________________
प्रथम उद्देशः ।
१४८७ ॥
चोयगवणं दीहं, पणीयगहणे य नणु भवे दोसा । [ ओ. नि. १५१] जुज तं गुरु- पाहुण- गिलाणगट्ठा न दप्पट्ठा जइ पुण खद्ध-पणीए, अकारणे एक्कसि पि गिण्हिजा । [ ओ.नि. १५२ ] हि दोसा तेण उ, अकारणे खद्ध-निद्राई ॥ १४८८ ॥
नोदकः - प्रेरकस्तस्य वचनं - चालनारूपम् — ननु तेषामित्थं दीर्घं भिक्षाचर्यां कुर्वतां प्रणी - 5 तस्य च - दधि- दुग्धादेर्ग्रहणे 'दोषाः' सूत्रार्थपरिमन्थ - मोहोद्भवादयो भवेयुः । सूरिराह - भद्र ! युज्यते 'तत्' प्रणीतग्रहणं दीर्घभिक्षाटनं च गुरु- प्राघूर्णक- ग्लानार्थम्, न 'दर्पार्थं' नात्मनो बलवर्णादिहेतोः || १४८७ ॥
भाष्यगाथाः १४८३-९१]
४४१
यदि पुनः खद्धं - प्रचुरं प्रणीतं -स्निग्ध- मधुरं ते 'अकारणे' गुर्वादिकारणाभावे एकशोsपि गृह्णीयुः ततः 'तस्मिन् ' खद्ध-प्रणीतग्रहणे भवेयुर्दोषाः । कुतः ? इत्याह-- अकारणे आत्मार्थ 10 यस्मात् तेन "खद्ध- निद्धाई" ति प्रचुर - स्निग्धानि भक्ष्यन्त इति वाक्यशेषः । अतो गुरु-ग्लानादिहेतोः क्षेत्रप्रत्युपेक्षणाकाले प्रणीतं गृह्णतां चिरं च पर्यटतां न कश्चिद् दोष इति ॥ १४८८ ॥ अथ “कुलाइँ हुवस्यं चेव" ( गा० १४८० ) ति पदं व्याख्यायते - भिक्षामटन्तः कुलानि जानन्ति । कथम् ? इत्याह
दाणे अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते ।
मामाए अचियत्ते, कुलाइँ जाणंति गीयत्था || १४८९ ॥ 'दानश्राद्धानि ' प्रकृत्यैव दानरुचीनि, 'अभिगमश्राद्धानि ' प्रतिपन्नाणुव्रतानि श्रावककुलानि, 'सम्यक्त्व श्राद्धानि ' अविरतसम्यग्दृष्टीनि तथैव 'मिथ्यात्वे' मिथ्यादृष्टिकुलानि, 'मामाकानि ' ' मा मदीयं गृहं श्रमणाः प्रविशन्तु' इति प्रतिषेधकारीणि, "अचियत्ते" त्ति नास्ति प्रीतिः साधुषु गृहमुपागतेषु येषां तान्यप्रीतिकानि, एतानि कुलानि गीतार्था पर्यटन्तः सम्यग् जानन्ति 20 ॥ १४८९ ॥ उपाश्रयाँश्च जानन्ति । कथम् ? इत्याह
15
जेहिं कया उ उवस्य, समणाणं कारणा वसहिहेउं ।
परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ॥ १४९० ॥
इह श्रमणाः पञ्चधा --- तापसाः शाक्याः परिव्राजका आजीवका निर्ग्रन्थाश्च । तेषां पञ्चानां निर्मन्थानामेव वा 'कारणात्' कारणमुद्दिश्येत्यर्थः, कारणमेव व्यनक्ति - वसतिः - अवस्थानं 25 तद्धेतोः - तन्निमित्तम्, यैर्गृहिभिः कृता उपाश्रयास्तेषां समीपे भिक्षामटद्भिः ' परिपृच्छ्य' उपाश्रयमूलोत्पत्तिं पर्यनुयुज्य 'सदोषाः ' सावद्यदोषदुष्टास्ते उपाश्रयाः प्रयलेन परिहर्तव्याः ॥। १४९० ॥ तथा —
जेहिं कया उ उवस्सय, समणाणं कारणा वसहिउं ।
परिपुच्छिय निद्दोसा, परिभोत्तुं जे सुहं होइ (होति ) ।। १४९१ ॥ 30 यैः कृता उपाश्रयाः 'श्रमणानां' निर्मन्थवजनां शाक्यादीनां कारणाद् वसतिहेतोता परिपृच्छ्य 'निर्दोषाः' निरवद्यास्ते उपाश्रयाः परिभोक्तुं “जे" इति निपातः पादपूरणे 'खुलं भवन्ति'
१ श्रीयात् ततः मो० ले० विना ॥