________________
४४८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
र्याणां तदेव क्षेत्रमभिरुचितं ततस्तत्रैव समागताः । स प्राह – युष्माकं साधुभिरिति कथितं 'वयं नैष्यामः' ततो मयेयमन्येषां दत्ता धान्यादीनां वा भृता । ततो यथाभद्रकोऽसौ सागारिकस्तान् बटुकादीन् निष्काशयति, ततस्तेषु निष्काश्यमानेषु 'अधिकरणं' पृथिव्याद्युपमर्दनम् । यच्च ते प्रद्विष्टाः सागारिकस्य साधूनां वा करिष्यन्ति तन्निप्पन्नम् । वसतिं वा विना 'हिण्डमा - 5 नानाम् ' इतस्ततः पर्यटतां या संयमादिविराधना या च सूत्रार्थयोः परिहाणिस्तन्निष्पन्नमपि प्रायश्चित्तम् । तस्मान्न वक्तव्यं 'नैष्यामः' इति ॥ १५१६ ॥ किं पुनस्तर्हि वक्तव्यम् ? उच्यते-जह अम्हे तह अन्ने, गुरु-जेट्ठमहाजणस्स अम्हे मो । पुव्वभणिया उ दोसा, परिहरिया कुडमाईया || १५१७ ॥
"
यथा वयमत्रा गतास्तथा अन्येऽपि साधवस्तिसृषु दिक्षु गताः सन्ति ततो न जानीमः कीदृशं 10 क्षेत्रं तैः प्रत्युपेक्षितमस्ति ? । अस्माकं तावदिदं क्षेत्रमभिरुचितम् परं गुरवश्च - आचार्या ज्येष्ठमहाजनश्च - ज्येष्ठार्यसाधुसमुदायो गुरु-ज्येष्ठमहाजनं तस्य वयम् 'मो' इति पादपूरणे परतन्त्रा वर्त्ता - महे इति वाक्यशेषः । ततस्तत्रगतानां गुरूणां ज्येष्ठार्याणां वा यद् विचारे समेप्यति तद् विधास्यामः । एवं ब्रुवाणैः 'पूर्वभणिताः ' कुड्यकरणादयो दोषाः परिहृताः || १५१७ ॥ इत्थमुक्त्वा सागारिकमापृच्छय ते किं कुर्वन्ति ? इत्याह
15.
जह पंच तिनि चत्तारि छसु सत्तसु य पंच अच्छंति । चोयगपुच्छा सज्झायकरण वच्चंत -अच्छंते ।। १५१८ ॥
यदि ते पञ्च जनास्ततस्त्रयस्तत्रैवासते द्वौ गुरुसकाशं गच्छतः । अथ षड् जनास्ततश्चत्वारस्तिष्ठन्ति द्वौ गुरूणामभ्यर्णे व्रजतः । अथ सप्त जनाः ततः पञ्च तत्रैवासुते द्वौ गुरूणामुपकण्ठे गच्छतः । यदि च ऋजुः पन्थाः सव्याघातस्ततोऽपरं पन्थानं प्रत्युपेक्षन्ते । नोदकः पृच्छति20. ये ते गुरुसकाशं व्रजन्ति ये च ते उपाश्रये आसते ते उभयेऽपि किं खाध्यायं कुर्वते वा न वा ? ॥ १५१८ ॥ उच्यते
वच्चंतकरण अच्छंत अकरणे लहुओं मासों गुरुओ उ । जावकालं गुरुणो, न इति सव्वं अकरणाए । १५१९ ॥
ये
तावद् जन्ति ते यदि सूत्रपौरुष कुर्वन्ति ततो मासलघु, अर्थपौरुषीं कुर्वन्ति मासगुरु | 25. ये तूपाश्रये तिष्ठन्ति तेषां सूत्रपौरुप्या अकरणे लघुको मासः, अर्थपौरुप्या अकरणे गुरुको मासः । यावत्कालं गुरूणां समीपे 'नायान्ति' न प्राप्नुवन्ति तावत् " सवं अकरणाए" ति सर्वमधि - सूत्रमर्थं च न कुर्वन्ति ॥ १५१९ ॥ इदमेव सविशेषमाह
जइ वि अनंतर खेत्तं, गयाओं तह वि अगुणंतगा एंति । निययाई मा गच्छे, इतरत्थ य सिजवाघाओ || १५२० ॥
30
यद्यपि 'अनन्तरम्' अव्यवहितमेव क्षेत्रं गतास्तथापि 'अगुणयन्तः' सूत्रार्थावकुर्वन्त आयान्ति । कुतः ? इत्याह- नित्यवासादयो दोषा गच्छस्य मा भूवन्, 'इतरत्र च ' प्रत्युपेक्षिते क्षेत्रे चिरकालं विलम्ब्यागच्छतां शय्यायाः - उपाश्रयस्य व्याघातो मा भूत् ॥ १५२० ॥
१ समीपं भा० त० डे० ॥ २ 'न या मो० ले० ॥