________________
४७०
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ? कथयन्ति । तथा गुणाः-साधूनां प्राशुकैषणीयभक्त-पानप्रदानप्रभवाः पापकर्मनिर्जरादयस्ताँच गीतार्थाः कथयन्ति । यथा
समणोवासगम्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असण-पाणखाइम-साइमेणं पडिलाभेमाणम्स किं कज्जइ ? गोयमा ! एगंतसो निजरा कज्जइ, नत्थि य से 5 केइ पावकम्मे कजइ त्ति । ( भगवती श० ८ उ० ६ पत्र ३७३-१) ॥१६०३ ॥ अथेत्थं न कथयेयुः ततः के दोषाः ? इत्याह--
बालाई परिचत्ता, अकहिंतेऽणेसणाइगहणं वा ।
न य कहपबंधदोसा, अह य गुणा साहिया होति ॥ १६०४ ॥ तेषु श्राद्धकुलेषु जिनकल्पिका भिक्षार्थमायाताः, तेषां परमान्नादिकं लेपकृतमुपनीतम् , तैश्च 10 भगवद्भिः प्रतिपिद्धम् , ततस्तानि श्राद्धकानि चिन्तयेयुः--एत एव प्रधानाः साधवः, इतरे तु निग्ध-मधुरद्रव्यग्राहिणः सर्वेऽपि नामधारकमात्राः साध्वाभासा एवेति । ततः श्रद्धाभङ्गभाञ्जि तानि भूयः प्रायोग्यद्रव्यं नोपढौंकयेयुः । एवमभिग्रहविशेषान् अकथयद्भिर्गीतार्थैर्बालादयः परित्यक्ता भवन्ति । अथैषणादोषान् शुद्धभक्त-पानदानम्य च गुणान् न कथयेयुः ततस्तानि श्राद्ध
कान्यनेषणां कुर्युः । तत्र यदि प्रतिषिध्यते तदाऽपि बालादयः परित्यक्ताः, तेषां प्रायोग्याभावे 15 संस्तरणाभावात् । अथ न प्रतिषिध्यते ततोऽनेषणादिग्रहणं भवेत् , आदिशब्द एषणादोषाणामेव स्वगतानेकभेदसूचकः । आह गोचरप्रविष्टानां साधूनां कथाप्रबन्धः कर्तुं न कल्पते, अमी च साधव इत्थमेषणादोषादीनां कथां प्रबध्नन्तः कथं न दोषभाजो भवन्ति ? इत्युच्यते—'न च' नैवात्र कथाप्रवन्धदोषा भवन्ति, यदि हि भक्त-पानलोलुपतया कथां प्रबन्धीयुस्ततो भवेयुर्दोषाः, तच नास्ति, एषणाशुद्धिहेतोरेव तेषामित्थं कथनात् । अथ च प्रत्युतेत्थं कथयद्भिस्तैर्गीतार्थः 20 'गुणाः' बाल-वृद्धाधुपष्टम्भ-गुरुभक्तिप्रभृतयः साधिता भवन्ति ॥ १६०४ ॥
(ग्रन्थानम्-७६२० । मलयगिरिकृतग्रन्थानम्-४६०० । उभयग्रन्थाग्रम्-१२२२० ।) कथं पुनस्ते कथयन्ति ? इत्याह
ठाणं गमणाऽऽगमणं, वावारं पिंडसोहिमुल्लोगं ।
जाणताण वि तुझं, बहुवक्खेवाण कहयामो ॥ १६०५ ॥ 25 'स्थान' नाम आत्म-प्रवचन-संयमोपघातवर्जितो भूभागः । यत्र स्थितस्य गवा-ऽश्व-महिषादेराह
ननादि न भवति से आत्मोपघातर्वर्जितः । यत्र तु निर्द्धमनाद्यशुचिस्थानव्यतिरिक्ते प्रदेशे स्थितस्य लोकः प्रवचनस्यावर्णं न बृयात् से प्रवचनोपघातर्जितः । यत्र पुनः पृथिव्यादिकायानां विराधना न भवति स संयमोपघातवर्जितः । ईदृशे स्थाने साधुना दायकेन वा स्थित्वा भिक्षा ग्राह्या देया वेति ज्ञापयन्ति । 'गमनं' नाम दायकेन भिक्षादानार्थ गृहमध्ये प्रविशता षटकायानामुपमर्दनम30 कुर्वता गन्तव्यम् । एवम् 'आगमनमपि' भिक्षां गृहीत्वा साधुसम्मुखमागच्छता दायकेनोपयुक्ते
नागन्तव्यम् । व्यापारः-कर्तन-कण्डन-पेषणादिकः, तं च सम्यग् ज्ञापयन्ति-ईदृशे व्यापारे भिक्षा ग्रहीतुं कल्पते, ईदृशे तु नेति । "पिंडसोहिमुल्लोग" ति पिण्डशुद्धेः 'उल्लोक' लेशोद्देशं
१-३-६ तत् भा० ॥ २-४-७ वर्जितम् भा० ॥ ५°व्यादीनां का भा० ॥