________________
स्थापना
४६२
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
hari संस्तारकभूमिं यथारलाधिकतया अर्पयन्ति न यथाकथञ्चिदिति । तैश्च तदानीमात्मीयात्मीयविण्टिकानामुत्क्षेपणं कर्त्तव्यम्, येन तासूत्क्षिप्तासु भूमिभागः प्रतिनियतपरिमाणच्छेदेनावगम्यते । तदा च धर्मकथी संस्तारकग्रहणार्थं धर्मकथामुपसंहृत्य प्रतिश्रयाभ्यन्तरे प्रविशति । तथा क्षेत्रप्रत्युपेक्षकाः शय्यातरानुज्ञातां भुवं ग्लानाद्यर्थं दर्शयन्ति । यथा - इयति प्रदेशे उच्चारपरिष्ठापन - 5 मनुज्ञातम् नेत ऊर्द्धम्, एवं "पासवणे" त्ति प्रश्रवणभूमिं “लाउए" ति अलाबूनि - तुम्बकानि तेषां कल्पकरणप्रायोग्यं प्रदेशं 'निर्लेपनं' पुतप्रक्षालनं तस्य स्थानं "अच्छणए" त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, एतानि तथैव दर्शयन्ति । ततो य एव शय्यातरेणानुज्ञातोऽवकाशस्तत्रैवोच्चारादीनां करणं भगवद्भिरादिष्टम् । अननुज्ञाते त्ववकाशे कुर्वतो मासलघु, तद्द्रव्या-ऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः । १५७४ ।। १५७५ ।। उक्का मर्यादा । अथ स्थापनामभिधित्सुः प्रस्तावनामाह-भत्तट्ठिया व खमगा, अमंगलं चोयणा जिणाहरणं ।
10
जइ खमगा वंदंता, दाइंतियरे विहिं वोच्छं ।। १५७६ ।। [ ओघ. भा. ११७ ] ते हि साधवः क्षेत्रं प्रविशन्तो भक्तार्थिनो वा भवेयुः क्षपका वा । यदि क्षपकाः ततो नोदकस्य 'नोदना ' प्रेरणा, यथा- - प्रथममेव तावदमङ्गलमिदं यदुपवासं प्रत्याख्याय प्रविश्यते । सूरिराह--- ' जिनाहरणं' जिनानामुदाहरणमत्र मन्तव्यम् । ते हि भगवन्तो निष्क्रमणसमये प्रायश्च16 तुर्थादि तपः कृत्वा निष्क्रामन्ति, न च तत् तेषाममङ्गलम्, एवमत्रापि भावनीयम् । ततश्च यदि ते क्षपकास्तदा चैत्यानि वन्दमाना एव दर्शयन्ति स्थापनाकुलानि क्षेत्रप्रत्युपेक्षकाः । अथ भक्ताथिनस्ते ततः " इयरे" त्ति इतरेषु भक्तार्थिषु यो विधिस्तं वक्ष्ये || १५७६ ॥ तमेवाहसब्वे दट्टु उग्गाहिएण ओयरिय भय समुप्पजे ।
तुम्हेक दोहि तिहिं वा, उग्गाहिय चेइए वंदे ॥१५७७ ॥ [ ओघ. भा. ११८ ] चैत्यवन्दनार्थं गन्तुकामा यदि सर्वेऽपि पात्रकमुद्राहयेयुः ततः सर्वान् साधून् उाहितेन पात्रकेण दृष्ट्वा 'अहो ! औदरिका एते' इति श्रावकश्चिन्तयति । भयं च तस्य समुत्पद्यते, यथाकथमेतावतां मयैकेन दास्यते ? इति । तस्मादेकेन द्वाभ्यां त्रिभिर्वा साधुभिरुग्रहितपात्रकैः शेषैः पुनरनुद्राहितपात्रैः सहिताः सूरयश्चैत्यानि वन्दन्ति ॥ १५७७ ॥
अथ यद्येकोsपि साधुः पात्रकं नोद्राहयति ततः को दोषः ? इत्याहसागोऽग्गाहियम्मि ठवणाइया भवे दोमा ।
घरचेइय आयरिए, कयवयगमणं च गहणं च ॥१५७८॥ [ओघ. भा. ११९] अथानुग्राहिते पात्रके प्रयान्ति ततश्चैत्यानि वन्दमानान् दृष्ट्वा कोऽपि धर्मश्रद्धावान् भक्तपानेन निमन्त्रयेत् तदा यदि भाजनं नास्तीति कृत्वा न गृह्यते ततः श्रद्धाभङ्गस्तस्योपजायते । अथ व 'पात्रकं गृहीत्वा यावद् वयमागच्छामस्तावदेवमेव तिष्ठतु' ततः स्थापनादयो दोषा भवेयुः । 30 तस्मादुाहणीयं पात्रकम् । जिनगृहेषु च वृन्देन सर्वेऽपि चैत्यानि वन्दित्वा गृहचैत्यवन्दनार्थमाचार्येण कतिपयैः साधुभिरुग्राहितपात्रकैः समं गमनं कर्त्तव्यम् । तत्र यदि श्रावकः प्राशुकेन भक्त-पानेन निमन्त्रयेत् ततो ग्रहणमपि तस्य कर्त्तव्यम् ॥ १५७८ ॥
१ प्रायेणोपवासं कृत्वैव नि० भा० ॥ २ दन्ते भा० ॥ ३ सर्वैरपि कां० ॥
20
25