________________
भाप्यगाथाः १५९१-९५]
प्रथम उद्देशः ।
स च कीदृग्दोषेविरहितः ? इत्यत आह
अलसं घसिरं मुविरं, खमगं कोह-माण-माय-लोहिल्लं । [ओघ.भा. १३३] स्थापनाकोऊहल पडिबद्धं, वेयावच्चं न कारिजा ॥ १५९२ ॥
कुलेषु
प्रवेशा'अलस' निरुद्यमम् , 'ग्रसितारं' बहुभक्षिणम् , 'स्वप्तारं' स्वपनशीलम् , "शीलाद्यर्थस्येरः" नर्हास्तेषां (सिद्ध०८-२-१४५) इति प्राकृतलक्षणबलादुभयत्रापि तृन्प्रत्ययस्यरादेशः, क्षपकं प्रती-5 तत्र गमने
प्रेषणे वा तम् , “कोह-माण-माय-लोहिलं" ति क्रोधवन्तं मानवन्तं मायावन्तं लोभवन्तम् , सर्वत्रापि प्रायश्चित्तं भूम्नि मतुप्रत्ययः, यथा गोमानिति, "कोऊहल" ति मत्वर्थीयप्रत्ययलोपात् कुतूहलिनम् , 'प्रतिबद्धं' दोषाश्च सूत्रार्थग्रहणसक्तम् । एतान् वैयावृत्यमाचार्यों न कारयेदिति समासार्थः ॥ १५९२ ॥ अथैनामेव गाथां विवरीषुः प्रथमतः प्रायश्चित्तमाह
तिसु लहुओ तिसु लहुया, गुरुओ गुरुया य लहुग लहुगो य। 10
पेसग-करिंतगाणं, आणाइ विराहणा चेव ॥ १५९३ ॥ अलसादीन् य आचार्यः स्ववैयावृत्त्यार्थ प्रेषयति-व्यापारयतीत्यर्थः, यश्चैभिर्दोषैर्दुष्टः स्वयं वैयावृत्त्यं करोति, तयोः प्रेषक-कुर्वतोः प्रायश्चित्तम् । तद्यथा-'त्रिषु' अलस-बहाशि-निद्रालुषु लघुको मासः । 'त्रिपु' क्षपक-कोपना-अभिमानिषु चत्वारो लघवः । मायावति गुरुको मासः । लोभवति चत्वारो गुरुकाः । कौतूहलवति चत्वारो लघुकाः । सूत्रार्थप्रतिबद्धे लघुमासः । आज्ञा-15 दयश्च दोषा विराधना चात्म-संयमविषया ॥१५९३॥ तत्रालस-स्वपनशीलयोनियोजने दोषानाह
ता अच्छइ जा फिडिओ, सइकालो अलस-सोविरे दोसा ।
गुरुमाई तेण विणा, विराहणुस्सक-ठवणादी ॥१५९४ ॥ अलसः स्वपनशीलश्च तावदुपविष्टः शयानो वा आस्ते यावत् सन्-विद्यमानः कालः सत्कालो भिक्षायाः 'स्फिटितः' अतिक्रान्तो भवति । यद्वा तावलस-निद्रालू चिन्तयेताम्-20 'समापतितं तावदिदमस्माकमवश्यकरणीयं कर्म, अत एतदपि निर्वाहितं भवतु' इति कृत्वा अप्राप्ते एव भिक्षाकाले पर्यटेताम् , ततो यद्वा तद्वा भक्त-पानं लभेते, न प्रायोग्यम् , 'तेन' प्रायोग्येण विना या 'गुर्वादीनाम्' आचार्य-बाल-वृद्ध-ग्लानादीनां विराधना तन्निप्पन्नं प्रायश्चित्तम् । यद्वाऽतिक्रान्तायां वेलायामायान्तं वैयावृत्त्यकरं मत्वा प्रायोग्यस्योत्प्वप्कणं श्राद्धकानि कुर्युः, उत्सूरे तद् विदध्युरिति भावः । यद्वा तानि तदुपस्कृतं प्रायोग्यभक्तं स्थापयेयुः ततः स्थापना- 25 दोषः । आदिशब्दात् 'साधूनामसंविभक्तं भक्तं कथं स्वमुखे प्रक्षिप्यते ?' इति बुद्ध्या तेषामभुजानानामन्तरायमित्यादयो दोषाः ॥ १५९४ ॥
अप्पत्ते व अलंभो, हाणी ओसकणा य अइभद्दे ।
अणहिंडंतो य चिरं, न लहइ जं किंचि वाऽऽणेइ ॥ १५९५ ॥ १°तो नियोक्तव्यः ?-अलसं भा० । “केरिसो पुण तेसु सडकुलेसु निजुज्जह ? तत्र सर्वथैव ताव एवंविधो नियोक्तव्यः" इति चर्णा विशेषचौँ च ॥ २०पि अतिशायने मतप्रत्ययः, यथा रूपवती कन्येति, भा० ॥ ३ अथवा ता भा० ॥ ४ तदा च पर्यटन्नसौ यद्वा तद्वा भक्तपानं लभते त० डे० कां० ॥ ५ °म् । अतिक्रान्तायां तु वेला भा० ॥ ६ ग्यभक्त-पानसो भा० ॥
अलसः निद्रालुश्च