________________
प्रसिता
४६८
सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
अथ 'यदेतत् कर्मास्माकं मध्ये समापतितं तद् निर्वाहितं भवतु' इति कृत्वा अप्राप्ते काले भिक्षामटति तदा ‘अलाभ:' न किमपि प्राप्यते इति भावः । ततश्चाचार्यादीनां 'हानि' असं - स्तरणं भवति । यस्तु 'अतिभद्रकः' अतीवधर्मश्रद्धावान् गृहपतिः सः 'अवष्वष्कणं' विवक्षितकालादर्वाग् भक्तनिष्पादनं कुर्यात् । यद्वा असावलसत्वाद् निद्रालुत्वाद्वा चिरमहिण्डमानः सन् 5 न किमपि लभते, 'यत्किञ्चिद्वा' पर्युषितं वल चणकादिकं वा आनयति, तेन भुक्तेनाऽपश्यतया गुर्वादीनां ग्लानत्वं भवति, ततः परिताप - महादुःखादिका ग्लानारोपणा ॥ १५९५ ॥ अथ "घसिर" त्ति पदं भावयति —
गिहामि अपणो ता, पजत्तं तो गुरूण घिच्छामि ।
घेत्तुं च तेसि घिच्छं, सीयल - ओस क - ओमाई ।। १५९६ ॥ 10 यो महोदरः स वैयावृत्त्ये नियुक्तो भिक्षामटन् चिन्तयति – गृह्णामि तावदात्मनो योग्यं पर्याप्तं ततो गुरूणां हेतोर्ग्रहीष्यामि । यद्वा तेषां गुरूणां योग्यं गृहीत्वा तत आत्मनोऽर्थाय ग्रहीष्ये । इत्थं विचिन्त्य यदि प्रथमं गुरूणां योग्यं गृहीत्वा पश्चादात्मार्थं गृह्णाति ततो यावता कालेनात्मनः पर्याप्तं पूर्यते तावता तत् पूर्वं गृहीतं शीतलं स्यात्, तच्च गुरूणामकारकम्, ततः सैव ग्लानारोपणा । अथवा स्थापनाकुलेषु प्रथमतः प्रवेशे तत्राद्यापि वेलाया अप्राप्तत्वादवष्वष्क15 णादयो दोषाः । अथ प्रथममात्महेतोर्गृह्णाति ततो यावता तत् पर्याप्तं भवति तावता स्थापनाकुलेषु वेलातिक्रमो भवेत् । अथ वेलातिक्रमभयाद् देशकाल एव तेषु प्रविशति तत आत्मनोऽवमं भवेत्, उदरपूरणं न भवेदिति भावः । ततश्चावमाहारतया तस्यैवानागाढा -ऽऽगाढपरितापा - दयो दोषाः || १५९६ ॥ अथ क्षपक-क्रोधवतोर्दोषानाह -
मानी मायी च
क्षपकः क्रोधी च 20
परिताविजइ खमओ, अह गिण्हइ अप्पणी इयरहाणी | अविदिने कोहिल्लो, रूसइ किं वा तुमं देसि ॥। १५९७ ॥
यदि क्षपको गुरूणां हेतोः प्रायोग्यं गृह्णाति नात्मनस्ततः स एव परिताप्यते, अथात्मनो गृह्णाति तत इतरेषां - आचार्याणां हानिः - परितापना । यस्तु क्रोधवान् सः 'अवितीर्णे' अदत्ते सति रुष्यति । रुष्टश्चागारिणं भणति – यदि भवान् न ददाति तर्हि मा दात् किं भवयं गृहं दृष्ट्वाऽस्माभिः प्रव्रज्या प्रतिपन्ना ? इति किं वा त्वं ददासि येन 'एवमहं ददामि' इति 25 गर्वितो भवसि ? इत्यादिभिर्दुर्वचनैः श्राद्धं विपरिणमयति ॥ १५९७ ॥ मानि - मायिनोर्दोषानाहऊणाणुट्टमदिने, थद्धो न य गच्छए पुणो जं च ।
माई भद्दगभोई, पंतेण व अप्पणी छाए ।। १५९८ ।।
यः स्तब्धः सः 'ऊने' तुच्छे दत्ते "अणुट्ट" त्ति अभ्युत्थाने वा अकृते " अदिन्न” त्ति सर्वथैव वा अदत्ते सति ‘पुनः ' भूयस्तदीयं गृहं न गच्छति, भणति च – श्रावकाणामितरेषां च 30 को विशेषः ? यदि द्वितयेऽपि साधूनामभ्युत्थानादिविनयप्रक्रियामन्तरेण भिक्षां प्रयच्छन्ति ततो नाहममुष्य गृहं भूयः प्रविशामीति । ततः “जं च " त्ति तद्गृहे प्रवेशं विना प्रायोग्यस्या - लाभे यत् किञ्चिदाचार्यादीनां परितापनादिकं भवति तन्निष्पन्नं प्रायश्चित्तम् । यस्तु मायी सः
१ इत्यर्थः । त° भा० ॥