________________
प्रति
भाष्यगाथाः १५००-८] प्रथम उद्देशः । मितानां साधूनां दत्ता तदा यावन्तः प्राघुणकाः समायातास्तावतो वास्तव्यानन्यत्र विसl प्राघुणकाः स्थाप्यन्ते । अथ नामग्राहं गृहीत्वा नियमितानामेव साधूनां सा दत्ता ततः प्राघुणकस्य वसतिस्वरूपं निवेद्यते । निवेदिते च यदि 'ज्ञोऽपि' वसतिखरूपं जानानोऽपि तत्र वसति तदा आपद्यते मासिकं लघुकम् ॥ १५०३ ॥ ततः--
किइकम्म भिक्खगहणे, कयम्मि जाणाविओ बहिं वसइ । ।
हिय-नद्वेसुं संका, सुण्हा उब्भाम वोच्छेदो ॥ १५०४ ॥ 'कृतिकर्मणि' विश्रामणादौ भिक्षाग्रहणे च कृते सति वसतिखरूपं ज्ञापितः सन् रात्रौ बहिर्वसति । यदि ज्ञापितोऽपि सन् बहिर्न व्रजति तदा सागारिकस्य केनचिच्चौरादिना हृते नष्टे च एवमेवादृश्यमाने कस्मिंश्चिद् वस्तुनि शङ्का भवेत्-नूनं यदद्यामुकं वस्तु न दृश्यते तदेतेषां यः प्राघुणको रात्रावुषित्वा प्रतिगतः तेन हृतं भविष्यति । 'नुषा वा' वधू रात्रावुद्रामकेण सह 10 गता भवेत् तत्रापि यदि प्राघुणकस्य शङ्कां सागारिकः करोति तदा तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदो भवेत् ॥ १५०४ ॥ एवं वसतौ लब्धायां किं विधेयम् ? इत्याह--- पडिलेहियं च खेत्तं, थंडिलपडिलेहऽमंगले पुच्छा।
महास्थ. गामस्स व नगरस्स व, सियाणकरणं पढम वत्थु ॥१५०५ ॥
ण्डिलस्य यदा क्षेत्रं सम्यक् प्रत्युपेक्षितं भवति तदा 'महास्थण्डिलं' शबपरिष्ठापनभूमिलक्षणं प्रत्युपेक्ष-15 लेखना णीयम् । “अमंगले पुच्छ' त्ति नोदकः पृच्छति-भगवन् ! यूयं तिष्ठन्त एव किमेवममङ्गलं कुरुथ ?। सूरिराह-प्रामस्य वा नगरस्य वा “सियाणकरणं" श्मशानस्थापनायोग्यं 'प्रथमम्' आद्यं वास्तु प्रत्युपेक्ष्यत इति वाक्यशेषः । इयमत्र भावना-ग्राम-नगरादीनां तत्प्रथमतया निवेश्यमानानां वास्तुविद्यानुसारेण प्रथमं श्मशानवास्तु निरूप्य ततः शेषाणि देवकुल-सभासौधादिवास्तूनि निरूप्यन्ते, लोके तथादृष्टत्वात् , न च तदमाङ्गलिकम् , एवमत्रापि महास्थ- 20 ण्डिलं प्रथमं प्रत्युपेक्ष्यमाणमस्माकं नामाङ्गलिकं भवतीति ॥ १५०५ ।।। तच्च कस्यां दिशि प्रत्युपेक्षणीयम् ? उच्यते
दिस अवरदक्षिणा दक्खिणा य अवरा य दक्षिणापुव्वा ।
अवरुत्तरा य पुव्वा, उत्तर पुवुत्तरा चेव ॥ १५०६ ॥ प्रथमतो महास्थण्डिलप्रत्युपेक्षणविषया अपरदक्षिणा दिक् । अथ तस्यां नदी-क्षेत्रा-ऽऽरामा- 25 दिाघातः ततो दक्षिणा । तस्या अभाव अपरा । तदलाभे दक्षिणपूर्वा । तदसत्त्वे अपरोत्तरा। तस्या अप्यप्राप्तौ पूर्वा । तस्या असम्भवे उत्तरा । उत्तरस्या अभावे पूर्वोत्तरा दिग् मन्तव्या ॥ १५०६ ॥ अथासामेव गुण-दोषविचारणामाह
पउरन्न-पाण पढमा, बीयाए भत्त-पाण न लहंति । तइयाइ उवहिमाई, चउत्थी सज्झाय न करिति ॥ १५०७॥ 30 पंचमियाएँ असंखड, छट्ठीऍ गणस्स भेयणं जाण ।
सत्तमिया गेलनं, मरणं पुण अट्ठमीए उ ॥ १५०८॥ 'प्रथमा' अपरदक्षिणा दिक् प्रचुरान्न-पाना भवति, तस्यां प्रत्युपेक्ष्यमाणायां प्रचुरमन्न-पानं.