________________
भाप्यगाथाः १४६४-७२ ]
४३७
प्रथम उद्देशः ।
बुड्डोऽणुकंपणिजो, चिरेण न य मग्ग थंडिले पेहे ।
अहवा वि बाल- बुड्ढा, असमत्था गोयरतियस्स ।। १४६८
'वृद्ध:' परिणतवया अनुकम्पनीयो लोकस्य भवति, ततश्चायं सर्वत्रापि लभते नापरः । तथा स मन्दं मन्दं गच्छन् चिरकालेनोपैति, न च 'मार्ग' पन्थानं स्थण्डिलानि च प्रत्युपेक्षते । अथवा बाल-वृद्धावसमर्थौ ‘गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येति ॥ १४६८ ॥ योगवाहिद्वारमाह- -5 तूरंतो व न पेहे, गुणणालोभेण न य चिरं हिंडे ।
विगई पडिसेहेई, तम्हा जोगिं न पेसिज्जा ।। १४६९ ॥
योगवाही 'श्रुतं मम पठितव्यं वर्त्तते' इति त्वरमाणः सन्नपान्तराले पन्थानं न प्रत्युपेक्षते । गुणना - परावर्त्तना तस्या लोभेन चिरमसौ भिक्षां न हिण्डते । लभ्यमानामपि 'विकृतिं ' घृतादिकामसौ प्रतिषेधयति । तस्माद् योगिनं न प्रेषयेत् ॥ १४६९ ॥ अगीतार्थद्वारमाहपंथं च मास वासं, उवस्सयं एच्चिरेण कालेन ।
10
एहामो त्ति न याणइ, अगीतों पडिलोम असती ।। १४७० ।। अगीतार्थः ' पन्थानं' मार्ग 'मासं' मासकल्पविधिं 'वास' वर्षावासविधिं 'उपाश्रयं' वसतिमेतानि परीक्षितुं न जानाति । तथा शय्यातरेण पृष्टः 'कदा यूयमागमिष्यथ ?' ततोऽसौ ब्रवीति - 'इयता कालेन' अर्द्धमासादिना वयमेष्याम इत्येवं वदतो यः खल्वविधिभाषणजनितो दोषस्तम - 15 गीतार्थो न जानाति । यत एवमतः प्रथमतो गणावच्छेदकेन गन्तव्यम् । तस्याभावेऽपरोऽपि यो गीतार्थः स व्यापारणीयः । तस्यापि 'असति' अभावे 'प्रतिलोमं' पश्चानुपूर्व्या एताने वागीतार्थ - मादिं कृत्वा प्रेषयेत् ॥ १४७० ॥ केन विधिना ? इति चेद् उच्यते
तिनेव गच्छवासी, हवंतऽहालंदियाण दोन जणा ।
गमणे चोदगपुच्छा, थंडिलपडिलेह हालंदे || १४७२ ॥
जघन्यतस्त्रयो गच्छ्वासिनो जना एकैकस्यां दिशि व्रजन्ति । यथालन्दिकानां तु गच्छप्रतिबद्धानां द्वौ जनावेकस्यां दिशि क्षेत्रप्रत्युपेक्षकौ गच्छतः । शेषासु तिसृषु दिक्षु गच्छवासिनामाचार्या आदिशन्ति, यथा -- यथालन्दिकानामपि योग्यं क्षेत्रं प्रत्युपेक्षणीयम् । तेषां च गमने
सामायारिमगीए, जोगिमणागाढ खमग पारावे ।
क्षेत्रप्रत्यु20 पेक्षाकृते
गमन
वेयावच्चे दायण, जुयल समत्थं व सहियं वा ॥। १४७१ ।। [ ओ. नि. १४३ ] अगीतार्थः ओघनिर्युक्तिसामाचारीं कथयित्वा प्रेषणीयः । तदभावे ' अनागाढयोगी' बाह्ययोगवाही योगं निक्षिप्य प्रेप्यते । तस्याप्यभावे क्षपकः, तं च प्रथमं 'पारयेत्' पारणं कारयेत्, ततो 'मा क्षपणं कार्षीः' इति शिक्षां दत्त्वा प्रहिणुयात् । तस्याप्यभावे वैयावृत्त्यकरः प्रेप्यते । "दायण" ति स वैयावृत्त्यकरो वास्तत्र्यसाधूनां स्थापनाकुलानि दर्शयति । ततो बाल-वृद्धयुगलम्, कथम्भूतम् ? ‘समर्थं' दृढशरीरम्, वाशब्दो विकल्पार्थः, 'सहितं वा' वृषभसाधुसमन्वितम् । इत्थमादिष्टैस्तैः 25 शेषसाधूनां स्वमुपधिं समर्प्य परस्परं क्षामणां कृत्वा गमनकाले भूयोऽपि गुरूनापृच्छय गन्तव्यम् । यदि नापृच्छन्ति तदा मासलघु । ते चावश्यिकीं कृत्वा निर्गच्छन्ति ॥ ९४७१ ॥ कियन्तः ? कथं च ? इत्याह
अपवादतः क्षेत्रप्रत्यु
पेक्षकाः
30
विधिः प्र
त्युपेक्षणी
यस्य च
निरूपणा