________________
भाष्यगाथाः १६०४-८] प्रथम उद्देशः ।
४७१ कथयन्ति, 'इत्थमाधाकर्मादयो दोषा उपजायन्ते, इत्थमेमिदोषैरदुष्टः पिण्डः साधूनां दीयमानः शुद्धो बहुफलश्च भवति इत्येवं पिण्डनियुक्तिं लेशतो ज्ञापयन्तीति भावः । तथा यद्यपि यूयमिदं साधुधर्मस्वरूपमग्रेऽपि जानीथ तथापि युष्माकं बहुव्याक्षेपाणामविस्मरणार्थं कथयाम इति ॥ १६०५ ॥ अपि च---
केसिंचि अभिग्गहिया, अणभिग्गहिएसणा उ केसिंचि ।
मा हु अवणं काहिह, सव्वे वि हु ते जिणाणाए ॥ १६०६॥ केषाश्चित् साधूनामभिगृहीता एषणा, यथा जिनकल्पिकानाम् । केषाञ्चित् त्वनभिगृहीता, यथा गच्छवासिनाम् , सप्तखपि पिण्डेषणासु तेषां भक्त-पानस्य ग्रहणात् । एवं चापरापरां भक्त-पानग्रहणसामाचारी दृष्ट्वा यूयं मा अवज्ञां करिष्यथ । कुतः ? इत्याह --'सर्वेऽपि ते' भगवन्तो जिनकल्पिकाः स्थविरकल्पिकाश्च जिनाज्ञायां वर्तन्ते, स्वखकल्पस्थितिपरिपालनात् , 10 अतो न केऽप्यवज्ञातुमर्हन्तीति भावः ।। १६०६ ॥ किञ्च
संविग्गभावियाणं, लुद्धगदिद्वैतभावियाणं च ।
मुत्तूण खेत्त-काले, भावं च कहिंति सुद्धंछं ॥ १६०७॥ येषां श्राद्धानां पुरत एषणादोषाः कश्यन्ते ते द्विधा--संविमभाविता लुब्धकदृष्टान्तभाविताश्च । संविग्नेः-उद्यतविहारिभिर्भाविता: संविग्नभाविताः । ये तु पार्श्वस्थादिभिर्लुब्धकदृष्टान्तेन 15 भावितास्ते लुब्धकदृष्टान्तभाविताः । कथम् ? इति चेद् उच्यते-ते पार्श्वस्थाः श्राद्धानित्यं प्रज्ञापयन्ति-यथा कम्यापि हरिणम्य पृष्ठतो लुब्धको धावति, तस्य च हरिणस्य पलायनं श्रेयः, लुब्धकस्यापि तत्पृष्ठतोऽनुधावनं श्रेयः; एवं साधोरप्यनेषणीयग्रहणतः पलायितुमेव युज्यते, श्रावकस्यापि तेन तेनोपायेन साधोरेषणीयमनेषणीयं वा दातुमेव युज्यते इति । इत्थं द्विविधानामपि श्राद्धानां पुरतः शुद्धं-द्वाचत्वारिंशद्दोषरहितं यदुञ्छमिवोञ्छं स्तोकस्तोकग्रहणात् 'शुद्धो-20
छम्' उत्सर्गपदमित्यर्थः तत् कथयन्ति । किं सर्वदैव ? न इत्याह-'मुक्त्वा क्षेत्र-कालौ भावं च' इति क्षेत्रं-कर्कशक्षेत्रमध्वानं वा कालं-दुर्भिक्षादिकं 'भावं' ग्लानत्वादिकं प्रतीत्य ते श्राद्धाः किञ्चिदपवादमपि ग्राह्यन्ते ॥ १६०७ ॥ अपि च इदमपि ते श्राद्धा ज्ञापनीयाः
__ संथरणम्मि असुद्धं, दोण्ह वि गिण्हंत-दितयाणहियं ।।
आउरदिटुंतेणं, तं चैव हियं असंथरणे ॥ १६०८॥ संस्तरणं नाम-प्राशुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते तत्र 'अशुद्धम् अप्राशुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरपि 'अहितम्' अपथ्यम् , गृहृतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे खल्पायुर्निबन्धनकर्मोपार्जनात् । 'तदेव' अशुद्धम् 'असंस्तरणे' अनिर्वाहे दीयमानं गृह्यमाणं च 'हितं' पथ्यं भवति । आह कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति ? इति उच्यते-आतुरः-रोगी तस्य दृष्टान्तेनेदं मन्तव्यम् ।
१°वः । इदं च यूयं सकलमपि जानीथ भा० ॥ २ “ते दुविहा-संविग्गभाविया वा लिंगस्थभाविया वा । लुद्धगदिलुतो लिंगत्येहिं” इति चूर्णी विशेषचूर्णौ च ॥ ३°प्यकल्पनीयम भा० ॥ ४ साधोः कल्पनीयमकल्पनीयं वा भा० ॥