
४७२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौपधादिकमपथ्यं भवतिं, काञ्चित् पुनः समाश्रित्य तदेव पथ्यम्, एवमिहापि भावनीयम् || १६०८ ॥
तदेवं भावितं " साहंति य पियधम्मा, एसणदोसे अभिग्गहवि से से" ( गा० १६०२ ) इति । अथ यदुक्तम् " एवं तु विहिगहणे" ( गा० १६०२ ) ति तत्र विधिग्रहणं भावयति — संचयमसंचयं, नाऊण असंचयं तु गिव्हंति ।
5
संचयं पुण कजे, निब्बंधे चैव संतरियं ।। १६०९ ॥
प्रायोग्यद्रव्यं द्विधा — सञ्चयिकमसञ्चयिकं च । 'सञ्चयिकं' घृत- गुड - मोदकादि, 'असञ्चयिकं' तु दुग्ध-दधि-शालि सूपदि । तत्र यदसञ्चयिकं तत् स्थापनाकुलेषु प्रभूतं ज्ञात्वा गृह्णन्ति । सञ्चयिकं पुनर्लान- प्राघूर्णकादौ महति कार्ये उत्पन्ने गृह्णन्ति । अथ श्राद्धानां महान् निर्बन्धो 10 भवति ततोऽग्लाना अपि गृह्णन्ति परं 'सान्तरितं' न दिने दिने इति भावः । एष सञ्चयिक - ग्रहणस्यापवाद उक्तः ॥ १६०९ ॥ अथापवादपदस्याप्यपवादमाह
-
स्थापनाकुलेभ्यो 20
भक्तादि
ग्रहणे
सामाचारी
अहवण सद्धा-विभवे, कालं भावं च बाल- बुड्ढाई |
नाउ निरंतरगहणं, छिन्नभावे य ठायंति ।। १६१० ॥
" अहवण" चि अखण्डमव्ययं प्रकारान्तरद्योतनार्थम् । श्रावकाणां श्रद्धां च - दानरुचिं तीव्रां 15 परिज्ञाय विभवं च विपुलं तदीयगृहेष्ववगम्य 'काल' दुर्भिक्षादिकं 'भावं च ' ग्लानत्वादिकं ज्ञात्वा बाल-वृद्धादयो वा आप्यायिता भवन्त्विति ज्ञात्वा निरन्तरग्रहणमपि कुर्वन्ति, सञ्चयिक - मपि दिने दिने गृह्णन्तीति भावः । यावच्च दायकस्य दानभावो न व्यवच्छिद्यते तावदच्छिन्ने भावे 'तिष्ठन्ति' दीयमानं प्रतिषेधयन्तीत्यर्थः, यथा तेषां भूयोऽपि श्रद्धा जायते ।। १६१० ॥ अथ स्थापनाकुलेषु भक्त - पानग्रहणे सामाचारीमभिधित्सुराह—
दव्वप्यमाण गणणा, खारिय फोडिय तहेव अद्धा य । [ ओघ. भा. १३६ ] संविग्ग ऍगठाणे, अणेगसाहूसु पन्नरस ।। १६११ ॥
१ यथा हि रोगिणः कामव्यवस्थामाश्रित्य पध्यमपथ्यं भवति, काञ्चित् पुनः समाश्रित्य अपथ्यमपि पथ्यम्; एवमिहापि भावनीयम् । गाभाव (यथा वा ) विषादिक मौषधलवमात्रमव्युपयुज्यमानमपश्यतया महतीं चित्तविप्लुतिप्रभृतिकां दुःखासिकां जनयति, तदेव सान्निपातिकादिरोगा वेगविह्वलीभूतस्य पुरुषस्य रसभिपगुपदेशेनोपयुज्यमानं पथ्यरूपतया परिणमति महतीं च चेतनापाटवप्रभृतिकां सुख। सिकां सम्पादयति । उक्तं च"सरुजस्यौषधं पथ्यं, नीरुजस्य किमौषधैः ? ।" एवं संस्तरणे सत्यशुद्धमशनादिकं विषादिवदपश्यतया दायक - ग्राहकयोरुभयोरपि महतीमिह परत्र च दुःखपरम्परामुपजनयति, तदेवासंस्तरणे दीयमानमादीयमानं वा परमामृतवत् परिणमति, ततश्च क्रमेणाजरामरत्वलक्षणां महतीं सुखासिकामुत्पादयतीति || १६०८ ॥ भा० । “आतुर दिणं यथा - 'व्याधितस्यौषधं पथ्यं, नीरुजस्य किमौषधैः ? ।' जधा वा खीरं एगस्य अपत्यं एगस्स पत्थं उवणयो कातन्त्रो । अन्नं च कहिंति—अज आयरियाण अभत्तट्टो, अज्ज आयंबिलं निव्वीइयं तद्दिवसं परिहरंति" इति चूर्णौ विशेषचूर्णौ च ॥ २ कादिकमविनाशि द्रव्यम्, 'अस' भा० ॥ ३ पादिकं विनाशि |
तत्र भा० ॥ ४ एव ठवणा, अणे ता० ॥