________________
४३९
भाष्यगाथाः १४७३-८२] प्रथम उद्देशः । "थंडिलपडिलेहऽहालेदे" ( गा० १४७२ ) ति पदं व्याख्यानयति
सुत्तत्थपोरिसीओ, अपरिहवंता वयंतऽहालंदी।
थंडिल्ले उवओगं, करिति रत्तिं वसंति जहिं ॥ १४७८ ॥ यथालन्दिकाः सूत्रार्थपौरुष्यावपरिहापयन्तो विहारं भिक्षाचर्यां च तृतीयस्यां पौरुप्यां कुर्वाणा वजन्ति । यत्र च रात्रौ वसन्ति तत्र 'स्थण्डिले' कालग्रहणादियोग्ये उपयोगं कुर्वन्ति ॥ १४७८ ॥5 __ केन विधिना गच्छवासिनस्तत्र क्षेत्रे प्रविशन्ति ? इत्याह
सुत्तत्थे अकरिता, भिक्खं काउं अइंति अवरण्हे ।
बीयदिणे सज्झाओ, पोरिसि अद्धाए संघाडो ।।१४७९।। ओ.नि.१४५] सूत्रार्थावकुर्वन्तः प्रस्तुतक्षेत्रासन्ने ग्रामे भिक्षां कृत्वा समुद्दिश्य अपराह्ने विचारभृमिस्थण्डिलानि प्रत्युपेक्षमाणा विवक्षित क्षेत्रं “अइंति" त्ति प्रविशन्ति । ततो वसतिं गृहीत्वा तत्रावश्यकं कृत्वा 10 कालं प्रत्युपेक्ष्य प्रादोषिकं खाध्यायं कृत्वा प्रहरद्वयं शेरते । ये तु न शेरते तेऽर्द्धरात्रिक-वैरात्रिककालद्वयमपि गृह्णन्ति । ततः प्राभातिकं कालं गृहीत्वा द्वितीयदिने स्वाध्यायः कर्त्तव्यः । ततोऽर्णीयां पौरुष्यामतिक्रान्तायां सङ्घाटको भिक्षामटति ॥ १४७९ ॥ एतदेवाह
वीयार भिक्खचरिया, वुच्छाणऽचिरुग्गयम्मि पडिलेहा ।
चोयग भिक्खायरिया, कुलाइँ तहुवस्सयं चेव ॥१४८०॥ 15 विचारभूमी प्रथममेवाऽपराह्ने प्रत्युपेक्षणीया । ततो रात्रावुषितानामचिरोद्गते सूर्ये अर्द्धपौ. रुप्यां भिक्षाचर्यायाः प्रत्युपेक्षणा भवति । अत्र नोदकः प्रश्नयति-किमिति प्रातरारभ्य भिक्षाचर्या विधीयते । सूरिरभिदधाति–एवं भिक्षाचर्यां कुर्वाणाः 'कुलानि' दानकुलादीनि तथोपाश्रयं च ज्ञास्यन्तीति समासार्थः ॥ १४८० ॥ अथैतदेव व्याचष्टेवाले वुड्ढे सेहे, आयरिय गिलाण खमग पाहुणए ।
20 तिन्नि य काले जहियं, भिक्खायरिया उ पाउग्गा ॥१४८१ ॥ षष्ठी-सप्तम्योरथं प्रति अभेदाद् बालस्य वृद्धस्य शैक्षस्य आचार्यस्य ग्लानस्य क्षपकस्य प्राघूर्णकस्य च 'प्रायोग्या' तदनुकूलप्राप्यमाणभक्त-पाना 'त्रीनपि' पूर्वाह्न-मध्याह्न-सायाह्नलक्षणान् कालान् यत्र भिक्षाचर्या भवति तत् क्षेत्रं गच्छस्य योग्यमिति गम्यते ॥ १४८१ ॥ . कथं पुनस्तत् प्रत्युपेक्ष्यते ? इत्याह--
खेत्तं तिहा करित्ता, दोसीणे नीणितम्मि उ वयंति ।
अन्नोन्ने बहुलद्धे, थोवं दल मा य रूसिज्जा ॥ १४८२ ॥[ओ.नि.१४६] क्षेत्रं 'त्रिधा' त्रीन् भागान् कृत्वा एकं विभागं प्रत्युषसि पर्यटन्ति, द्वितीयं मध्याहे, तृतीयं सायाहे । तत्र यत्र प्रातरेव भोजनस्य देशकालस्तत्र प्रथमं पर्यटन्ति । अथ नास्ति प्रातः क्वापि देशकालस्ततः “दोसीणे" पर्युषिते आहारे निस्सारिते वदन्ति, यथा-अन्यान्येषु गृहेषु 30 पर्यटद्भिः बहुः-प्रचुर आहारो लब्धस्तेन च भृतमिदं भाजनम् अतः स्तोकं देहि, ‘मा च
१ "जत्थ य वसंति तत्थ महाथंडिल्लस्स उवओगं करेंति" इति विशेषचूर्णौ ॥ २°ना एवंविधा 'त्रिष्वपि' पूर्वाह्व-मध्याह्न-सायाह्नलक्षणेषु कालेषु यत्र भा० ॥