SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ४५३ गमनसम पृच्छा भाष्यगाथाः १५३४-३९] प्रथम उद्देशः । ४५३ अविहीपुच्छणे लहुओ, तेसिं मासो उ दोस आणाई । येऽविधिमिच्छत्त पुन्वभणियं, विराहण इमेहिँ ठाणेहिं ॥ १५३५ ॥ अविधिप्रच्छने 'तेषाम्' आचार्याणां लघुको मासः, दोषाश्चाज्ञादयः, तथा मिथ्यात्वं 'पूर्वभणितं' प्रागुक्तमेव मन्तव्यम् । विराधना एभिः स्थानैर्भवति ॥ १५३५ ॥ तान्येवाह सहसा दटुं उग्गाहिएण सिजायरी उ रोविजा ।। सागारियस्स संका, कलहे य सएज्झिखिंसणया ॥ १५३६ ॥ अविधिपृच्छा नाम वस्त्र-पात्राद्युपकरणं विहारार्थमुद्राह्य पृच्छन्ति 'वयमिदानी विहारं कुर्महे' ततः 'सहसा' अकस्माद् उद्राहितेन उपकरणेन प्रस्थितान् दृष्ट्वा शय्यातरी रुदियात् । तद् दृष्ट्वा सागारिकस्य शङ्का भवेत्-मयि प्रवसति कदाचिदप्यस्या अक्षिणी अश्रुपातं न कुरुतः, अमीषु तु प्रस्थितेष्वित्थमश्रूणि मुञ्चतः, ततो भवितव्यं कारणेनेति । मिथ्यात्वं गच्छेत् , तद्रव्या- 10 ऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः । तथा “सइज्झिय' त्ति प्रातिवेश्मिकी रुदन्ती शय्यातरी दृष्ट्वा पश्चात् कलहे समुत्पन्ने खिंसनां कुर्यात्-किमन्यद् भवदीयं दुश्चरितमुद्गीर्यते येन तदानीमाचार्येषु विहारं कर्तुमुद्यतेषु भवत्या रुदितम् , किं वा स आचार्यस्ते पिता भवति येन रोदिषि ? इति ॥ १५३६ ॥ अथानागतमेव पृच्छन्ति 'वयममुकदिवसे गमिप्यामः' तत्राप्यमी दोषाः 15 हरियच्छेअण छप्पइअथिच्चणं किच्चणं च पुत्ताणं । गमणं च अमुगदिवसे, संखडिकरणं विरूवं वा ॥१५३७||[ओ.नि.१६९] तानि शय्यातरमानुषाणि 'अद्य साधवो गमिप्यन्ति' इति कृत्वा क्षेत्रादी न गच्छन्ति । ततो यानि तत्र महान्ति तानि धर्म शृणुयुः । चेटरूपाणि स्नुषाश्च पुरोहडादिषु हरितच्छेदनं यद्वा परस्परं षट्पदिकानां "थेचणं" उपमर्दनं "किच्चणं" ति कर्त्तनं वा विदध्युः, पोतानि-वस्त्राणि 20 तेषां प्रक्षालनं कुर्वीरन् । यद्वा 'अमुकदिवसे गमनं करिष्यामः' इत्युक्ते संयतार्थ सङ्खड्याः करणं भवेत् । तत्र यदि गृह्णन्ति तदाऽऽधाकर्मादयो दोषाः, अगृह्णतां तु प्रद्वेषगमनादयः । “विरूवं" ति 'विरूपम्' अनेकप्रकारं कुड्यधवलनादिकमपरमप्यधिकरणं कुर्युः । यत एते दोषा अतोऽविधिपृच्छा न विधेया ॥ १५३७ ॥ कः पुनः पृच्छायां विधिः ? इत्याहजत्तो पाए खेत्तं, गया उ पडिलेहगा ततो पाए । [ओ.नि.१७०] 25 गमनसमये पृच्छाया सागारियस्स भावं, तणुइंति गुरू इमेहिं तु ॥१५३८॥ 'यतः प्रगे' यतो दिनादारभ्य क्षेत्रप्रत्युपेक्षका गताः 'ततः प्रगे' ततः प्रभृति सागारिकस्य 'भाव' प्रतिबन्धं 'तनूकुर्वन्ति' हानि प्रापयन्ति 'गुरवः' आचार्या एभिर्वचनैः ॥ १५३८ ॥ तान्येवाह उच्छू बोलिंति वई, तुंबीओ जायपुत्तभंडाओ [ओ.नि.१७१] 30 वसहा जायत्थामा, गामा पत्र्यायचिक्खल्ला ॥ १५३९ ॥ अप्पोदगा य मग्गा, वसुहा वि य पक्कमट्टिया जाया । १ ततश्च साया भा० ॥ २°ति, ततश्च तद्र भा० ॥ ३ यदि वा भा० ॥ विधिः
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy