SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १५४०-४७ ] प्रथम उद्देशः । ४५५ “”तेणे नट्टे” त्ति ते पाश्चात्यसाधवोऽग्रेतनानां 'नष्टाः' स्फिटिताः सन्तः स्तेनकैरुपद्र्येरन् अतः प्रतीक्षणीयम् । “खग्गूड” त्ति कश्चित् खग्गूडः - निद्रालुः उपलक्षणत्वात् कश्चिद्वा धर्मश्रद्धालुरिदं ब्रूते - 'न कल्पते साधूनां रात्रौ विहर्तुम्' इति तस्य "संगारो" ति सङ्केतः क्रियते — त्वयाऽमुकत्रागन्तव्यमिति ॥ १५४३ ।। अथास्या एव गाथायाः कानिचित् पदानि विवृणोति - पडिलेहंत च्चिय वेंटियाउ काउं कुणति सज्झायं । चरमा उग्गाउं, सोचा मज्झहि वच्चति ।। १५४४ ॥ ते साधवः प्रभाते प्रत्युपेक्षमाणा एव वस्त्राणि विष्टिकाः कुर्वन्ति । ततो विण्टिकाः कृत्वा स्वाध्यायं कुर्वन्ति तावद् यावत् 'चरमा' पादोनपौरुषी । ततः पात्रकाणि प्रत्युपेक्षणापूर्वं 'उहा ' ग्रन्थिदानादिना सज्जीकृत्य ततोऽर्थं श्रुत्वा 'मध्याह्ने' प्रहरद्वयसमये व्रजन्ति ॥ ९५४४ ॥ कथम् ? इत्याह 6 10 १ "वेण" त्ति स्तेनका विबुद्धाः सन्तो मोषणार्थमायाताः पश्चाद् व्रजन्ति । "नट्टे" ति कदाचित् कोऽपि साधुः मार्गात् परिभ्रश्येत् । अतः प्रथममेव प्रदोषवेलायां सङ्केतः क्रियते - अमुत्रार्द्धमार्गे वृक्षादेरधस्ताद् विश्रामं ग्रहीष्यामः, अमुकत्र वसतिं स्वीकरिष्याम इति । "खग्गूड" त्ति कश्चित् कदाग्रही खग्गूड इदं ब्रूते - न क भा० ॥ २ सोउं तो जंति मज्झण्हे ता० ॥ तिहि करणम्मि पसत्थे, णक्खत्ते अहिवईण अणुकूले । घेतूण णिति वसभा, अक्खे सउणे परिक्खंता ॥। १५४५ ।। तिथिश्च - नन्दा - भद्रादिका करणं च - बव-बालवादिकं तिथि-करणं तस्मिन् उपलक्षणत्वाद् वार-योग- मुहूर्त्तादिषु प्रशस्तेषु नक्षत्रे च 'अधिपतीनाम्' आचार्याणामनुकूले वहमाने सति, किम् ? इत्याह- 'अक्षानू' गुरूणामुत्कृष्टोपधिरूपान् गृहीत्वा 'वृषभाः ' गीतार्थसाधवः शकुनान् परीक्ष- 15 माणाः “ णिति" निर्गच्छन्ति || १५४५ || आह किमर्थं प्रथममाचार्या न निर्गच्छन्ति ? उच्यतेवासस्स य आगमणं, अवसउणे पट्टिया नियत्ता य । च गमनसमये प्रशस्तदिन - शकुनाद्यव लोकनं तत्कारणानि भावणा एवं, आयरिया मग्गओ तम्हा ॥। १५४६ ॥ वर्षणं वर्षः - वृष्टिस्तस्यागमनं दृष्ट्वा अपशकुने वा दृष्टे वृषभाः प्रस्थिताः सन्तो निवृत्ता अपि न लोकापवादमासादयन्ति, सामान्यसाधुत्वात् । यदि पुनराचार्या वृष्टिमपशकुनान् वा विज्ञाय 20 निवर्त्तन्ते तत एवमपभ्राजना भवति, यथा - यदेव ज्योतिषिकाणां विज्ञानं तदप्यमी आचार्या न बुध्यन्ते अपरं किमवभोत्स्यन्ते । तस्मादाचार्याः 'मार्गतः' पृष्ठतो निर्गच्छन्ति न पुनरग्रतः । अथ पुरतो गच्छन्ति ततो मासलघु । एतेन “के वच्चंते पुरओ उ भिक्खुणो उदाहु आयरिय" ( गा० १५३१ ) त्ति पदं भावितम् ॥। १५४६ || आह 'अपशकुने दृष्टे सति निवर्त्तन्ते' इत्युक्तं तत्र के शकुनाः ? के वा अपशकुनाः ? इति अत्रोच्यते मइल कुचेले अब्भंगियल्लए साण खुज वडभे या । एतु अप्पसत्था, हवंति खित्ताउ तिस्स ।। १५४७ ॥ 'मलिनः' शरीरेण वस्त्रैर्वा मलीमसः 'कुचेल: ' जीर्णवस्त्रपरिधानः 'अभ्यङ्गितः' स्नेहाभ्यक्त 25 अपश कुनाः
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy