________________
४४९
भाप्यगाथाः १५१७-२५] प्रथम उद्देशः । यत एवमतोऽगुणयन्तः समागम्य ते इदं कुर्वन्तिते पत्त गुरुसगासं, आलोएंती जहक्कम सव्वे ।
क्षेत्रप्रत्यु
पेक्षकैः चिंता वीमंसा या, आयरियाणं समुप्पना ॥ १५२१॥
प्रत्युपे'ते' क्षेत्रप्रत्युपेक्षकाः प्राप्ताः सन्तो गुरुसकाशमालोचयन्ति यथाक्रमं सर्वेऽपि क्षेत्रखरूपम् । क्षितस्य ततस्तेषामालोचनां श्रुत्वा ‘चिन्ता' 'कस्यां दिशि व्रजामः ?' इत्येवंलक्षणा 'मीमांसा च' शिष्या- क्षेत्रस्य
आचार्याभिप्रायविचारणा आचार्याणां समुत्पन्नां ॥ १५२१ ॥ अथैनामेव गाथां भावयति
णां समक्षं __ गंतूण गुरुसगासं, आलोएत्ता कहिंति खेत्तगुणे ।
निवेदनम् न य सेसकहण मा होजऽसंखडं रत्ति साहति ॥ १५२२॥ गत्वा गुरूणां सकाशमालोच्य गमनागमनातिचारं कथयन्ति क्षेत्रगुणान् । ते चाचार्यान् विमुच्य 'न च' नैव शेषाणां साधूनां कथयन्ति । कुतः ? इत्याह-मा भूद् असडं खस्वक्षे-10 त्रपक्षपातसमुत्थम् । यद्यन्येषां कथयन्ति तदा मासलघु । तस्माद् रात्रौ "साहति" त्ति कथयन्ति ॥ १५२२ ॥ कथम् ? इति चेद् उच्यते-आचार्या आवश्यकं समाप्य मिलितेषु सर्वेष्वपि साधुषु पृच्छन्ति-आर्याः ! आलोचयत कीदृशानि क्षेत्राणि ? । तत उत्थाय गुरूनभिवन्ध बद्धाञ्जलयो यथाज्येष्ठमालोचयन्ति
पढमाएँ नत्थि पढमा, तत्थ य घय-खीर-कूर-दधिमाई । 15 बिइयाएँ बीय तइयाएँ दो वि तेसिं च धुव लंभो ॥ १५२३ ॥ ओभासिय धुव लंभो, पाउग्गाणं चउत्थिए नियमा।
इहरा वि जहिच्छाए, तिकाल जोगं च सव्वेसि ॥ १५२४ ।। 'प्रथमायां' पूर्वस्यां दिशि यद् अस्माभिः क्षेत्रं प्रत्युपेक्षितं तत्र 'प्रथमा' सूत्रपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलासम्भवात् , परं तत्र क्षेत्रे घृत-क्षीर-कूर-दध्यादीनि प्रकामं प्राप्यन्ते । 20 द्वितीयाः क्षेत्रप्रत्युपेक्षका ब्रुवते-द्वितीयस्यां दिशि 'द्वितीया' अर्थपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलाभावात् , घृत-दुग्ध-दध्यादीनि तु तथैव लभ्यन्ते । तृतीया ब्रुवते-तृतीयस्यां दिशि 'द्वे अपि' सूत्रार्थपौरुष्यो विद्येते, मध्याह्ने भिक्षालाभसद्भावात् , तेषां च घृत-दुग्धादीनां 'ध्रुवः' निश्चितो लाभ इति ॥ १५२३ ॥ तथा---
चतुर्थाः पुनरित्थमाहुः--अस्मत्प्रत्युपेक्षितायां चतुर्थ्यां दिशि प्रायोग्याणामवभाषितानां 25 'ध्रुवः' अवश्यम्भावी लाभः । 'इतरथाऽपि' अवभाषणमन्तरेणापि 'यदृच्छया' प्रकामं 'त्रिकालं' पूर्वाह्म-मध्याह्ना-ऽपराह्मलक्षणे कालत्रये 'सर्वेषामपि' बाल-वृद्धादीनां 'योग्य' सामान्यं भक्त-पानं प्राप्यते ॥१५२४॥ इत्थं सर्वैरपि स्वस्वक्षेत्रस्वरूपे निवेदिते सत्याचार्याश्चिन्तयन्ति-कस्यां दिशि गन्तुं युज्यते । ततः स्वयमेवाद्यानां तिसृणां दिशां सूत्रार्थहान्यादिदोषजालं परिभाव्य चतुर्थी दिशमनन्तरोक्तदोषरहितत्वेन गन्तव्यतया विनिश्चित्य किं कुर्वन्ति ? इत्याह
इच्छागहणं गुरुणो, कत्थ वयामो ति तत्थ ओअरिया।
खुहिया भणंति पढम, तं चिय अणुओगतत्तिल्ला ॥ १५२५ ॥ १ तत्र यथा ते आलोचयन्ति तथा प्रतिपादयति इत्यवतरणं भा० प्रती ॥ २ कहि व ता.॥
30