________________
४४६
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ प्राप्यत इत्यर्थः । यदि तम्यां सत्यां 'द्वितीयां' दक्षिणां प्रत्युपेक्षन्ते ततो भक्त-पानं न लभन्ते । अथ प्रथमायां कोऽपि व्याघातस्ततो द्वितीयामपि प्रत्युपेक्षमाणाः शुद्धाः । एवमुत्तराखपि दिक्षु भावनीयम् । तथा तृतीयस्यां "उवहिमाइ"त्ति उपधिः-वस्त्र-पात्रादिकः तेनैरपहियते, तस्मॅिश्चापहृते तृणग्रहणा-ऽग्निसेवनादयो दोषाः । चतुर्थ्यां 'स्वाध्यायं न कुर्वन्ति' स्वाध्यायः कर्त्तव्यो न 5 भवतीत्यर्थः ॥ १५०७ ॥
पञ्चम्याम् 'असङ्खडं' कलहः साधूनां भवति । षष्ठ्यां 'गणस्य' गच्छस्य ‘भेदनं' द्वैधीभवनं जानीहि । सप्तमी 'ग्लान्यं' ग्लानत्वं साधूनां जनयति । अष्टम्यां पुनर्मरणमपरस्य साधोरुपजायते ॥ १५०८ ॥ अमुमेव गाथाद्वयोक्तमर्थमेकगाथया प्रतिपादयति
समाही य भत्त-पाणे, उवगरणे तुमंतुमा य कलहो उ । 10 भेदो गेलनं वा, चरिमा पुण कडए अन्नं ।। १५०९ ॥
प्रथमायां भक्त-पानलाभेन साधूनां समाधिराविर्भवति । द्वितीयायां भक्त-पानं न लभन्ते । तृतीयायामुपकरणमपहियते । चतुर्थ्यामेकः साधुरपरं भणति-त्वमेवमपराधं कृतवान् , अपरो ब्रूते-न मया अपराद्धं त्वमेवेदं विनाशितवानित्येवं तुमंतुमा भवति, तस्याः करणेन वाध्यायो
न भवतीति भावः । पञ्चम्यां 'कलहः' भण्डनम् । षष्ठ्यां 'भेदः' गच्छस्य द्वैधीभावः । सप्तम्यां 15 ग्लानत्वम् । 'चरमा' अष्टमी पुनरन्यं साधु 'कर्षति' पञ्चत्वं प्रापयतीत्यर्थः ॥ १५०९ ॥
एक्ककम्मि उ ठाणे, चउरो मासा हवंतऽणुग्धाया । ____ आणाइणो अ दोसा, विराहणा जा जहिं भणिया ॥ १५१०॥ एकंकस्मिन् स्थाने यथोक्तक्रममन्तरेण दक्षिणादीनां दिशां प्रत्युपेक्षणे चत्वारो मासा अनुदाताः प्रायश्चित्तं भवन्ति, आज्ञादयश्च दोषाः, 'विराधना' भक्त-पानालाभोपधिहरणादिका या 20 यत्र भणिता सा तत्र द्रष्टव्या ॥ १५१० ॥ एतेन विधिना यदा क्षेत्रं प्रत्युपेक्षितं भवति तदा किमपरं भवति ? इत्याह
पडिलेहियं च खेत्तं, अह य अहालंदियाण आगमणं । । ।
नत्थि उवस्सयवालो, सव्वेहि वि होइ गंतव्यं ॥ १५११॥ एकतो गच्छवासिभिः क्षेत्रं प्रत्युपेक्षितं भवति, अथात्रान्तरे यथालन्दिकानामागमनं भवति, 9 ते हि सूत्रार्थपौरुप्यावहापयन्तस्तृतीयपौरुप्यां विहारं कुर्वन्तो गच्छवासिभिः क्षेत्रे प्रत्युपेक्षिते समायान्ति, तेषां च नास्ति तत्र क्षेत्रे स्थापनयोग्य उपाश्रयपाले:, जनद्वयस्यैवागमनादिति कृत्वा सर्वैरपि भवति गन्तव्यम् ॥१५११॥ अथ ते यथालन्दिकाः कथं क्षेत्रं प्रत्युपेक्षन्ते ? उच्यते
पुच्छिय रुइयं खेत्तं, गच्छे पडिबद्ध बाहि पेहिंति । गच्छवासियथा
जं तेसिं पाउग्गं, खेत्तविभागे य पूरिति ॥ १५१२ ॥ लन्दकृते
30 ये गच्छप्रतिबद्धा यथालन्दिकास्तैर्गच्छवासिनः पृष्टाः-आर्याः ! अभिरुचितं क्षेत्रं न वा ? क्षेत्रप्रत्युपेक्षणम् इति । ततो गच्छवासिनः प्राहु:-अभिरुचितम् । ततो यथालन्दिका गच्छवासिप्रत्यु-( ग्रन्था
अम्-७०००) पेक्षितस्य क्षेत्रस्य "बाहिं" ति सक्रोशयोजनाद् बहिः क्षेत्रं प्रत्युपेक्षन्ते । कथम् ? १प्तम्यां 'ग्ला भा० विना ॥२°लः, एकाकिनः स्थातुं विहर्तुं वा न कल्पत इति कृ° भा० ॥