________________
सनिर्युक्ति-लघुभाप्य वृत्ति के बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
अन्नोर्कता पंथा, विहरणकालो सुविहियाणं ।। १५४० ।। [ ओ. नि. १७२ ] इह पूर्व शरदादिर्विहारो भवतीत्युक्तम्, अतः शरत्कालमेवाङ्गीकृत्याभिधीयते - इक्षवः 'वोलयन्ति' व्यतिक्रामन्ति 'वृतिं' खपरिक्षेपरूपाम्, तुम्ब्यश्च 'जातपुत्रभाण्डा: ' समुत्पन्नतुम्बकाः, तथा वृषभा जातस्थामानः, ग्रामाः प्रम्लानचिक्खल्लाः, अल्पोदकाश्च मार्गाः, वसुधाऽपि च पक्क5 मृत्तिका जाता, अन्यैः– पथिकादिभिरुत्कान्ताः - क्षुण्णाः पन्थानः सम्प्रति वर्त्तन्ते, अतो विहर
गमनसमये 10 शय्यातरस्योपदेश
दानम्
क्षेत्रान्तरे गमनम्
४५४
25
कालः सुविहितानाम् । एतद् गाथाद्वयं शय्यातरस्य शृण्वतो गुरवश्चङ्क्रमणं कुर्वन्तः पठन्ति । ततः शय्यातरो ब्रूयात्-भगवन् ! किमिदानीं यूयं गमनोत्सुकाः ? । गुरवः प्राहुः - बाढम्, गन्तुकामा वयम्, प्रेषिताश्चास्माभिः क्षेत्रान्तरं प्रत्युपेक्षितुं साधवः । इत्थमन्तराऽन्तरा प्रज्ञाप्यमानानां शय्यातरमानुषाणां व्यवच्छिद्यते स्नेहानुबन्धः || १५३९ | १५४० ॥ ततःआवासगकय नियमा, कल्लं गच्छामु तो उ आयरिया । [ ओ. नि. १७४ ] सपरिजणं सागरियं, वाहेउं दिति अणुसट्ठि || १५४१ ॥
आवश्यकं–प्रतिक्रमणं तदेवावश्यमनुष्ठेयत्वाद् नियमः स कृतो यैस्ते कृतावश्यकनियमाः । गाथायां प्राकृतत्वादावश्यकशब्दस्य पूर्वनिपातः । " कल्लं गच्छामु" त्ति " वर्त्तमानासन्ने वर्त्तमाना " इति वचनात् 'कल्ये' प्रभाते गमिष्याम इति मत्वा तत आचार्याः 'सपरिजनं' सकुटुम्बं सागा - 15 रिकं व्याहृत्य ददति 'अनुशिष्टि' धर्मकथां कुर्वन्तीत्यर्थः ॥ ९५४१ ॥ ततःपव्वज सावओ वा, दंसणसड्डो जहन्नओ वसहिं । [ ओ. नि. १७५] जोगम्मि वट्टमाणे, अगं वेलं गमिस्सामो ।। १५४२ ।।
स शय्यातरो धर्मकथां श्रुत्वा कदाचित् प्रव्रज्यां प्रतिपद्यते । अथ प्रवज्यां प्रतिपत्तुमशक्तस्ततः ‘श्रावको भवति' देशविरतिं प्रतिपद्यते । अथ तामप्यङ्गीकर्तुमक्षमस्ततः 'दर्शनश्राद्धः ' 20 अविरतसम्यग्दृष्टिर्भवति । अथ दर्शनमप्युररीकर्तुं नोत्सहते ततो जघन्यतोऽवश्यन्तया वसतिं साधूनां यथा ददाति तथा प्रज्ञाप्यते । भूयोऽपि धर्मकथां समाप्याचार्या ब्रुवते - योऽसौ योगो गम - नायास्मान् प्रेरयति तस्मिन् वर्तमाने सति " अमुगं वेलं " ति सप्तम्यर्थे द्वितीया अमुकस्यां वेलायां गमिष्यामः । इत्थं विकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति || १५४२ ॥ कथम् ? इत्याहतदुभय सुतं पडिलेहणा य उग्गयमणुग्गए वा वि । [ ओ.नि. १७६ ] पडिच्छा हिगरण तेणे, नट्ठे खग्गूड संगारो ॥। १५४३ ॥
'तदुभयं ' सूत्रपौरुषीमर्थपौरुषीं च कृत्वा व्रजन्ति । अथ दूरं क्षेत्रं गन्तव्यं ततः सूत्रपौरुषीं कृत्वा । अथ दूरतरं ततः पादोन प्रहरे पात्रप्रत्युपेक्षणां कृत्वा । अथ दूरतमं तत उद्गतमात्रे सूर्ये । अथातिदवीयान् मार्गो गन्तव्यः गच्छश्च तृषादिभिराक्रान्त उत्सूरे न शक्नोति गन्तुं ततोऽनुग सूर्ये प्रचलन्ति । “पडिच्छ" त्तिं निशि निर्गता उपाश्रयाद् बहिः परम्परं प्रतीक्षन्ते । अन्यथा ये 30 पश्चान्निर्गच्छन्ति ते न जानन्ति 'केनापि मार्गेण गताः साधवः ?' ततो महता शब्देनातनान् साधून् व्याहरेयुः ततश्च 'अधिकरणम्' अप्काययन्त्रवाहन वणिग्ग्रामान्तरगमनादि भवति ।
१ नाम् । इत्थमुक्ते शय्यातरो ब्रूयात् भा० ॥ २ °त्ति ते साधव उपाश्रयाद् बहिर्नि र्गताः परस्परं भा० ॥