________________
४५२
10
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
अभिजाओ ति अ भन्नइ, सो वि जणो माणिओ होइ ॥
एष लोकधर्मः । तथा "मिच्छगमण" त्ति 'ये लोकधर्ममपि प्रत्यक्षदृष्टं नावबुध्यन्ते ते कथमतीन्द्रियमदृष्टं धर्ममवभोत्स्यन्ते ?' इति सागारिको मिथ्यात्वं गच्छेत् । तथा 'कृतनाशिनः ' कृतघ्ना एते, एकरात्रमपि हि यस्य गेहे स्थीयते तमनापृच्छ्य गच्छतां भवत्यौ चित्यपरिहाणिः, 5 किं पुनरमीषा मियन्ति दिनानि मम गृहे स्थित्वा युक्तं मामनापृच्छय गन्तुम् ? इति । तथा ‘अन्यस्यै' प्रातिवेश्मिकस्य अपिशब्दात् सागारिकस्य वा हृते नष्टे वा कस्मिँश्चिद् वस्तुनि स्तेनकशङ्का भवेत् — यदमी साधवोऽनापृच्छ्य गतास्तद् नूनमेभिरेव स्तेनितं तद् द्रव्यमिति । “जं चऽन्नं” ति यच्च ‘अन्यद्’ वसतिव्यवच्छेदादि भवति तदपि द्रष्टव्यम् || १५३३ ॥ तदेवाह - वसहीए वोच्छेदो, अभिधारिताण वा वि साहूणं । पव्वज्जाभिमुहाणं, तेणेहि व संकणा होजा ।। १५३४ ॥
1
'विप्रलम्भितास्तावदमीभिरेकवारम्, अत ऊर्द्ध ये केचन संयता इति नाम उद्वहन्ते तेभ्यो वसतिं न प्रदास्यामि' इत्येवं वसतेर्व्यवच्छेदो भवेत् । तथा 'अभिघारयन्तो नाम' ये साधवस्तमाचार्थं मनसिकृत्योपसम्पदः प्रतिपत्त्यर्थं समायातास्ते सागारिकं प्रश्नयन्ति - आचार्याः कस्मिन् क्षेत्रे विहृतवन्तः ?; सागारिकः प्राह — यः कथयित्वा व्रजति स ज्ञायते यथा अमुकत्र गत इति, ये 15 तु प्रथमत एव नापृच्छन्ति ते कथं ज्ञायन्ते ; ततस्तेषामभिधारयतां साधूनाम् 'अहो ! लोकव्यवहारबहिर्मुखा अमी आचार्याः, ततः को नामामीषामुपकण्ठे उपसम्पत्स्यते ?' इति विचिन्त्य स्वगच्छे गणान्तरे वा गमनं भवेदिति वाक्याध्याहारः । स चाचार्यस्तेषां श्रुतवाचन प्रदानादिजन्याया निर्जराया अनाभागी भवति । प्रव्रज्याभिमुखानां वा " तेणेहि" त्ति स्तेनविषया शङ्का भवेत् । किमुक्तं भवति ? - केचिदगारिणः संसारप्रपञ्च विरक्तचेतसस्तदन्तिके प्रत्रज्यां प्रतिपि - 2 : त्सवः समायाताः सागारिकं पृच्छन्ति - क गता आचार्याः ; स प्राह - वयं न जानीमः तत्खरूपमिति, ततस्तेषामगारिणां शङ्का समुपजायते, यथा - नूनं किमप्यस्य सागारिकस्य चोरयित्वा गतास्ते, अन्यथा किमर्थमेष परिस्फुटमाचार्याणां गमनवृत्तान्तं न निवेदयति ? इति । ततश्च ते प्रत्रज्यामप्रतिपद्यमाना यत् षण्णां जीवनिकायानां विराधनां कुर्वन्ति यच्च बोटिक - निह्नवादिषु व्रजन्ति अपरान् वा प्रब्रजतो विपरिणामयन्ति तन्निष्पन्नमाचार्याणां प्रायश्चित्तम् । यतएवमतः 25 सागारिकमापृच्छय गन्तव्यम् ॥ १५३४ ॥ सा च पृच्छा द्विविधा – विधिपृच्छा अविधिपृच्छा च । तत्राविधिपृच्छामभिधित्सुः प्रायश्चित्तं तावदाह
१ स्य' सागारिकव्यतिरिक्तस्य अपि भा० ॥ २ केचित् सं° त० डे० ॥ ३ 'त्, ततोऽध्वनिर्गतादयो यदवाप्स्यन्ति तन्निष्पन्नम् । 'अभि' भा० । “जं च अद्धाणणिग्गया साहू पाविहिंति तण्णि फण्णं” इति चूर्णौ विशेषचूर्णौ च ॥ ४ मो० ले० विनाऽन्यत्र - इति कृत्वा स्वगच्छे गणान्तरे वा गमनं भवेत् । स चाचा° त० डे० कां० । इति पुनरावृत्तिर्भवेत्, उपसम्पदमप्रतिपद्यैव भूयः स्वगच्छं गणान्तरं वा गच्छेयुरिति भावः । स चाचा भा० ॥ ५ मो० ले० विनाऽन्यत्र - 'नादिजन्या' त० डे० कां० । 'नादिप्रदानजन्या० भा० ॥ ६ ष स्तेन विषया शङ्का भा० ॥