________________
४६४
रणम्
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ किं कारणं चमढणा, दव्वखओ उग्गमो वि य न सुज्झे । [आघ.नि.२३८]
गच्छम्मि नियय कजं, आयरिय-गिलाण-पाहुणए ॥ १५८४ ॥ 'किं कारणं' को हेतुः येन स्थापनाकुलेप्वेक एव सङ्घाटकः प्रविशति ? । सूरिराह-"चमढण" ति अन्यैरन्यैश्च सङ्घाटकैः प्रविशद्भिस्तानि कुलान्युद्वेगं प्राप्यन्ते । ततश्च द्रव्याणां-स्निग्ध5 मधुराणां क्षयो भवति, उद्गमोऽपि च न शुध्यति । गच्छे च 'नियतं' निश्चितं प्रायोग्यद्रव्यैः कार्यं भवति । किमर्थम् ? इत्याह-आचार्य-ग्लान-प्राघूर्णकानां हेतोरिति नियुक्तिगाथासमासार्थः ॥ १५८४ ॥ अथ भाष्यकार एनामेव विवृणोति
पुबि पि वीरसुणिया, भणिया भणिया पहावए तुरियं ।
- सा चमढणाएँ सिग्गा, निच्छइ दटुं पि गंतुं जे ॥१५८५॥ [ओघ. भा. १२४] वीरशुनि- 10 जहा काइ वीरसुणिया केणइ पारद्धिएण तित्तिराईणं गहणे छिछिक्कारिया समाणी तित्तिराकोदाह- ईणि गिण्हइ । पच्छा सो तेहिं सावएण विणा वि काडं हंतूण छिछिक्कारेइ । सा वीरसुणिया
इतो तओ पहावइ जाव न किंचि पेच्छइ । ताहे सा वेयारिया समाणी जइ सो सावयं दटुं पच्छा छिछिक्कारेइ तहा वि पयं पि न इच्छए गंतुं ॥
अथ गाथाक्षरयोजना-यः शुनकद्वितीयः शस्त्राद्यपेक्षारहितो मृगयां करोति स वीर 15 उच्यते, तस्य शुनिका यथा पूर्वमदृष्टेऽपि श्वापदे 'भणिता भणिता' छीत्कृता छीत्कृता सती
त्वरितमितस्ततः प्रधावति । ततः सा 'चमढणया' निरर्थकमुद्वेजनया "सिग्गा" श्रान्ता सती सन्तमपि श्वापदं दृष्ट्वा पदमपि गन्तुं “जे” इति पादपूरणे नेच्छति ॥ १५८५ ॥ एष दृष्टान्तः । अर्थोपनयस्त्वेवम्
एवं सड्ढकुलाई, चमढिजंताइँ अन्नमन्नेहिं । [आघ. भा. १२५]
नेच्छंति किंचि दाउं, संतं पि तहिं गिलाणस्स ॥ १५८६ ॥ 'एवम्' अमुनैव प्रकारेण श्राद्धकुलानि "चमढिजंताई" ति उद्वेज्यमानानि 'अन्यान्यैः' क्षुल्लक-स्थविर-क्षपकादिभिः । यद्वा "अन्नमन्नेहिं" ति अन्यान्यैः-परिफल्गुप्रायैः कारणैः । यथा एकः प्राह-ग्लानस्य शीर्ष दुष्यति शर्करां प्रयच्छ; अपरः प्राह-ममोदरं दुष्यति दनः करम्बेण प्रयोजनम् । तदपरः प्राह–प्राघूर्णक आयातोऽस्ति घृतादिकं देहि; अन्यः 25 प्राह-अहमाचार्यस्य हेतोरायातोऽस्मि दुग्धं सशर्करं प्रतिलाभयेत्यादि । ततस्तानि ब्रुवीरन्-यूयं सर्व एव ग्लाना अतो वयं कियतां प्रयच्छामः ? को वा जानाति यूयमाचार्यादीनां हेतोहीथ ? आहोश्चिदात्मार्थम् ? इति । एवमुद्वेज्यमानानि नेच्छन्ति 'सदापि' विद्यमानमपि घृतादिकं 'किञ्चित्' स्तोकमात्रमपि ग्लानस्य उपलक्षणत्वादाचार्य-प्राघूर्णकादेरप्यर्थाय दातुम् । ततश्च यत्
ते ग्लानादयः परिताप्यन्ते तन्निप्पन्नं प्रायश्चित्तम् ।। १५८६ ॥ 30 गतं चमढणाद्वारम् । अथ द्रव्यक्षयोद्गमाशुद्धिद्वारद्वयमाह
अन्नो चमढण दोसो, दव्वखओ उग्गमो वि य न सुज्झे ।
खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं ॥ १५८७ ।। 'अन्यः' अपरश्चमढनायां दोषः, कः ? इत्याह-द्रव्यस्य-अवगाहिम-घृतादेः कारणमन्त