________________
भाप्यगाथाः १५७६-८३ ] प्रथम उद्देशः ।
४६३ आह कानि पुनः कुलानि चैत्यवन्दनं विदधानास्ते दर्शयन्ति ? उच्यते
दाणे अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । (निशीय १६३०-६४]
मामाए अचियत्ते, कुलाइँ दाईति गीयत्था ॥ १५७९ ॥ [ओघ. भा. १२१] यथाभद्रको दानरुचिः दानश्राद्धः । सम्यग्दृष्टिहीताणुव्रतोऽभिगमश्राद्धः । “सम्मत्ते" त्ति अविरतसम्यग्दृष्टिः । “मिच्छत्ते' त्ति आभिग्रहिकमिथ्यादृष्टिः। 'मामाको नाम' ईर्ष्यालुतया हे। श्रमण ! मा मदीयं गृहमायासीः' इति ब्रवीति । यस्त्वीर्ष्यालुतयैव साधुषु गृहं प्रविशत्सु महदप्रीतिकं खचेतसि करोति वाचा न किमपि ब्रूते एष देशीभाषया अचियत्तः । एतेषां कुलानि दर्शयन्ति 'गीतार्थाः' क्षेत्रप्रत्युपेक्षकाः ॥ १५७९ ॥ दर्शयित्वा च किं कुर्वन्ति ? इत्याह
दाणे अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते ।
मामाए अचियत्ते, कुलाइँ ठाविति गीयत्था ॥ १५८०॥ 10 एतानि कुलानि स्थापयन्ति गीतार्थाः, 'अमीषु प्रवेष्टव्यम् , अमीषु तु न' इति व्यवस्थापयन्तीत्यर्थः ॥ १५८० ॥ अथ न स्थापयन्ति तदा किम् ? इत्याह
दाणे अभिगम सड्डे, सम्मत्ते खलु तहेव मिच्छत्ते ।
मामाए अचियत्ते, कुलाइँ अठविंति चउगुरुगा ॥१५८१॥ एतानि कुलान्यस्थापयतश्चत्वारो गुरुकाः प्रायश्चित्तम् ॥ १५८१ ॥ यत एवमतः- 15 ____ कयउस्सग्गाऽऽमंतण, अपुच्छणे अकहिएगयर दोसा । [आघ. भा. १२२]
ठवणकुलाण य ठवणं, पविसइ गीयत्थसंघाडो॥१५८२ ॥ . 'उत्सर्गे' चैत्यवन्दनं विधायागतानामैर्यापथिकीकायोत्सर्गे कृते यद्वा “उस्सग्ग" ति आवश्यके कृते सर्वेऽपि साधवो गीतार्थैरामन्त्रणीयाः-आर्याः ! आगच्छत, क्षमाश्रमणाः स्थापनां प्रवर्तयिष्यन्ति । इत्थमुक्ते सर्वेऽप्यागम्य गुरुपदकमलमभिवन्द्य रचिताञ्जलयस्तिष्ठन्ति । तत 20 आचार्यैः क्षेत्रप्रत्युपेक्षकाः प्रष्टव्याः-कथयत कानि कुलानि प्रवेष्टव्यानि ? कानि वा न ? इति। ततस्तैरपि क्षेत्रप्रत्युपेक्षकैर्विधिवत् कथनीयम् । यद्याचार्याः क्षेत्रप्रत्युपेक्षकान् न पृच्छन्ति, ते वा पृष्टाः सन्तो न कथयन्ति, ततस्तेषु प्रविशतां ये संयमा-ऽऽत्मविराधनादयो दोषास्तान् 'एकतरे' सूरयः क्षेत्रप्रत्युपेक्षका वा प्रामुवन्ति । ततः कथिते सति यान्यभिगृहीतमिथ्यात्व-मामाका-ऽचियत्तानि तानि सर्वथैव स्थाप्यानि, यथा—नैतेषु केनापि प्रवेष्टव्यम् । यानि तु दानश्राद्धादीनि 25 स्थापनाकुलानि तेषामपि स्थापनं कर्त्तव्यम् । कथम् ? इत्याह-प्रविशति एक एव गीतार्थसवाटको गुर्वादिवैयावृत्त्यकरस्तेषु ॥ १५८२ ॥ इदमेव भावयति
गच्छम्मि एस कप्पो, वासावासे तहेव उडुबद्धे । [ओघ.भा. १२३)
गाम-नगर-निगमेसुं, अइसेसी ठावए सडी ॥ १५८३ ॥ वर्षावासे तथैव ऋतुबद्धे ग्राम-नकर-निगमेषु स्थितानां गच्छे एष कल्पः । कः ? इत्याह-30 अतिशेषाणि-अतिशायीनि स्निग्ध-मधुरद्रव्याणि प्राप्यन्ते येषु तानि कुलान्यतिशेषीणि “सड्डि" त्ति दानश्रद्धावन्ति एवंविधानि कुलानि स्थापयेत् । एकं गीतार्थसङ्घाटकं मुक्त्वा शेषसङ्घाटकान् न तत्र प्रवेशं कारयेत् ॥ १५८३ ॥ आह