________________
४४०
सनियुक्ति-लघुभाष्य-वृत्तिकै बृहत्कल्पसूत्रे (मासकल्पप्रकृते सूत्रम् १ रुषः' मा रोष कार्षीः 'यदेते न गृह्णन्ति' इति । एतच्चामी परीक्षार्थं कुर्वन्ति 'किमयं दानशीलो न वा ?' इति ॥ १४८२ ॥
अहव न दोसीणं चिय, जायामो देहि णे दहिं खीरं ।
खीरे घय गुल गोरस, थोवं थोवं च सव्वत्थ ।।१४८३ ।। [ओ.नि.१४७] 5 अथवा न वयं दोसीणमेव याचामः किन्तु देहि "णे" अस्मभ्यं दधि क्षीरं च । धीरे लब्धे सति घृतं गुडं गोरसं च याचित्वा सर्वत्र स्तोकं स्तोकमेव गृह्णन्ति । एवं तावत् प्रत्युषसि येषु भिक्षाया देशकालो यानि च भद्रककुलानि तानि सम्यगवधारयन्ति यथा बाल-वृद्ध-क्षपकादीनां प्रथम-द्वितीयपरीषहार्दितानां समाधिसन्धारणार्थ प्रातरेव तेषु पेयादीनि याचित्वोपनी
यन्ते । एवमेकस्य पर्याप्तं गृहीत्वा वसतिमागम्यालोचनादिविधिपुरस्सरं समुद्दिश्य मध्याहे द्वितीये 10 विभागे भिक्षा पर्यटन्ति ॥ १४८३ ॥ कथम् ? इत्याह
मज्झण्हें पउर भिक्खं, परिताविय पेज जूस पय कढियं ।
ओभट्ठमणोभटुं, लब्भइ जं जत्थ पाउग्गं ॥ १४८४ ॥ [ओ.नि. १४८] मध्याह्ने प्रचुरं भैक्षं तथा 'परितापितं' परितलितं सुकुमारिकादि पक्वान्नं यद्वा 'परितापितं' कथितं कट्टरादिकमित्यर्थः ‘पेया' यवागू: 'यूषः' मुद्गरसः तथा 'पयः' दुग्धं 'कथितं' तापितम् । 15 एवमेव भाषितमनवभाषितं वा यद् यत्र प्रायोग्यमन्विष्यते तत् तत्र यदि लभ्यते तदा प्रशस्तं
तत् क्षेत्रम् । अत्राप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवृत्त्य समुद्दिश्य संज्ञाभूमी गत्वा वैकालिकी पात्रादिप्रत्युपेक्षणां कृत्वा सायाहे तृतीये विभागे भिक्षामटन्ति ॥ १४८४ ॥ कथम् ? इत्याह
चरिमे परिताविय पेज खीर आएस-अतरणट्ठाए।
एकेकगसंजुत्तं, भत्तटुं एकमेकस्स ॥ १४८५ ॥[ओ.नि. १४९] 20 चरिमे भिक्षाकाले परितापितं पेया क्षीरं च येषु प्राप्यते तानि कुलानि सम्यगवधारयन्ति । किमर्थम् ? इत्याह-आदेशाः-प्राघूर्णकास्तदा समागच्छेयुः, अतरणः-ग्लानस्तदानीं पथ्यमुपयुञ्जीत तदर्थम् , उपलक्षणत्वाद् बालाद्यर्थ च । अत्राप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवर्तन्ते । यत आह-"एक्केवग" इत्यादि । एकैकः साधुरन्यसाधुना संयुक्तो यस्मिन्नानयने तदेकैकसं
युक्तं 'भक्तार्थम्' उदरपूरमाहारमेकैकस्य साधोरायानयन्ति । इदमुक्तं भवति-प्रातौं साधू 25 सङ्घाटकेन पर्यटतः, तृतीयो रक्षपाल आस्ते; द्वितीयस्यां वेलायां तयोर्मध्यादेक आस्ते, अपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति; तृतीयस्यां तु द्वितीयवेलारक्षपालः प्रथमव्यवस्थितरक्षपालेन सह पर्यटति, यस्तु वारद्वयं पर्यटितः स तिष्ठति; एवं त्रयाणां जनानां द्वौ द्वौ वारौ पर्यटनं योज. नीयम् ॥ १४८५ ॥ किञ्च
ओसह मेसजाणि य, काले च कुले अ दाणसढाई । 30
सग्गामे पेहिता, पेहंति तओ परग्गामे ॥ १४८६ ॥ [ओ.नि. १५०] 'औषधामि हरीतक्मादीनि 'भैषजानि' पेयादीनि त्रिफलादीनि वा चशब्दात् पिप्पलक. सूच्यादीनि च “काले म" त्ति येषु कुलेषु यत्र काले वेला यानि वा दानश्राद्धादीनि कुलानि प्रणानि खग्रामे प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते ॥ १४८६ ॥ अत्र च चालनां कारयति