________________
४३८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ प्ररूपिते नोदकपृच्छा वक्तव्या । स्थण्डिलप्रत्युपेक्षणं यथालन्दिकानां वाच्यम् ॥ १४७२ ॥ तत्र गमनद्वारं विवृणोति
पंथुच्चारे उदए, ठाणे भिक्खंतरा य वसहीओ।
तेणा सावय वाला, पञ्चावाया य जाणविही ।।१४७३॥ [ओ. नि. १४४] 5 'पन्थानं' मार्ग "उच्चारे" त्ति उच्चार-प्रश्रवणभूमिके, “उदए" ति पानकस्थानानि येषु बालादियोग्यं प्राशुकैषणीयं पानकं लभ्यते, "ठाणे" ति विश्रामस्थानानि, “भिक्ख" ति येषु येषु प्रदेशेषु भिक्षा प्राप्यते न वा, अन्तरा-अन्तराले वसतयः-प्रतिश्रयाः सुलभा दुर्लभा वा, स्तेनाः श्वापदा व्यालाश्च यत्र सन्ति न वा, प्रत्यपायाश्च यत्र दिवा रात्रौ वा भवन्ति, तदेतत् सर्व
सम्यग् निरूपयद्भिर्गन्तव्यम् । यानं-गमनं तस्य विधिरयं द्रष्टव्य इति ॥ १४७३ ॥ 10 इदमेव व्याचिख्यासुराह
वावारिय सच्छंदाण वा वि तेसिं इमो विही गमणे ।
दव्वे खेचे काले, भावे पंथं तु पडिलेहे ॥ १४७४ ॥ 'व्यापारिताः' आचार्येण नियुक्ताः 'स्वच्छन्दाः' नाम ये आभिग्रहिकाः, तेषामुभयेषामप्ययं गमने विधिः । तद्यथा---द्रव्यतः क्षेत्रतः कालतो भावतश्च पन्थानं प्रत्युपेक्षन्ते ॥ १४७४ ।। 15 कथम् ? इत्याह
कंटग तेणा वाला, पडिणीया सावया य दव्वम्मि । सम विसम उदय थंडिल, भिक्खायरियंतरा खेत्ते ॥ १४७५ ॥ दिय राओं पञ्चवाए, य जाणई सुगम-दुग्गमे काले ।
भावे सपक्ख-परपक्खपेल्लणा निण्हगाईया ॥ १४७६ ॥ 20 द्रव्यतः कण्टकाः स्तेना व्यालाः प्रत्यनीका श्वापदाश्च पथि प्रत्युपेक्षणीयाः । क्षेत्रतः 'समः' गिरिकन्दरा-प्रपात-निनोन्नतरहितः पन्थाः, 'विषमः' तद्विपरीतः, "उदग" ति पानीयबहुलो मार्गः, स्थण्डिलानि भिक्षाचर्या तथा 'अन्तरा' अपान्तराले वसतयः ॥ १४७५ ॥
कालतो दिवा रात्रौ वा प्रत्यपायान् जानाति, यथा-अत्र दिवा प्रत्यपाया न रात्रौ, अत्र तु रात्रौ न दिवेति; यद्वा दिवा रात्रौ वाऽयं पन्थाः सुगमो दुर्गमो वा । भावतः खपक्षेण परपक्षेण वा 25 प्रेरितः-आक्रान्तोऽयं ग्रामः पन्था वा न वेति । अथ कः पुनः स्वपक्षः को वा परपक्षः ? इत्याह
"निण्हगाईय" ति निव-पार्श्वस्थादयः साधुलिङ्गधारिणः खपक्षः, आदिग्रहणात् चरक-परिव्राजकादयः परपक्षः । एवं प्रत्युपेक्षमाणास्तावद् व्रजन्ति यावद् विवक्षितक्षेत्रं प्राप्ताः ॥ १४७६ ॥ उक्तं गमनद्वारम् । अथ नोदकपृच्छाद्वारमाह
सुत्तत्थाणि करिते, न व त्ति वचंतगाउ चोएइ ।
न करिति मा हु चोयग!, गुरूण निइआइआ दोसा ॥ १४७७॥ परो नोदयति-क्षेत्रप्रत्युपेक्षका व्रजन्तः किं सूत्रार्थी कुर्वते न वा । गुरुराह-न कुर्वन्ति, मा भूवन् गुरूणां नित्यवासादयो दोषाः । अतो यदि सूत्रपौरुषीं कुर्वन्ति तदा मासलघु, अर्थपौरुष्यां मासगुरु ॥ १४७७ ॥