SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १५०९-१६] प्रथम उद्देशः । ४४७ इत्याह-यत् 'तेषां' यथालन्दिकानां 'प्रायोग्यं' कल्पनीयमलेपकृतं भक्त-पानं परिकर्मरहिता च वसतिस्तदेव गृह्णन्ति, 'क्षेत्रविभागाश्च' षड्वीथीरूपास्तानपि पूरयन्ति ॥ १५१२ ॥ जं पि न वच्चंति दिसिं, तत्थ वि गच्छेल्लगा सिं पेहंति । ___ पग्गहियएसणाए, विगई-लेवाडवज्जाई ॥१५१३ ॥ यामपि दिशं यथालन्दिका न व्रजन्ति 'तत्रापि' तस्यामपि दिशि गच्छवासिनः क्षेत्रप्रत्युपे-5 क्षकाः 'तेषां' यथालन्दिकानां योग्यं स्वप्रत्युपेक्षितक्षेत्रस्य सक्रोशयोजनाद् बहिः क्षेत्रं प्रत्युपेक्षन्ते । कथम् ? इत्याह–प्रगृहीतया-साभिग्रहया तृतीयपौरुष्यामुपरितनैषणापञ्चकस्यान्यतरयैषणया विकृति-लेपकृतवर्जे भक्त-पाने गृह्णन्ति, घृतादिका विकृतीस्तक-तीमनादिकं द्राक्षापानादिकं च लेपकृतं वर्जयन्तीत्यर्थः ॥ १५१३ ॥ जइ तिन्नि सव्वगमणं, एहामु त्ति लहुओ य आणाई । [ओ.नि.१५७] 10 परिकम्म कुड्डकरणं, नीहरणं कट्ठमाईणं ।। १५१४॥ यदि ते गच्छवासिनत्रयो जनास्ततः सर्वेषामपि गुरुसकाशे गमनम् । ते च गच्छन्तो यदि सागारिकेण पृच्छ्यन्ते 'किं यूयमागमिष्यथ न वा ?' ततो यदि 'एष्यामः' आगमिप्याम इति निर्वचनमर्पयन्ति ततो लघुको मासः आज्ञादयश्च दोषाः । शय्यातरश्चिन्तयति—'यदेते एप्याम इत्युक्त्वा प्रतिगतास्तद् नूनमागमिष्यन्ति' इति परिभाव्य 'परिकर्म' उपलेपनादिकं वसतेः 15 कुर्यात् , कुड्यस्य वा जीर्णस्योपलक्षणत्वात् कपाटस्य वा करणं-संस्थापनं विदध्यात् , काष्ठानाम् आदिग्रहणात् तृणानां धान्यस्य वा 'नीहरणं' निष्काशनं कुर्यात् ।। १५१४ ॥ यद्वा तेषामाचार्याणामपरं किमपि क्षेत्रमभिरुचितं ततस्तत्र गताः, तत्र चं क्षेत्रेऽपरे साधवः समायाताः ततः किम् ? इत्याहअद्धाणनिग्गयाई, असिवाइ गिलाणओ अ जो जत्थ । 20 हामो ति य लहुओ, तत्थ वि आणाइणो दोसा ॥१५१५॥ अध्वा-विप्रकृष्टो मार्गस्ततो निर्गताः-निष्कान्ता अशिवादिभिर्वा कारणैः प्रेरिताः परिश्रान्तास्ते साधवस्तत्रायाताः । तत्र चान्या वसतिर्नास्ति, सैव प्राचीनसाधुप्रत्युपेक्षिता वसतिस्तैर्याचिता । सागारिको ब्रूते-मयेयमन्येषां साधूनां दत्ताऽस्ति, तेऽप्येष्याम इति भणित्वा गताः सन्ति, अतो नाहं दातुमुत्सहे । एवं ते वसतिमलभमानाः श्वापद-स्तेन-कण्टकैः शीतेन वा प्रार-25 भ्यमाणाः प्रतिगमनादीनि कुर्युः, ग्लानो वा यस्तेषां सह विहारं कार्यमाणो यत्र यत् परितापनादिकं प्राप्नोति तन्निप्पन्नं प्रायश्चित्तम् । यतश्चैवमतः 'एप्यामः' इति न वक्तव्यम् । 'न एष्यामः' इत्यपि वदतां मासलघु, तत्राप्याज्ञादयो दोषाः ॥ १५१५ ॥ अपरे चेमे-: वक्कइअ विकएण व, फेडण धन्नाइछभणमावासे । नीणिते अहिकरणं, विराहणा हाणि हिंडते ॥ १५१६ ॥ 'नागमिप्यन्ति साधवः' इति कृत्वा विक्रयिता' वक्रयेण-भाटकेन दत्ता सा वसतिः, विक्रयेण वा दत्ता विक्रीतेत्यर्थः; स्फेटनं वा वसतेः कृतम् , धान्यस्य आदिशब्दाद् भाण्डस्यान्यस्य वा उपकरणजातस्य क्षेपणं तस्यां कृतम् , बटुक-चारणादयो वा तत्र शय्यातरेणावासिताः, तेषां चाचा 30
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy