SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ उत्सर्गतः योग्या अयोग्याश्च क्षेत्रप्रत्यु पेक्षकाः 6 10 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ४३६ जघन्येन तु त्रयः साधवो नियमाद् गच्छन्ति ॥ १४६३ ॥ तत्र च ये आभिग्रहिकाः - क्षेत्रप्रत्युपेक्षणार्थं प्रतिपन्नाभिग्रहास्ते स्वयमेव गुरुनापृच्छय गच्छन्ति । अथ न सन्त्याभिग्रहिकास्ततः को विधि: ? इत्याह वेयावच्चगरं बाल वुड्डु खमयं वहंतऽगीयत्थं । गणच्छे अगमणं, तस्स व असती य पडिलोमं ॥ १४६४ ॥ वैयावृत्त्यकरं १ बालं २ वृद्धं ३ क्षपकं ४ ' वहन्तं' योगवाहिनं ५ अगीतार्थं ६ एतान् न क्षेत्रप्रत्युपेक्षणाय व्यापारयेत्, किन्तु गणावच्छेदकस्य गमनं भवति । तस्य वाशब्दादपरस्य वा गीतार्थस्य ‘असति' अभावे 'प्रतिलोमं' प्रतीपक्रमेण पश्चानुपूर्व्येत्यर्थः, एतानेवागीतार्थमादिं कृत्वा व्यापारयेदिति सङ्ग्रहगाथासमासार्थः ।। १४६४ ॥ 25 अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह आइतिए चउगुरुगा, लहुओ मासो उ होइ चरिमतिए । आणाइणो विराहण, आयरियाई मुणेयव्वा ।। १४६५ ‘आदित्रिके' वैयावृत्त्यकर - बाल-वृद्धलक्षणे व्यापार्यमाणे चत्वारो गुरुकाः । ' चरमत्रिकेतु' क्षपक- योगवाहि-अगीतार्थलक्षणे लघुको मासः । आज्ञादयश्च दोषाः, विराधना चाऽऽचार्या - 15 दीनां ज्ञातव्या ॥ १४६५ ॥ तामेव भावयति ठवणकुले व न साहइ, सिट्ठा व न दिंति जा विराहणया । परितावणमणुकंपण, तिह समत्थो भवे खमओ ॥ १४६६ ॥ । वैयावृत्त्यकरः प्रेप्यमाणो रुप्यति । रुषितश्च यान्याचार्यादिप्रायोग्यदायकानि स्थापनाकुलानि तानि न कथयति । ‘शिष्टानि वा' कथितानि परं तानि तस्यैव ददति नान्यस्य, तेन भावित - ‘०त्वात् तेषाम् । ततोऽलभ्यमाने प्रायोग्ये या काचिदात्मनो ग्लानादीनां वा विराधना तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् । अथ क्षपकं प्रेषयति ततो यदसौ शीता -ऽऽतपादिना परिताप्यते तन्निप्पन्नम्, देवता वा काचित् क्षपकमनुकम्पमाना खलु क्षेत्रेऽपि भक्त - पानमुत्पादयति, लोको वा क्षपक इति कृत्वा तस्यानुकम्पया सवर्मपि ददाति नान्यस्य, तपःक्षामकुक्षिश्चासौ तिसृणां गोचरचर्याणामसमर्थ इति ॥ १४६६ ॥ बालद्वारमाह हीरेज व खेलेज व, कज्जा - कज्जं ने याणई बालो । सो व अणुकंपणजो, न दिति वा किंचि बालस्स ॥ १४६७ ॥ ह्रियेत वा म्लेच्छादिना, खेलयेद् वा चेटरूपैः सार्द्धम्, 'कार्या- ऽकार्यं च' कर्तव्याऽकर्त्तव्यं न जानाति बालः । ‘स वा' बालः स्वभावत एवानुकम्पनीयो भवति ततः सर्वोऽपि लोकस्तस्य भक्त-पानं प्रयच्छति । स चागत्याचार्याय कथयति — यथा सर्वमपि प्रायोग्यं तत्र प्राप्यते । 30 ततस्तद्वचनादागतस्तत्र गच्छः, यावन्न किञ्चिद् लभ्यते । न ददति वा किञ्चिद् बालाय लोकाः, पराभवनीयतया दर्शनात् ॥ १४६७ ॥ वृद्धद्वारमाह १ न जाणए बालो ता० ॥ ------
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy