________________
भाष्यगाथाः १४९२-९९] . प्रथम उद्देशः ।
४४३ वा सः 'प्रायोग्य' वक्ष्यमाणमनुज्ञाप्यते । अनुज्ञापिते सति तस्मिन् यच्च तेन प्रायोग्यमनुज्ञातं तस्य परिभोगः कार्यः । अथासौ नानुजानीते प्रायोग्यं ततो भोजनदृष्टान्तः कर्तव्यः । तथा कियचिरं कालं भवन्तः स्थास्यन्ति ? इति पृष्ट अभिधातव्यम्-यावद् भवतां गुरूणां च प्रतिभासते । कियन्तो भवन्त इहावस्थास्यन्ते ? इति पृष्टे वक्तव्यम्-सागरः-समुद्रस्तत्सदृशा आचार्या भवन्तीति सङ्ग्रहमाथासमासार्थः ॥ १४९६ ॥ अथैनामेव व्याचिख्यासुः "अणुन्नविए तम्मि" इति पदं विवृणोति
जं जं तु अणुन्नायं, परिभोगं तस्स तस्स काहिंति ।
अविदिने परिभोगं, जइ काहिइ तत्थिमा सोही ॥ १४९७ ॥ 'यद् यत्' तृण-डगलादिकं शय्यातरेणानुज्ञातं तस्य तस्य परिभोगमभिरुचिते क्षेत्रे समायाताः सन्तः करिप्यन्ति । यदि पुनः 'अवितीर्णे' शय्यातरेणाननुज्ञाते द्रव्य-क्षेत्रादौ परिभोगं कोऽपि 10 करिप्यति तत्र 'इयं' वक्ष्यमाणा शोधिः ॥ १४९७ ॥ तामेवाह-.
इक्कड-कढिणे मासो, चाउम्मासो अ पीढ-फलए।
कट्ठ-कलिंचे पणगं, छारे तह मल्लगाईसु ॥ १४९८ ॥ इक्कडमये कठिनमये च संस्तारकेऽदत्ते गृह्यमाणे लघुमासः । चत्वारो मासा लघवः पीठफलकेषु । तथा काष्ठ-कलिञ्चयोः क्षारे मल्लक-तृण-डगलादिषु च पञ्चकम् । अतः प्रायोग्यमनुज्ञा- 15 पनीयम् ॥ १४९८ ॥ अथासौ ब्रूयात् 'किं तत् प्रायोग्यम् ?' ततो वक्तव्यम् -
देव्वे तण-डगलाई, अच्छण-भाणाइधोवणा खित्ते ।।
काले उच्चाराई, भावि गिलाणाइ कूरुवमा ॥१४९९॥ प्रायोग्यं चतुर्की-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र 'द्रव्ये' द्रव्यतस्तृण-डगलानि, आदिशब्दात् क्षार-मल्लकादीनि च । क्षेत्रतः “अच्छणं" ति खाध्यायादिहेतोः प्राङ्गणादिप्रदे- 30 शेऽवस्थानम् , तथा भाजनानाम् आदिग्रहणादाचार्यादिसत्कमलिनवस्त्राणां धावनं-प्रक्षालनं च प्रतिश्रयाद् बहिर्विधीयते । कालतो रात्रौ दिवा वा अवेलायामुच्चारस्य प्रश्रवणस्य वा व्युत्सर्जनम् । भावतो ग्लानस्यापरस्य वा प्राघूर्णकादेर्निवात-प्रवाताद्यवकाशस्थापनेन समाधिसम्पादनम् इत्युक्ते यद्यनुजानाति ततः सुन्दरम् । अथ ब्रूयात् -'मया युप्मभ्यं वसतिरेव दत्ता, अहमन्यद् युप्मदीयं प्रायोग्यं न जानामि' ततो यः प्राग् भोजनदृष्टान्त उद्दिष्टः स उपदर्यते-"कूरुव-25 मेति कूरः-भक्तं तस्योपमा । यथा केनचित् कस्यापि पार्थे कूरः प्रार्थितः, तेन च दत्तः, ततस्तस्य स्नाना-ऽऽसन-भाजनोपढौकना-ऽवगाहिम-सूप-नानाविधव्यञ्जनादीन्यपि दीयन्ते; एवं भवताऽपि वसतिं प्रयच्छता सर्वमपि प्रायोग्यं दत्तमेव भवति, परं तथापि वयं भवन्तं भूयोऽपि तृतीयव्रतभावनामनुवर्तयन्तोऽनुज्ञापयामः । एवमुक्ते स सर्वमपि प्रायोग्यमनुजानीयात् ततो यत्र यद् उच्चारादिव्युत्सर्जनमनुज्ञातं तत् तत्र विधेयम् ॥ १४९९ ॥ यत आह
30 उचारे पासवणे, लाउअनिल्लेवणे य अच्छणए। १ “कलिंचि त्ति तणपूलिया” इति विशेषचूर्णौ ॥ २ गाथेयं विशेषचूर्णिकृता "जं जं तु." १४९७ गाथायाः प्राग व्याख्याताऽस्ति ।