________________
प्रथम उद्देशः ।
४६५
भाष्यगाथाः १५८४-९० ] रेणापि दिने दिने गृह्यमाणस्य क्षयो भवति । ततश्च यद्यभिनवमवगाहिमादि द्रव्यं साधूनामर्थाय करोति क्रीणाति वा तत उद्गमोऽपि च न शुद्ध्यति, सदोषत्वात् तद् उत्पादितमपि न कल्पत इति भावः । ततः 'क्षीणे' व्यवच्छिन्ने दुर्लभद्रव्ये प्रयोजने उत्पन्नेऽपि नास्ति ग्लानस्य प्रायोग्यम् । ततः परिताप-महादुःखादिका ग्लानारोपणा द्रष्टव्या, भद्रक - प्रान्तकृताश्च दोषा भवन्ति ॥ १५८७ ॥ ताने वाह
5
दक्खण पंतो, इत्थ घाइज कीस ते दिनं । [ ओघ. भा. १२६ ] भो हट्ठपट्टो, करेज अन्नं पि साहूणं ।। १५८८ ॥
इह कस्यापि प्रान्तस्य भार्या श्राद्धिका ततस्तयाऽन्यान्यसाधूनां याचमानानां प्रायोग्यद्रव्यं सर्वमपि प्रदत्तम् । ततस्तस्याः पतिर्भोजनार्थमुपविष्टः सन् ब्रूते - कूरं मे परिवेषय । सा प्राहसाधूनां प्रदत्तः । स प्रतिब्रूयात् -- पूपलिकास्तर्हि परिवेषय । सा प्राह – ता अपि प्रदत्ताः । एवं 10 सूप-दुग्ध-दधिप्रभृतीन्यपि साधूनां वितीर्णानीति । इत्थं द्रव्यक्षयेण स प्रान्तः कुपितः सैन् 'अरे रे कुलपांसने ! किं ते मुण्डास्तवोपपतयो भवन्ति येनैवं मदीयं गृहसर्वस्वं दत्त्वा तान् पोषयसि ?' इत्यभिधाय स्वां स्त्रियं 'घातयेत्' कुट्टयेत्, 'कस्मात् ' किमर्थं त्वया तेभ्यः सर्वमपि दत्तम् ? इति कृत्वा । अत्र पाठान्तरम् - " दक्खएण लुद्धो" त्ति 'लुब्धः ' लोभाभिभूतः, शेषं प्राग्वत् । यस्तु भद्रको गृहपतिः स श्राद्धिकया सर्वस्मिन्नपि दत्ते तथैव च कथिते हृष्टप्रहृष्टो भवति । हृष्टो 15 नाम - मनसि परितोषवान्, प्रहृष्टस्तु - प्रहसितवदनः समुद्भूतरोमहर्षो हर्षाश्रूणि विमुञ्चमान इति । ततश्च कुर्याद् 'अन्यदपि ' अवगाहिमादिकं साधूनामर्थाय कारयेदित्यर्थः । एतद्दोषपरिहरणार्थमेकं गीतार्थसङ्घाटकं मुक्त्वा शेषाः स्थापनाकुलानि न निर्विशेयुः । प्राचूर्णके चायाते सति प्राघुण्यं विधेयम्, तच्च स्वभावानुमतैरेव भक्त - पानैः ॥ १५८८ ॥ तथा चात्र दृष्टान्तमाहजड्डे महिसे चारी, आसे गोणे य जे य जावसिया । [ ओघ नि. २३९ ] एएसिं पडिवक्खे, चत्तारि उ संजया होंति ।। १५८९ ।।
'जड्डु : ' हस्ती, महिषाश्वौ प्रतीतौ, 'गोणः' बलीवर्दः, एतेषां ये 'यावसिकाः' यवसः - तत्प्रायोग्यमुद्ग- माषादिरूप आहारस्तेन तद्वहनेन चरन्तीति यावसिकास्ते अनुकूलां चारीमानयन्ति । एतेषां जड्डादीनां 'प्रतिपक्षे' प्रतिरूपः पक्षः प्रतिपक्षः - सदृशपक्ष इत्यर्थः, तत्र चत्वारः प्राघूर्णकसंयता भवन्ति । तद्यथा — जड्डुसमानो महिषसमानोऽश्वसमानो गोसमानश्चेति ॥ १५८९ ॥ 25
अथामीषामेव व्याख्यानमाह
20 चतुर्धा
जड्डो जं वा तं वा, सुकुमालं महिसओ महुरमासो । [ ओघ. भा. १३१ ] गोणो सुगंधिदव्वं, इच्छइ एमेव साहू वि ।। १५९० ।।
'जड्डुः' हस्ती. सः 'यद्वा तद्वा' कर्कश - कटुकादिकमप्याहारयति । वस्तु महिषः सः 'सुकुमारं ' वंशकरीलादिकमभिलषति । अधः 'मधुरं ' मुद्ग - माषादिकमभिकाङ्क्षति । 'गौः' बलीवर्दः सः 'सुग- 33 न्धिद्रव्यम्' अर्जुनक-ग्रन्थिपर्णादिकमिच्छति । एवमेव साधवश्चत्वारः चतुर्विधं भक्तमिच्छन्ति
१ च तस्य द्रव्यस्य न भा० ॥ २ नां रिक्त रिक्तप्रयोजनेषु याच भा० ॥ ३ सन् स्वां स्त्रियं त० डे० कां ॥ ४ 'हर्ष इति । तत त०डे० कां० ॥
प्राघूर्णक
साधवः