________________
४४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
करणं तु अणुनाए, अणणुनाए भवे लहुओ ॥ १५०० ॥ उच्चारस्य प्रश्रवणस्य 'अलाबुनिर्लेपनस्य' पात्रप्रक्षालनस्य "अच्छणए" ति खाध्यायाद्यर्थमवस्थानस्य गाथायां षष्ठ्यर्थे सप्तमी 'करणं' समाचरणं शय्यातरेणानुज्ञाते प्रदेशे कर्त्तव्यम् । अथाननुज्ञाते अवकाशे उच्चारादिकं करोति तदा लघुको मास इति ॥ १५०० ॥ । गतं भोजनद्वारम् । अथ कियच्चिरं कालमिति द्वारम्-यदि शय्यातरः प्रश्नयति 'कियन्तं कालं यूयं स्थास्यथ ?' ततो वक्तव्यम्
जाव गुरूण य तुम्भ य, केवइया तत्थ सागरेणुवमा । [ओ.नि.१५४]
केवइ कालेणेहिह, सागार ठवंति अन्ने वि ॥ १५०१॥ यावद् गुरूणां युष्माकं च प्रतिभाति तावदवस्थास्यामः, परं निर्व्याघाते मासमेकं व्याघाते तु 10 हीनमधिकं वा वयमेकत्र तिष्ठामः । अथ 'मासमेव स्थास्यामः' इति निर्धारितं भणति ततो मासलघु । अथासौ प्रश्नयेत् ‘कियन्तो यूयं तिष्ठथ ?' ततो वक्तव्यम्-"सागरेणुवम" ति सागरःसमुद्रस्तेनोपमा-यथा समुद्रः कदाचित् प्रसरति कदाचिच्चापसरति, एवमाचार्या अपि कदाचिद् दीक्षामुपसम्पदं वा प्रतिपद्यमानैः साधुभिः परिवारतः प्रसर्पन्ति कदाचित् तेष्वेवान्यत्र
गतेष्वपसर्पन्ति, अत इयन्त इति सङ्ख्यानं कर्तुं न शक्यते । यस्तु ‘एतावन्तो वयम्' इति निश्चितं 15ब्रूते तस्य मासलघु । अथासौ पृच्छति कियता कालेन 'एप्यथ' आगमिष्यथ ? ततः 'साकारं' __ सविकल्पं वचनं 'स्थापयन्ति' ब्रुवते इत्यर्थः । यथा-अन्येऽपि क्षेत्रप्रत्युपेक्षका अपरासु दिक्षु
गताः सन्ति ततस्तैर्निवेदिते यदा गुरूणां विचारे समेष्यति तदा व्याघाताभावे इयत्सु दिवसेषु गतेषु व्याघाते तु हीने अधिके वा काले वयमेष्याम इति । यः पुनः 'इयता कालेनागमिप्यामः' इति ब्रवीति तस्यं मासलघु ॥ १५०१॥
पुन्वद्दिद्वेविच्छइ, अहव भणिज्जा हवंतु एवइआ । [ओ.नि. १५५]
तत्थ न कप्पइ वासो, असई खेत्तस्सऽणुन्नाओ ॥१५०२॥ अथासौ 'पूर्वदृष्टान्' यैः प्राग् मासकल्पो वर्षावासो वा कृत आसीत् तानेवेच्छति नान्यान् , भणति च-ये साधवो मया दृष्टपूर्वास्तेषामहं शीलसमाचारं सर्वमपि जानामि अतस्त एवेह समानेतव्या न शेषाः; अथवा भणेत्-ये वा ते वा साधवो भवन्तु परमेतावन्त एवात्र तिष्ठन्तु 25 तत्र किं कर्त्तव्यम् ? इत्याह-'तत्र' एवं शय्यातरेण निर्धारिते सति 'न कल्पते वासः' न
युज्यते तस्यां वसताववस्थातुमिति भावः । अथ नास्त्यपरं मासकल्पप्रायोग्यं क्षेत्रं तत इतरस्या वसतेरलाभे तस्यामेव वसतौ वासोऽनुज्ञातः ॥ १५०२ ॥ . तत्र च वसतां यदि प्राघूर्णकः समागच्छति ततः को विधिः ? इत्याह
सक्कारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए । [ओ.नि. १५६] 30
जइ वसइ जाणओ तहिं, आवजइ मासियं लहुगं ॥ १५०३ ॥ __ 'सत्कारः' वन्दना-ऽभ्युत्थानादिः 'सम्मानः' विश्रामणादिः 'भिक्षाग्रहणम्' उपविष्टस्य भिक्षाया आनयनम् , एतत् सर्वमपि प्राघूर्णके आगते सति कर्त्तव्यम् । यदि वसतिर्येषां तेषां वा परि१ ब्रूयात् तस्य भा० ॥